मूलम्
तत्र चत्वारि भूतानि भूमिवार्यनलानिलाः । चतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥
मूलम्
किण्वादिभ्यस्समेतेभ्यः द्रव्येभ्यो मदशक्तिवत् । अहं स्थूलः कृशो गौरः इति साक्षात्प्रतीतितः ॥
मूलम्
देहे स्थौल्यादियोगाच्च स एवात्मा न चापरः । बुद्धेश्च देहधर्मत्वे देहस्य क्षणिकत्वतः ॥
मूलम्
तस्या आशु विनाशोऽपि सम्यगेवोपपद्यते । बुद्धेर्नित्यात्मधर्मत्वे स्याद्बुद्धिरपि शाश्वती ॥
मूलम्
बुद्ध्यन्तरेण नाशादिकल्पनं दुरुपद्रवम् । तथा बुद्धेर्गुणत्वं वा द्रव्यत्वं कैश्चिदिष्यते ॥
मूलम्
तद्भूतस्पन्दधीवादमसत्कर्तुमिति स्थितम् । आत्मनो द्रव्यता कैश्चिदिष्यते नित्यताऽऽप्तये ॥
मूलम्
पर्यायतस्त्वितरथा क्षणिको देहवद्भवेत् । नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन ॥
मूलम्
विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः । अग्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः ॥
मूलम्
केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिः । तत्तथैव स्वीक्रियते यद्यथैव प्रतीयते ॥
मूलम्
प्रामाणिकं स्वरूपं यत् स्वभावस्स्यात्स एव हि । मृत्युरेवापवर्गस्स्यादिति वाचस्पतेर्मतम् ॥
मूलम्
न स्वर्गो नापवर्गो वा विद्यते पारलौकिकः ।