मूलम्
प्रमाणनयतत्त्वाख्यालोकालङ्कारमूलके । रत्नाकरावतारेऽस्य निदानं विदितं यथा ॥
टीका
प्र. त.[6]
मूलम्
शास्त्रादावभिधेयार्थो दुर्निरूपोऽभिधित्सितः । सोऽसम्बद्धोऽथ सम्बद्धः नाद्यः प्रागेकवाक्यतः ॥
मूलम्
सर्वशास्त्रार्थसन्दर्भगर्भाविर्भावसम्भवात् । कृतं शास्त्रेण शेषेण बहलक्लेशकारिणा ॥
मूलम्
नान्त्यश्शब्दाभिसम्बन्धे विकल्पानुपपत्तितः । संयोगाद्यास्तु सम्बन्धाः नैव सम्भावनापदम् ॥
मूलम्
तादात्म्यं वा तदुत्पत्तिः वाच्यवाचकताऽथवा । स्यादाद्यपक्षे प्रायेण जगतो मिश्ररूपता ॥
मूलम्
क्षुरमोदकशब्दाभ्यां स्यातां पाटनपूरणे । द्वितीयपक्षोऽपि मिथोऽनुपलम्भपराहतः ॥
मूलम्
तृतीयोऽपि स्वरूपं वा भिन्नो वेति विकल्प्यते । आद्ये नाधिकमुक्तं स्यात् अन्त्ये नित्योऽथवेतरः ॥
मूलम्
नित्यश्चेन्नित्यतापत्तिः एतत्सम्बन्धिनोरपि । अनित्यश्चेत्स्वरूपं चेत् नाधिकं स्यादितीरितम् ॥
मूलम्
भिन्नश्चेदनवस्था स्यात् तादात्म्यादिविकल्पतः । सर्वेषामपि नित्यत्वं क्षणभङ्गपराहतम् ॥
मूलम्
दुर्ग्रहश्चापि सङ्केतः स्वरसक्षणभङ्गिनि । विकल्पयोनयश्शब्दा विकल्पाश्शब्दयोनयः ॥
मूलम्
कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी । इति प्राचामुक्तिरेषा सकलार्थप्रदर्शिनी ॥
मूलम्
अतोऽभिधेयसम्बन्धभङ्गुरः शास्त्रडम्बरः । सोऽयं सौगतसिद्धान्तः शास्त्रारम्भप्रभञ्जकः ॥