11 अङ्गम्

मूलम्

प्रारीप्सितसमाप्त्यर्थं शिष्टाः कुर्वन्ति मङ्गलम् । आचारानुमितश्रुत्या तद्धेतुत्वं हि मीयते ॥

मूलम्

प्रमिते साधनत्वेऽस्मिन् श्रुत्यैव निरपेक्षया । व्यभिचारः परीहार्यः क्वचिच्चित्रादिनीतितः ॥

मूलम्

फलानन्तर्यनियमो यदि हेतुत्वमिष्यते । व्यभिचारस्य शङ्कैव न हि स्यादवकाशिनी ॥

मूलम्

तत्स्यादारब्धकर्माङ्गं प्रागनुष्ठानदर्शनात् । विघ्नध्वंसस्तदत्यन्ताभावो वा द्वारमिष्यते ॥

मूलम्

समाप्यतामिदं कर्म निर्विघ्नमिति कामना । यदा श्रुतित एव स्यात् तदा द्वारत्वनिर्णयः ॥

मूलम्

संशयो निश्चयो वाऽत्र विघ्नज्ञानं प्रवर्तकम् । समाप्तिकामो विघ्नज्ञः सोऽधिकार्यत्र बोध्यते ॥