15 प्राचीनमतम्

मूलम्

चतुर्षु पक्षेष्वेतेषु कञ्चित्स्वीकृत्य सूरयः । विवदन्ते गुरुलघुविमर्शनविचक्षणाः ॥

मूलम्

प्रथमं परिगृह्णन्ति पक्षं प्राञ्चस्तु तार्किकाः । नव्यनैयायिकानां तु तुरीयः पक्ष ईप्सितः ॥