मूलम्
क्षेप्तुं वादानेवमादीन् दृश्यते किल वार्तिके । सिद्धे शब्दार्थसम्बन्ध इति वाररुचं वचः ॥
टीका
वररुचि.[1-1-1]
मूलम्
शब्दे चार्थे च सम्बन्धे नित्य एवेति तद्वचः । व्याख्यातं भाष्यकारेण पतञ्जलिमहर्षिणा ॥
मूलम्
औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इत्यपि । जैमिनिस्सूत्रयामास शब्दार्थान्वयनित्यताम् ॥
टीका
जै. सू.[1-1-5]
मूलम्
नित्याश्शब्दार्थसम्बन्धाः समाम्नाता महर्षिभिः । सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥
टीका
वा. प.[1-23]
मूलम्
इति वाक्यपदीयेऽपि प्राह भर्तृहरिस्स्वयम् । यश्शब्दाद्वैतसिद्धान्तप्रतिष्ठापनदेशिकः ॥