मूलम्
विशेषवादिनः केचित् केचित्सामान्यवादिनः । तदैक्यवादिनः केचित्केचित्तद्भेदवादिनः ॥
मूलम्
साधने बाधने चापि न च तत्र बलाबलम् । कदाचिन्निश्चितं कैश्चित्तस्मान्मध्यस्थता वरम् ॥
टीका
श्लोक.[633]
मूलम्
इत्यन्यानन्यते तत्र स्तो न स्तश्चेति कीर्त्यते । इति तादात्म्यमिच्छन्ति कुमारिलमुखाः परे ॥