मूलम्
सदसत्सदसच्चेति यस्य पक्षो न विद्यते । उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते ॥
टीका
मा. वृ.[4]
मूलम्
परस्परं मत्सरिणः प्रवादास्सकला अपि । इच्छन् सर्वत्राविशेषं आर्हतोऽपक्षपात्यसौ ॥
मूलम्
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरद्ध्यन्ते तैरयं न विरुध्यते ॥
टीका
गौ. का.[3,17]
मूलम्
एवं हि स्वस्वसिद्धान्तसमुत्कर्षं विदुः क्रमात् । सौगता आर्हताश्चापि तथौपनिषदा अपि ॥
मूलम्
एवं स्वीयोत्कर्षवादं सर्वे दार्शनिका विदुः । सर्वत्रैतादृशी रीतिरित्येषा दिक्प्रदर्शिता ॥