मूलम्
यः श्रीलक्ष्मीपुरं श्रीनिवासार्यो विदुषां मणिः । यं जन्मना ब्रह्मणा च वेङ्कटस्वाम्यजीजनत् ॥
मूलम्
श्रीमान् रामानुजाचार्यो येन पौत्र्यजयत् क्षितौ । श्रीमत्तिरुमलै नल्लान् वात्स्यवंशाब्धिचन्द्रमाः ॥
मूलम्
श्रीमत्कस्तूरिरङ्गेन्द्रविद्वद्रत्नकृपाभरः । सर्वतन्त्रस्वतन्त्रत्वं यस्मै प्रायच्छदव्ययम् ॥
मूलम्
पितृव्यस्स विरक्तश्रीरघूद्वहगुरूद्वहः । आत्मरक्षाभरं यस्मादादत्त करुणाकरः ॥
मूलम्
यस्य वृत्तिं प्रतिष्ठां चानन्यतुल्यामकल्पयत् । महीशूरमहीधुर्यतुर्यश्रीकृष्णभूपतिः ॥
मूलम्
यस्मिन् लोकाः प्रसीदन्ति ताताम्बातपसां निधौ । स व्यातानीत् मानमेयरहस्यश्लोकवार्तिकम् ॥