05 प्रवृत्त्यङ्गचतुष्टयम्

मूलम्

विषयश्च फलं चैव सम्बन्धश्चाधिकार्यपि । प्रेक्षावतां प्रवृत्त्यङ्गमनुबन्धिचतुष्टयम् ॥

मूलम्

अभिधेयादयश्शास्त्रे कथ्यन्ते प्रथमं बुधैः । न निश्चीयन्त एवैते कृत्स्नशास्त्रश्रुतेः पुरा ॥

मूलम्

प्रेक्षावतां प्रवृत्त्यङ्गं स्यात्तथाप्यर्थसंशयः । अनर्थसंशयो दृष्टः निवृत्त्यङ्गं परीक्षकैः ॥