04 प्रबन्धक्रमः

मूलम्

मेयं मानाधीनमपि तदेवादौ निरूप्यते । प्रोपसर्गप्रयोगस्तु प्रमाभ्रमविवेकतः ॥

मूलम्

विज्ञानाद्वैतसिद्धान्ते प्रविवेको न कश्चन । तथाऽसत्ख्यातिसिद्धान्ते व्यवहारो ह्युपप्लवः ॥

मूलम्

मानाधीना मेयसिद्धिः मानसिद्धिश्च(1) लक्षणात् । तल्लक्षणप्रमाणाभ्यां वस्तुसिद्धिरितीर्यते ॥ (1) (प्रवृत्तिरित्यर्थः ॥)

टीका

जै. न्या.[1-1-2]

मूलम्

ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा । तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥

टीका

न्या. मा.[427]

मूलम्

इति न्यायविदः प्राहुः प्रमाणपरिनिष्ठिताः । काणादास्तु पदार्थज्ञाः प्रमेयपरिनिष्ठिताः ॥

मूलम्

प्रमेयं च प्रमाणं च प्रयोजनमिति त्रिभिः । विभागैः प्रविभक्तोऽयं प्रबन्ध इति हि क्रमः ॥