मूलम्
तत्र लौकायतं लोकसिद्धं व्याख्यानपेक्षितम् । तथापि संगतिज्ञप्त्यै प्राचामुक्तिरनूद्यते ॥
टीका
प. म.[6 भ.]
मूलम्
लौकायतं शास्त्रमेव प्रमाणं सर्वथा मतम् । पुमर्थौ यत्रार्थकामौ प्रत्यक्षैकप्रमाणता ॥
मूलम्
प्रत्यक्षाल्लोकशब्दार्थादधिकं च तदायतम् । इति बार्हस्पत्यसूत्रभाष्यकृद्भिरुदीरितम् ॥
मूलम्
इति सर्वार्थसिद्धौ श्रीवेदान्तार्यैरनूदितम् । एतेन सूत्रभाष्यादिसम्प्रदायोऽपि गम्यते ॥