06 निवृत्त्यङ्गचतुष्टयम्

मूलम्

तेष्वनर्थेष्वशक्यानुष्ठानं प्रथममुच्यते । यथा च तक्षकमणिः ज्वरपीडां हरेदिति ॥

मूलम्

विफलं तु द्वितीयं स्यात् काकदन्तपरीक्षणम् । तृतीयं चानभिमतं जननीपाणिपीडनम् ॥

मूलम्

असम्बद्धं तुरीयं स्यात् जरद्गववचो(1) यथा । सम्भावितेनाप्येकेन प्रवृत्तिः प्रतिबध्यते ॥ (1) (जरद्गवः कम्बल-पादुकाभ्यां द्वारि स्थितो गायति म(भ)द्रकाणि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लवण(लशुन)स्य कोऽर्घः ॥)

मूलम्

इति धार्मोत्तरं वर्त्म न्यायबिन्दुमुखे स्थितम् । न्यायवार्तिकतात्पर्यटीकारम्भेऽपि सूचितम् ॥

टीका

न्या. ता.[2]

मूलम्

व्यतिरेकदृशः केचित् केचिदन्वयदृष्टयः । प्राचीनाः प्रायशः पूर्वे पराचीनाः परे मताः ॥

मूलम्

ततोऽभिधेयसम्बन्धकथनं स्यादिहादितः । तच्चाभिधेयसम्बन्धसमर्थनमपीष्यते ॥