मूलम्
यदि गच्छेत्परं लोकं देहादेष विनिर्गतः ॥
मूलम्
कस्माद्भूयो न चायाति बन्धुस्नेहसमाकुलः । यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ॥
मूलम्
भस्मीभूतस्य देहस्य पुनरागमनं कुतः । यावज्जीवं चाग्निहोत्रं जुहुयादिति वै श्रुतिः ॥
मूलम्
ब्राह्मणस्य च देहोऽयं नोपभोगाय जायते । इह क्लेशाय महते प्रेत्यानन्तसुखाय च ॥
मूलम्
इत्यादि वचनं सर्वं स्मृतमास्थानिवृत्तये । शरीरमाद्यं धर्मस्य साधनं चापि कीर्तितम् ॥
मूलम्
महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया । गन्तुं दुःखोदधेः पारं त्वर यावन्न भिद्यते ॥
मूलम्
आयुरारोग्यमैश्वर्यं योगाङ्गं चेति कीर्त्यते । अरोगदृढगात्रत्वं सुखमुत्साहकारणम् ॥
मूलम्
आत्मनां नित्यातायां तु नैवास्थायाः परिक्षयः । तस्माद्देहात्मसिद्धान्तः द्रुतं रागविभञ्जकः ॥