मूलम्
अभ्यास एव सर्वत्र सुखदुःखनियामकः । मनःप्रीतिकरः स्वर्गः नरकः तद्विपर्ययः ॥
मूलम्
देशकालदशाभिन्नस्वभावेन व्यवस्थितः । तस्यैव परिभाषेयं पापं पुण्यमिति द्विधा ॥
मूलम्
अग्नेश्शीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥
मूलम्
सुखाभावो दुःखमिति व्यवहारस्य गोचरः । आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥