25 तत्त्वसंख्या

मूलम्

इत्यालोच्यापरे प्राज्ञाः नयसंस्कृतमानसाः । तस्मिन् संख्यां परित्यज्य तत्त्वे संख्यां न्यवेशयन् ॥

मूलम्

ततस्तत्त्वसमासस्तु पञ्चविंशतिधा कृतः । कार्यकारणयोरैक्यं तथा वै धर्मधर्मिणोः ॥

मूलम्

अभेद इति सिद्धान्तात् द्विसंख्यैकान्त एव सः । षट्त्रिँशत्संख्यतत्त्वानि विदुश्शैवागमानुगाः ॥

मूलम्

वैशेषिकादयस्सप्त षोडशेति च मन्वते । पदार्थतत्त्वविज्ञानान्निःश्रेयसमसूत्र्यत ॥

टीका

न्या. सू.[1-1-1]

मूलम्

यतो विवेककाष्ठैव फलं मानवजन्मनः । तयोपादित्सितजिहासितयोर्हि विनिश्चयः ॥

मूलम्

ततश्शास्त्रोपयुक्तानां पदार्थानां परीक्षणम् । समस्य च विभज्यापि पदार्थानां परीक्षणम् ॥

मूलम्

इति द्विधा प्रवृत्तं स्याच्छास्त्रमित्यवधार्यते ।