मूलम्
शास्त्रेषु विस्तृतांशस्य गतार्थत्वान्न विस्तरः । सुखबोधाय सारांशः संक्षेपेण प्रदर्श्यते ॥
मूलम्
कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः । वचोविन्यासवैचित्र्यमात्रमत्र विमृश्यताम् ॥
मूलम्
प्रायः प्रागनुभूतेषु सर्वेष्वपि च वस्तुषु । अपूर्वरचने तत्र तुष्यन्ति हि सुमानुषाः ॥
मूलम्
प्रज्ञा विवेकं लभते विभिन्नागमदर्शनैः । कियद्वा शक्यमुन्नेतुं स्वयत्नमनुधावता ॥
मूलम्
तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना । अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥
मूलम्
संकेताद्वा वासनया तथा मीमांसयाऽपि वा । कस्मैचिद्रोचते किञ्चित् मध्यस्थमनसामपि ॥
मूलम्
सर्वसिद्धान्तसारार्थचिन्ताचातुर्यशालिनाम् । न कश्चिदपराधो नः निगूढार्थनिवेदनात् ॥
मूलम्
प्रकाश्यते च प्रायेण स्वाभिप्रायो निबन्धृभिः । अत्र त्वस्मदभिप्रायः सर्वाभिप्रायसंग्रहः ॥
मूलम्
प्रज्ञाप्रासादमारुह्य ह्यशोच्यः शोचतो जनान् । भूमिस्थानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति ॥