मूलम्
सर्वं सदित्येकमिति संख्यैकान्तेषु चादिमः । शून्याद्वैतं सदद्वैतं विज्ञानाद्वैतमेव च ॥
टीका
न्या. सू.[4-1-41]
मूलम्
शब्दाद्वैतं तथा कालाद्वैतमित्यादि विस्तरः । सर्वं नित्यमनित्यं च द्विसंख्यैकान्तवादिनाम् ॥
मूलम्
ज्ञाता ज्ञानं ज्ञेयमिति त्रिसंख्यैकान्तवादिनाम् । मानं मेयं मितिर्मातेत्याहुरेवं ततः परे ॥
मूलम्
रूपं संज्ञा च संस्कारः वेदनाऽनुभवस्त्विति । पञ्च स्कन्धा इति प्राहुः सौत्रान्तिकमुखाः परे ॥
मूलम्
जीवो धर्मोऽप्यधर्मश्च पुद्गलः काल एव च । आकाश इति षड्द्रव्यं षडभिज्ञाः प्रचक्षते ॥
मूलम्
एवं सप्तादिसंख्यानामेकान्ता अपि सम्मताः । ततश्च षष्टितन्त्रं यत्संदृष्टं कपिलादिभिः ॥
मूलम्
संख्यैकान्तानुरोधेन तत्सांख्यं प्रथितं भुवि । सांख्या हि तत्त्वगणनापरायणतया स्थिताः ॥
टीका
प्र. चं.[6-12]
मूलम्
प्रबोधचन्द्रोदयोक्तिरप्येवं तत्र साक्षिणी । ज्ञानप्रधानं यच्छास्त्रं तत्सांख्यमिति केचन ॥
मूलम्
तपःप्रधानं शास्त्रं तु पातञ्जलमिति स्थितम् । यमादयस्तपोरूपास्तत्रैव हि विशोधिताः ॥
मूलम्
इत्थं संख्यैकान्तवादो हेतुसाध्याविशेषतः । प्रत्यक्षादिप्रमाणानां विरोधाच्च न युज्यते ॥
मूलम्
इत्यक्षपादमुनिना दूषितो न्यायदर्शने । संख्याविवादः प्रथमः तदधीनं हि लक्षणम् ॥