22 सिद्धान्तस्थापनम्

मूलम्

अभिमानैकमूलत्वात् अन्योन्यं च विरोधतः । न कश्चिद्यदि सिद्धान्तः नैवं तत्सिद्ध्यसिद्धितः ॥

मूलम्

सिद्धान्ताभाव एवायं प्रामाणिक इतीष्यते । नेष्यते वा द्विधाप्येवं सिद्धः सिद्धान्तसङ्ग्रहः ॥