मूलम्
पदमेव पदार्थं तं मन्यन्ते ये च शाब्दिकाः ॥
टीका
वा. प.[1.1]
मूलम्
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन वेति ये वा विदुः परे ॥
मूलम्
वाक्यं वाऽप्यथ वाक्यार्थं प्रतिभां येऽपि मन्वते । तादृग्वादनिरोधाय पदार्थ इति शिक्ष्यते ॥
मूलम्
अतः पदार्थशास्त्रं वा तर्कशास्त्रमपीति वा । प्रख्यायते च तच्छास्त्रं संस्कारस्थैर्यसिद्धये ॥