मूलम्
जात्याख्यस्यातिरिक्तस्य नित्यस्यापि च वस्तुनः । स्वीकारोऽपि च शिक्षायै स्यात्प्रपञ्चापलापिनाम् ॥
मूलम्
कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । वर्णोऽप्येको गकारादिरिति वादा अपीदृशाः ॥
टीका
श्लोक.[831]
मूलम्
तस्मादादौ शास्त्रकृतामर्थसम्बन्धसूचनम् । साधने पर्यवसितं शास्त्रारम्भोऽयमुच्यते ॥
मूलम्
इदानीन्तनशास्त्रेषु तद्विशेषविचिन्तना । प्रवर्तते युक्तिमूला सति कुड्येऽनुलेपवत् ॥