मूलम्
तत्र बाह्यार्थमात्रस्य तत्त्वं लौकायता विदुः । तथैवान्तरमात्रस्य यौगाचारा विजानते ॥
मूलम्
बाह्यमाभ्यन्तरं चेति कापिलाद्याः विदुः परे । पातञ्जलास्त्वीश्वराख्यं पुंविशेषं विजानते ॥
मूलम्
तच्च तत्त्वान्तरमिति प्रायेणेश्वरवादिनः । द्रव्यं पदार्थः केषाञ्चित् सर्वं द्रव्यात्मकं यतः ॥
मूलम्
महासामान्यमन्यैस्तु द्रव्यं सदिति चोच्यते । गुणः पदार्थः केषाञ्चित् गुणबृन्दं यतोऽखिलम् ॥
मूलम्
द्रव्यं गुण इति द्वेधा पदार्थ इति केचन । द्रव्याद्रव्यविभागोऽपि मतेऽस्मिन् पर्यवस्यति ॥
मूलम्
संयोगान्तर्गतः कर्मपदार्थ इति भूषणः । केचित्कर्मानुजानन्तो बहुधाऽत्र विशेरते ॥
मूलम्
जातिः पदार्थः केषाञ्चित् सर्वं जात्यात्मकं विदुः । अपोहवादिनस्सौत्रान्तिकाः व्यावृत्तिवादिनः ॥
मूलम्
द्रव्यं गुणः कर्म चेति केषाञ्चित् त्रिविधो मतः । त्रयाणामर्थ इत्याख्यां कणादश्चाप्यसूत्रयत् ॥
टीका
वै. सू.[8-2-3]
मूलम्
संस्थानमेव सामान्यं तेषामभिमतं भवेत् । परे द्रव्याद्रव्ययोश्च भेदाभेदं विदुर्बुधाः ॥
मूलम्
प्रायोऽनेकान्तवादोऽयं वैशेषिकविदूषितः । विशेषसमवायौ तु बहुभिर्हि बहिष्कृतौ ॥
मूलम्
अभावाभ्युपगन्तारः दृश्यन्ते बहवो बुधाः । विशिष्य तत्तद्वादेषु तत्त्वं स्पष्टं भविष्यति ॥