28 नैरात्म्यसिद्धान्तः

मूलम्

अथ नैरात्म्यसिद्धान्तः किञ्चिदत्र प्रदर्श्यते । पदार्थानां स्वतो रूपं न किञ्चिद्व्यवतिष्ठते ॥

टीका

वा. प.[2-441]

मूलम्

इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथायथाऽर्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥

टीका

अ. द.[शून्यवादः]

मूलम्

बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥

मूलम्

विवक्षामात्रतन्त्राः स्युश्शब्दाः तेऽर्थानिबन्धनाः । वस्तुव्यवस्थापनाय व्यवहारा न हीशते ॥

मूलम्

यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥

टीका

वा. प.[1-34]

मूलम्

इत्याहुरपरे प्राज्ञाः ते वै शाब्दिकसौगताः । विचित्राः पुमभिप्रायाः वर्तन्ते देशकालयोः ॥