30 सर्वसमासः

मूलम्

अनात्मवादिनः केचित्केचिदात्मैकवादिनः । अद्वैतवादिनः केचित्केचित्तु द्वैतवादिनः ॥

मूलम्

जीवैकवादिनः केचित्केचिद्ब्रह्मैकवादिनः । तादात्म्यवादिनः केचित् केचित्तद्भेदवादिनः ॥

मूलम्

स्याद्भावाभावयोरेवं कार्यकारणयोरपि । स्यान्नित्यानित्ययोश्चैवं तथा वै मानमेययोः ॥

मूलम्

स्याद्द्रव्याद्रव्ययोरेवं तथा वै धर्मधर्मिणोः । एषैव रीतिस्सर्वेषु चित्रा मानुषशेमुषी ॥