१० परिशिष्ट

१ रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

प्रकृतिस्तोत्रम्

प्रपञ्चसारतन्त्र एकादश पटल

प्रसीद प्रपञ्चस्वरूपे प्रधाने प्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे । प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वां प्रकृत्याप्रतर्ये प्रकामप्रवृत्ते ॥ ४९ ॥ स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं पदं त्वक्षरात्माक्षरं त्वं महेशि । ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तोष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् ॥ अजाधोक्षजत्रीक्षणाचापि रूपं परं नाभिजानन्ति मायामयं ते । स्तुवन्तीशितां त्वाममी स्थूलरूपां तदेतावदम्बेह युक्तं ममापि ॥ ५१ ॥ नमस्ते समस्तेशि बिन्दुस्वरूपे नमस्ते रवत्वेन तत्त्वाभिधाने । नमस्ते महत्त्वं प्रपन्ने प्रधाने नमस्ते त्वहङ्कारतत्त्वस्वरूपे ॥ ५२ ॥ नमः शब्दरूपे नमो व्योमरूपे नमः स्पर्शरूपे नमो वायुरूपे । नमो रूपतेजोरसाम्भः स्वरूपे नमस्तेस्तु गन्धात्मिके भूस्वरूपे ॥ ५३ ॥ नमः श्रोत्रचर्माक्षिजिह्वास्थनासास्यवाक्पाणिपत्पायु सोपस्थ रूपे । मनोबुद्ध यहङ्कारचित्तस्वरूपे विरूपे नमस्ते विभो विश्वरूपे ॥ ५४ ॥ रवित्वेन भूत्वान्तरात्मा दधासि प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः । दहस्यग्निमूर्तिर्वहन्त्याहुति वा महादेवि तेजस्त्रयं त्वत्त एव ।। ५५ ॥ चतुर्वक्त्रयुक्ता लसद्धंसवाहा रजसंश्रिता ब्रह्मसंज्ञां दधाना । जगत्सृष्टिकार्या जगन्मातृभूते परं त्वत्पदं ध्यायसीशि त्वमेव ।। ५६ ।। विराजत्किरीटा लसच्चक्रशङ्खा वहन्ती च नारायणाख्यां जगत्सु । गुणं सत्त्वमास्थाय विश्वस्थिति यः करोतीह सोंऽशोऽपि देवि त्वमेव ॥ जटाबद्धचन्द्राहिगङ्गा त्रिनेत्रा जगत्संहरन्ती च कल्पावसाने । तमः संश्रिता रुद्रसंज्ञां दधाना वहन्ती परश्वक्षमाले विभास ॥ ५८ ॥

१४ म० मा०

२१०

सचिन्ताक्षमाला सुधाकुम्भलेखाधरा त्रीक्षणार्द्धेन्दुराजत्कपर्दा । सुशुक्लांशुका कल्पदेहा सरस्वत्यपि त्वन्मयैवेशि वाचामधीशा ।। ५९ ॥ लसच्छङ्खचक्रा चलत्खङ्गभीमा नदत्सिंहवाहा ज्वलत्तुङ्गमौलिः । द्रवद्दैत्यवर्गा स्तुवत्सिद्धसङ्घा त्वमेवेशि दुर्गापि सर्गादिहीने ॥ ६० ॥ पुरारातिदेहार्धभागा भवानी गिरीन्द्रात्मजात्वेन यैषा विभाति । महायोगिवन्द्या महेशा सुनाथा महेश्यम्बिका तत्त्वतस्त्वन्मयैव ॥ ६१ ॥ लसत्कौस्तुभोद्भासिते व्योमनीले वसन्तीं च वक्षःस्थले कैटभारेः । जगद्वल्लभां सर्वलोकैकनाथां श्रियं तामहं देव्यहं त्वामवैमि ॥ ६२ ॥ अजाद्रीड्गुहाब्जाक्षपोत्रीन्द्रकाणाम् महाभैरवस्यापि चिह्नां वहन्त्यः । विभो मातरः सप्त तद्रूपरूपाः स्फुरन्त्यस्त्वदंशा महादेवि ताश्र्व ॥ ६३ ॥ समुद्यद्दिवाकृत्सहस्राभभासा सदा सन्तताशेषविश्वावकाशे । लसन्मौलिबद्धेन्दुलेखे सपाशाङ्कुशाभीत्यभीष्टात्तहस्ते नमस्ते ॥ ६४ ॥ प्रभाकीर्तिकान्ती दिवारात्रिसन्ध्याः क्रियाशा तमिस्रा क्षुधाबुद्धिमेधाः । धृतिर्वामतिः सन्नतिः श्रीश्व भक्तिस्त्वमेवेशि येऽन्ये च शक्तिप्रभेदाः ॥ हरे बिन्दुनादैः सशक्त्याख्यशान्तैर्नमस्तेस्तु भेदप्रभिन्नैरभिन्ने ।

सदा

सप्तपाताललोकाचलाब्धिग्रहद्वीपधातुस्वरादिस्वरूपे ॥ ६६ ॥ नमस्ते समस्ते समस्तस्वरूपे समस्तेषु वस्तुष्वनुस्यूतशक्ते । श्रितस्थूलसूक्ष्मस्वरूपे महेशि स्मृते बोधरूपेप्यबोधस्वरूपे ।। ६७ ।। मनोवृत्तिरस्तु स्मृतिस्ते समस्ता तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि । शरीरप्रवृत्तिः प्रणामक्रिया स्यात् प्रसीद क्षमस्व प्रभो सन्ततं मे ॥ ६८ ॥ हृल्लेखाजपविधिमर्चनाविशेषानेतास्तां स्तुतिमपि नित्यमादरेण । योभ्यस्येत् स खलु परां श्रियं च गत्वा शुद्धं तद् व्रजति पदं परस्य धाम्नः ॥ इति हृल्लेखाविहितो विधिरुक्तः संग्रहेण सकलोऽयम् । योऽस्मिन्नियतमना मन्त्री योगी स्यात् स एव भोगी च ॥ ७० ॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

देशिकेन्द्रेण दुर्वाससा विरचितं श्रीत्रिपुरसुन्दरी महिम्नस्तोत्रम्

श्रीमातस्त्रिपुरे परात्परतरे देवि त्रिलोकीमहा-

सौन्दर्यार्णवमन्थनोद्भवसुधाप्राचुर्यवर्णोज्ज्वलम् ।

उद्यद्भानुसहस्रनूतनजपापुष्पप्रभं

वपुः

२११

स्वान्ते मे स्फुरतु ‘त्रिलोकनिलयं ज्योतिर्मयं वाङ्मयम् ॥ १ ॥

आदिक्षान्तसमस्तवर्ण सुमणिप्रोते

वितानप्रभे

ब्रह्मादिप्रतिमाभिकीलितषडाधाराब्जकक्षोन्नते ।

ब्रह्माण्डाब्ज महासने जननि ते मूर्ति भजे चिन्मयीं

सौषुम्णायतपीतपङ्कजमहामध्यत्रिकोणस्थिताम् ॥ २ ॥

वन्दे वाग्भवमैन्दवात्मसदृशं वेदादिविद्या गिरो

भाषा देशसमुद्भवाः पशुगताश्छन्दांसि सप्त स्वरान् । तालान्पञ्च महाध्वनीन्प्रकटयत्यात्मप्रसारेण 3 यत् -

तद्बीजं पदवाक्यमानजनकं श्रीमातृके ते परम् ॥ ३ ॥ त्रैलोक्यस्फुटमन्त्र तन्त्र महिमा स्वात्मोक्तिरूपं विना

यद्बीजं व्यवहारजालमखिलं नास्त्येव मातस्तव । तज्जाप्यस्मरणप्रसक्त सुमतिः सर्वज्ञतां प्राप्य कः

शब्दब्रह्मनिवासभूतवदनो नेन्द्रादिभिः स्पर्द्धते ॥ ४ ॥

१. काशी संस्कृत सीरीज, सङ्ख्या २१ में प्रकाशित पुष्पदन्तकृत महिम्न- स्तोत्र ( १६२४ ई० ) के साथ मुद्रित इसी स्तोत्र के प्रारम्भ में निम्नाङ्कित अतिरिक्त श्लोक मिलता है:

मातस्ते महिमां वक्तुं शिवेनापि न शक्यते । भक्त्याहं स्तोतुमिच्छामि प्रसीद मम सर्वदा ॥ १ ॥

३ और ४ के मध्य में भी एक श्लोक अधिक है

या बालेन्दुदिवाकराक्षिमधुरा या रक्तपद्मासना

रत्नाकल्पविराजिताङ्गलतिका पूर्णेन्दुवक्त्रोज्ज्वला । अक्षस्रक्सृणिपाशपुस्तककरा या बालभानुप्रभा

तां देवीं त्रिपुरां शिवां हृदि भजेऽभीष्टार्थसिद्धये सदा ॥ २. पाठान्तर - त्रिकोण । ३. प्रकाशेन । ४. प्रसक्ति । ५. सेन्द्रा ।

२१२

मात्रा यात्र विराजतेऽतिविशदा तामष्टधा मातृकां

शक्ति कुण्डलिनीं चतुविधतनुं यस्तत्त्वविन्मन्यते । सोऽविद्याखिलजन्मकर्मदुरितारण्यं प्रबोधाग्निना

भस्मीकृत्य विकल्पजालमखिलं मातः पदं तद्व्रजेत् ॥ ५ ॥ तत्ते’ मध्यमबीजमम्ब कलयाम्यादित्यवर्णं क्रिया-

ज्ञानेच्छादिसमस्त शक्तिविभवव्यक्ति व्यनक्ति स्फुटम् । उत्पत्तिस्थितिकल्पकल्पिततनु स्वात्मप्रसारेण यत्

काम्यं ब्रह्महरीश्वरादिविबुधैः कामं क्रियायोजितैः ॥ ६ ॥ कामात्कारणतां गतानगणितान्कार्यैरनन्तैर्मही-

मुख्यैः सर्वमनोगतानधिगतान्मानैरनेकैः स्फुटम् । कामक्रोध लोभमोहमदमात्सर्यारिषट्कं च यद्

बीजं भ्राजयतिप्रणौमि तदहं ते साधु कामेश्वरि ॥ ७ ॥

यद्भक्ताखिलकामपूरणचण स्वात्मप्रभावं महा-

जाड्यध्वान्तनिवारणैकतरणिज्योतिः प्रबोधप्रदम् ।

यद्वेदेषु च गीयते श्रुतिमुखं मात्रात्रयेणोमिति

श्रीविद्ये तव सर्व राजवशकृत्तत्कामराजं भजे ॥ ८ ॥

यत्ते देवि तृतीयबीजमनलज्वालावलीसन्निभं

सर्वाधार तुरीय- " बीज मपरं ब्रह्माभिधाशब्दितम् । मूर्द्धन्यान्तविसर्गभूषितम होकारात्मकं तत्परं

‘संविद्रूपमनन्यतुल्यमहिम स्वान्ते मम द्योतताम् ।। ९ ।।

सर्वं सर्वत एव सर्गसमये कार्येन्द्रियाण्यन्तरा

तत्तद्दिव्यहृषीककर्मभिरियं संव्यश्नुवाना परा ।

वागर्थव्यवहारकारणतनुः शक्तिर्जगद्व्यापिनी १०

यद्बीजात्मकतां गता तव शिवे तन्नौमि बीजं परम् ।। १० ।।

अग्नीन्दुद्युमणिप्रभञ्जनधरानीरान्तरस्यायिनी

शक्तिब्रह्महरीशवासवमुखामर्त्या सुरात्मस्थिता ।

१. यत्ते ।

२. ज्ञानेच्छादिमनन्त । ३. अनेकैः । राजति सम्प्रणोमि

तदहं ते कामराजाभिधम् । ५. पूर्णचरण । तम् ।

७. महोकारा । ८. सच्चिद्रूप । १०. जगद्रूपिणी ।

६. शक्तिपरम ब्रह्माभिधाशब्दि-

९. भ्राजद्रूपमनन्यतुल्यमभितः ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

सृष्ट’ स्थावरजङ्गमस्थितमहाचैतन्यरूपा च या

यद्बीजस्मरणेन सैव भवती प्रादुर्भवत्यम्बिके ॥ ११॥ स्वात्मश्रीविजिताजविष्णुमघवश्रीपूरणैकव्रतं

यद्विद्या कवितावितानलहरी कल्लोलिनी दीपकम् ।

बीजं यत्त्रिगुणप्रवृत्तिजनकं ब्रह्म ेति यद्योगिनः

शान्ताः सत्यमुपासते तदिह ते चित्ते दधे श्रीपरे ॥ १२ ॥ एकैकं तव मातृके परतरं संयोगि वा योगि वा

विद्यादिप्रकटप्रभावजनकं जाड्यान्धकारापहम् ।

यन्निष्ठाश्च महोत्पलासन महाविष्णुप्रहदयो

२१३

देवा: स्वेषु विधिष्वनन्य महिमस्फूर्ति दधत्येव तत् ॥ १३ ॥ इत्थं त्रीण्यपि मूलवाग्भवमहाश्री कामराजस्फुर-

च्छक्त्याख्यानि चतुःश्रुतिप्रकटितान्युत्कृष्टकूटानि ते । भूतर्तुश्रुतिसङ्ख्यवर्णविदितान्यारक्तकान्ते शिवे

यो जानाति स एव सर्वजगतां सृष्टिस्थितिध्वंसकृत् ।। १४ ।।

४ नित्यं यस्तव मातृकाक्षरसखीं सौभाग्यविद्यां जपेत्

सम्पूज्याखिलचक्रराजनिलयां सायन्तनाग्निप्रभाम् । कामाख्यं शिवनामतत्त्वमुभयं व्याप्यात्मना सर्वतो

दीव्यन्तीमिह तस्य सिद्धिरचिरात्स्यात्त्वत्स्वरूपैकता ॥ १५ ॥ काव्यैः पापठितैः किमप्यविदुषां जोघुष्यमाणैः पुनः

किं तैर्व्याकरणैर्विबोधिततया किं वाभिधानश्रिया । एतैरम्ब न बोभवीति सुकविस्तावत्तव श्रीमतो

यविन्नानुसरीसरीति सरणि पादाब्जयोः पावनीम् ॥ १६ ॥

१. सृष्टि: । २. सद्विद्याकविताविलास । ३. ब्वनन्त ।

४. ‘काशी संस्कृत सीरीज’ के संस्करण में १५ वें श्लोक से पहले यह अति- रिक्त श्लोक मिलता है :-

ब्रह्मा योनिरमा सुरेश्वर सुहृल्लेखाभिरुक्तैस्तथा

मार्तण्डेन्दुमनोज हंसवसुधा मायाभिरुत्तंसितैः । सोमाम्बुक्षितिशक्तिभिः प्रकटितैर्बाणाङ्गवेदैः क्रमाद्-

वर्णैः श्रीशिवदेशिकेन विदितां विद्यां तवाम्बाश्रये ॥

५. मल्प ।

२१४

गेहं नाकति गर्वितः प्रणतति स्त्रीसङ्गमो मोक्षति

द्वेषी मित्रति पातकं सुकृतति क्ष्माबल्लभो दासति । मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसंसेवनात्

त्वां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीश प्रियाम् ॥ १७ ॥

आद्यैरग्निरवीन्दुबिम्बनिलयैरम्ब त्रिलिङ्गात्मभि-

मिश्रा रक्तसितप्रभैरनुपमैर्युष्मत्पदैस्तैस्त्रिभिः । स्वात्मोत्पादितकाललोक निगमावस्थामरादित्रयै-

रुद्भूतं त्रिपुरेति नाम कलयेद्यस्ते स धन्यो बुधः ॥ १८ ॥ आद्य जाप्यतमार्थवाचकतया रूढः स्वरः पञ्चमः

सर्वोत्कृष्टतमार्थवाचकतया वर्णः पवर्गान्तकः । वक्तृत्वेन महाविभूतिसरणिस्त्वाधारगो हृद्गतो

भ्रूमध्यस्थित इत्यतः प्रणवता ते गीयतेऽम्बागमैः ॥ १९ ॥

गायत्री सशिरा तुरीयसहिता सन्ध्यामयीत्यागमै-

राख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणाम् ।

तत्तद्दर्शनमुख्यशक्तिरपि च त्वं ब्रह्मकर्मेश्वरी

कर्तार्ह पुरुष हरि सविता बुद्ध: शिवस्त्वं गुरुः ॥ २० ॥

कर्तार्हन्पुरुषो

अन्नप्राणमनः प्रबोधपरमानन्दैः शिरः पक्षयु-

क्पुच्छात्मप्रकटैर्महोपनिषदां वाग्भिः प्रसिद्धीकृतैः ।

कोशैः पञ्चभिरेभिरम्ब भवतीमेतत्प्रलीनामिति

ज्योतिः प्रज्वल दुज्ज्वलात्मचपलां यो वेद स ब्रह्मवित् ॥ २१ ॥

सच्चित्तत्त्वमसीतिवाक्य’विदितैरध्यात्मविद्याशिव-

ब्रह्माख्यैरतुल प्रभावसहितैस्तत्त्वैस्त्रिभिः सद्गुरोः । तद्रूपस्य मुखारविन्दविवरात्सम्प्राप्य दीक्षामतो

यस्त्वां विन्दति तत्त्वतस्तदहमित्यार्ये स मुक्तो भवेत् ॥ २२ ॥

सिद्धान्तैर्बहुभिः प्रमाणगणितैरन्यैरविद्यातमो-

नक्षत्रैरिव सर्वमन्धतमसं तावन्न निभिद्यते ।

यावत्ते सवितेव सम्मतमिदं नोदेति विश्वान्तरे

जन्तोर्जन्मविमोचनैक भिदुरं श्रीशाम्भवं श्रीशिवे ।। २३ ।।

१. विततै । २. गदितैः ।

५. श्रीशाम्भवि ।

३. सन्मत । ४. निवारणक ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

आत्माऽसौ सकलेन्द्रियाश्रयमनोबुद्ध्यादिभिः शोचितः

कर्माबद्धतनुर्जन च भरणं प्राप्नोति’ यत्कारणम् । तत्ते देवि महाविलास लहरीदिव्यायुधानां जय-

२१५

स्तस्मात्सद् गुरुमभ्युपेत्य कलयेत्त्वामेव चेन्मुच्यते ॥ २४ ॥ नानायोनिसहस्रसम्भववशाज्जाता जनन्यः कति

प्रख्याता जनकाः कियन्त इति मे सेत्स्यन्ति चाग्रे कति । एतेषां गणनैव नास्ति महतः संसार सिन्धोविधे-

भतं मां नितरामनन्यशरणं रक्षानुकम्पानिधे ॥ २५ ॥ देहक्षोभक रै व्रत बहुविधैर्दानैश्च होमैर्जपैः

सध्या ‘र्हयमेध मुख्य सुमखैर्नानाविधैः कर्मभिः । यत्सङ्कल्पविकल्पजाल’ मलिनं प्राप्यं पदं तस्य ते

दूरादेव निवर्तते परतरं मातः पदं निर्मलम् ॥ २६ ॥ पञ्चाशन्निज देहजाक्षरमयैर्नानाविधैर्धातुभि-

बह्वयैः पदवाक्यमानजनकैरर्थाविना ‘भावितैः । साभिप्रायवदर्थ कर्मफलदैः ख्यातैरनन्तैरिदं

विश्वं व्याप्य चिदात्मनाहमहमित्युज्जृम्भसे मातृके ॥। २७ ॥

श्रीचक्रं श्रुतिमूलकोश इति ते संसारचक्रात्मकं

विख्यातं तदधिष्ठिताक्षरशिवज्योतिर्मयं सर्वतः । एतन्मन्त्रमयात्मिकाभिररुणं श्री सुन्दरीभिर्वृतं

१०

मध्ये बैन्दवसिंहपीठललिते त्वं ब्रह्मविद्या शिवे ॥ २८ ॥ बिन्दुप्राणविसर्गजीवसहितं बिन्दुत्रिबीजात्मकं

षट्कटानि विपर्ययेण निगदेत्तारत्रिबालाक्षरः" ।

एभिः सम्पुटितं प्रजप्य विहरेत्प्रासादमन्त्रं परं

गुह्याद् गुह्यतमं सयोगजनितं सद्भोगमोक्षप्रदम् ।। २९ ।। आताम्रार्क सहस्रदीप्तिपरमा सौन्दर्यसारैरलं

लोकातीतमहोदयैरुपयुता १२

१३

सर्वोपमागोचरैः ।

नानानर्घ्य विभूषण र गणितं जज्विल्यमानाभितः १४

१५

" श्रीमातस्त्रिपुरारिसुन्दरि कुरु स्वान्ते निवासं मम ॥ ३० ॥

४. सन्तानः । ५. भाव ।

१. प्रतीति । २. त्वां । ३. सिन्धूर्मिभिः । ६. ख्यातं । ७. भवं । ८. रथं । ९. चिदर्थं । १०. रभितः । ११. वलैः । १२. रवयवैः । १३. रुपगतैः । १४. त्मिकः । १५. त्वं ।२१६

शिञ्जन्नूपुरपादकङ्कणमहामुद्रासुलाक्षारसा-

लङ्काराङ्कितमङ्घ्रिपङ्कजयुगं श्रीपादुकालङ्कृतम् । उद्भास्वन्नखचन्द्रखण्डरुचिरं राजज्जपासन्निभं

ब्रह्मादित्रिदशासुराचितमहं मूनि स्मराम्यम्बिके ॥ ३१ ॥ आरक्तच्छविनातिमार्दवयुजा निश्श्वासहार्येण सत्

3

कौशेयेन विचित्ररत्नखचितैर्मुक्ताफलैरुज्ज्वलैः । कूजत्काञ्चनकिङ्किणीभिरभितः सन्नद्धकाञ्चीगुणै-

रादीप्तं सुनितम्बबिम्बमरुणं ते पूजयाम्यम्बिके ।। ३२ ।। कस्तूरीघनसारकुङ्कुमरजो गन्धोत्कटैश्चन्दने-

रालिप्तं मणिमालयातिरुचिरं गैवेयहारादिभिः । दीप्तं दिव्यविभूषणैर्जननि ते ज्योतिर्विभास्वत्कुच-

व्याजस्वर्णघटद्वयं हरिहरब्रह्मादिपीतं भजे ॥ ३३ ॥ मुक्तारत्नविचित्र कान्तिललितैस्ते बाहुवल्ली रहं

केयूराङ्गद" बाहुदण्डवल यैर्हस्ताङ्गुलीभूषणैः । सम्पृक्ताः कलयामि हीरमणिमन्मुक्तावली कीलित-

ग्रीवापट्टविभूषणेन सुभगं कण्ठं च कम्बुश्रियम् ॥ ३४ ॥

उद्यत् पूर्णकलानिधिश्रिवदनं भक्तप्रसन्नं सदा

सम्फुल्लाम्बुजपत्र कान्ति ’ सुषमाधिक्कारदक्षेक्षणम् । सानन्दं कृतमन्दहासमसकृत्प्रादुर्भवत्कौतुकं

कुन्दाका रसुदन्तपङ्किशशिभापूर्णं स्मराम्यम्बिके ।। ३५ ।। तप्तस्वर्णकृतोरुकुण्डलयुगं माणिक्यमुक्तोल्लस-

द्धीराबद्धमनन्यतुल्यमपरं हैमं च चक्रद्वयम् ।

शुक्राकारनिकारदक्षममलं मुक्ताफलं सुन्दरं

विभ्रत्कर्णयुगं भजामि ललितं नासाग्रभागं शिवे ।। ३६ ।।

शृङ्गारादिरसालयं त्रिभुवनीमाल्यैरतुल्यैर्युतं

सर्वाङ्गीणसदङ्गरागसुरभि श्रीमद्वपुर्धूपितम् ।

ताम्बूलारुणपल्लवाधरयुतं रम्यं त्रिपुण्ड्रं दधद्-

भालं नन्दन चन्दनेन जननि ध्यायामि ते मङ्गलम् ।। ३७ ।।

१. भासुरं । २. भिपूजित । ३. यत् । ४. रगणितैः । ५. रोत्तम् । ६. चित्र ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

जातीचम्पक कुन्दकेशररजो गन्धोद्गिरत्केतकी-

नीपाशोक शिरीषमुख्यकुसुमैः प्रोत्तंसिता धूपिता । आनीलाञ्जनतुल्यमत्तमधुपश्रेणीव वेणी तव

श्रीमातः श्रयतां मदीयहृदयाम्भोजं सरोजालये ॥ ३८ ॥

लेखालभ्यविचित्ररत्नघटितं हैमं किरीटोत्तमं

मुक्ताकाश्चनकिङ्किणी गण महाही र प्रबन्धोज्ज्वलम् । चञ्चच्चन्द्रकलाकलापललितं देवद्रुपुष्पाचितं

२१७

माल्यैरम्ब विलम्बितं सुशिखरं बिभ्रच्छिरस्ते भजे ॥ ३९ ॥

उत्क्षिप्तोच्च सुवर्णदण्डकलितं पूर्णेन्दुबिम्बाकृति-

च्छत्रं मौक्तिकचित्ररत्नखचितं श्रौमांशुकोत्तंसितम् । मुक्ताजालविलम्बितं सकलशं नानाप्रसूनाङ्कितं

चन्द्रोड्डामरचामराणि दधते श्रीदेवि ते स्वः स्त्रियः ॥४०॥

विद्यामन्त्र रहस्य विन्मुनिगणैः क्लृप्तोपचारार्चनां

वेदादिस्तुतिगीयमानचरितां वेदान्ततत्त्वात्मिकाम् ।

सर्वास्ताः खलु तुर्यतामुपगतास्त्वद्रश्मिदेव्यः परा-

स्त्वां नित्यं समुपासते स्वविभवैः श्रीचक्रनाथे शिवे ।। ४१ ।।

एवं यः स्मरति प्रबुद्धसुमतिः श्रीमत्स्वरूपं परं

वृद्धोऽप्याशु युवा भवत्यनुपमः स्त्रीणामनङ्गायते । सोष्टैश्वर्यं तिरस्कृताखिलसुरश्रीजृम्भणैकालयः

पृथ्वीपालकिरीटकोटिवलभीपुष्पाचिताङ्घ्रिर्भवेत् ॥ ४२ ॥

अथ तव धनुः पुण्ड्रेक्षुत्वात्प्रसिद्धमतिद्युति

त्रिभुवनवधूमुद्यज्ज्योस्नाकलानिधिमण्डलम् ।

सकलजननि स्मारं स्मारं गतः स्मरतां नर-

स्त्रिभुवनवधू मोहाम्भोधेः प्रपूर्णविधुर्भवेत् ॥ ४३ ॥

प्रसूनशरपञ्चकप्रकटजृम्भणागुम्फित-

त्रिलोकमवलोकयत्यमलचेतसा चञ्चलम् ।

अशेषरमणी’ जनस्मरविजृम्भणे यः सदा

पटुर्भवति ते शिवे त्रिजगदङ्गनाक्षोभणे ॥ ४४ ॥

१. तरुणी ।

२१८

पाशं प्रपूरितमहा सुमतिप्रकाशो

यो वा तव त्रिपुरसुन्दरि सुन्दरीणाम् । आकर्षणेऽखिलवशीकरणे प्रवीणं

चित्ते दधाति स जगत्त्रयवश्यकृत्स्यात् ॥ ४५ ॥ यः स्वान्ते कलयति कोविदस्त्रिलोक’ -

स्तम्भारम्भचणमत्युदारवीर्यम् ।

मातस्ते विजयमहाङ्कुशं सरोषान्

देवान्स्तम्भयति च भूभुजोऽन्य सैन्यम् ॥ ४६ ॥ चापध्यानवशाद्भवोद्भवमहामोहस्य व्युज्जृम्भणं

प्रख्यातं प्रसवेषुचिन्तनवशात्तत्तच्छरव्यं सुधीः । पाशध्यानवशात्समस्तजगतां मृत्योर्वशत्वं महा-

दुर्गस्तम्भमहाङ्कुशस्य मननान्मायाममेयां तरेत् ॥ ४७ ॥

न्यासं कृत्वा गणेशग्रहभगणमहायोगिनी राशिपी है:

पञ्चाशन्मातृकाणैः सहितबहुकलैरष्टवाग्देवताभिः । सश्रीकण्ठादियुग्मैर्निजविमलतनौ केशवाद्यैश्व तत्त्वैः

षट्त्रंशद्भिर्धराद्यैर्भगवति भवतीं यः स्मरेत्स त्वमेव ॥ ४८ ॥ सुरपतिपुरलक्ष्मीजृम्भणातीतलक्ष्मी:

प्रसरति निजगेहे यस्य दैवं त्वमार्ये ।

विविधबहुकलानां पात्रभूतस्य तस्य

त्रिभुवनविदिता सा जृम्भते स्फूर्ति रच्छा ।। ४९ ॥ ४ मातस्त्वं भूर्भुव: स्वर्महरसि नृतपः सत्यलोकैश्च सूर्ये-

द्वारज्ञाचार्य शुक्राकिभिरपि निगमब्रह्मभिः प्रोतशक्तिः । प्राणायामादियानैः कलयसि सकलं मानसं ध्यानयोगं

येषां तेषां सपर्या भवति सुरकृता ब्रह्मता योगिता च ॥ ५० ॥ क्व मे बुद्धिर्वाचा परमविदुषो मन्दसरणिः

क्व ते मातर्ब्रह्मप्रमुखविदुषामाप्तवचसाम् ।

अभून्मे विस्फूर्तिः परतर महिम्नस्तव नुतिः

प्रसीद क्षन्तव्यं बहुलतरचापत्यमिह मे ॥ ५१ ॥

१. त्रिलोकी । २. भूभुजौ । ३. कीर्ति ।

४. यह श्लोक कुछ पाठ भेद के साथ परशम्भुमहिम्नस्तव में भी मिलता है ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

प्रसीद परदेवते मम हृदि प्रभूतं भयं

विदारय दरिद्रतां दलय देहि सर्वज्ञताम् । विधेहि करुणानिधे चरणपद्मयुग्मं स्वकं

निवारय जरामृती त्रिपुरसुन्दरि श्रीशिवे ॥ ५२ ॥ इति त्रिपुरसुन्दरीस्तुतिमिमां पठेद्यः सुधीः

स सर्वदुरिताटवीपटलचण्डदावानलः । भवेन्मनसि वाञ्छितं प्रथितसिद्धिवृद्धिर्भवे-

दनेकविधसम्पदां पदमनन्यतुल्यो भवेत् ॥ ५३ ॥ सङ्गीतं गिरिजे कवित्वसरणि चाम्नायवाक्यस्मृति-

व्याख्यानं हृदि तावकीनचरणद्वन्द्वं च सर्वज्ञताम् । श्रद्धां कर्मणि कालिकेऽतिविपुल श्रीजृम्भणं मन्दिरे

२१६

सौन्दर्यं वपुषि प्रकाशमतुलं प्राप्नोति विद्वान्कविः ॥ ५४ ॥ पृथ्वीपालप्रकटमुकुटस्रग्रजोरञ्जिताङ्घ्रि-

विद्वत्पूजा स्तुतिशतसमाराधितो बाधितारिः । विद्याः सर्वाः कलयति हृदा व्याकरोति प्रवाचा

लोकाश्चयैर्नवनवपदैरिन्दुबिम्बप्रकाशैः ॥ ५५ ॥

भूष्यं वैदुष्यमुद्यद्दिनकरकिरणाकारमाकारतेजः

सुव्यक्तं भक्तिमार्ग निगमनिगदितं दुर्गमं योगमार्गम् । आयुष्यं ब्रह्मपोष्यं हरगिरिविशदां कीर्तिमभ्येत्य भूमौ

देहान्ते ब्रह्मपारं परशिवचरणाकारमभ्येति विद्वान् ॥ ५६ ॥ दुर्वाससा विदिततत्त्वमुनीश्वरेण

विद्याकलायुवतिमन्मथमूर्तिनैतत् ।

स्तोत्रं व्यधायि रुचिरं त्रिपुराम्बिकाया

वेदागमै कपटली विदितैकमूर्तेः ॥ ५७ ॥ सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् । सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ।। ५८ ।। इति श्रीदुर्वाससा मुनीन्द्रेण विरचितं श्रीत्रिपुरसुन्दरी-

महिम्नः स्तोत्र’ सम्पूर्णम् ।

१. यह स्तोत्र श्रीविद्यानन्दनाथ के शिष्य श्रीनित्यानन्द की टीका के साथ काव्यमाला में मुद्रित है। इसकी त्रिपुरामहिमस्तोत्र और शक्तिमहिम्नस्तोत्र ये आख्यायें भी देखी जाती हैं ।

२२०

देशिकेन्द्रेण दुर्वाससा कृतः परशम्भुमहिम्नः स्तवः प्रथमं प्रकरणम्

अनेकशक्तिसङ्घट्टप्रकाशलहरीतनुः ।

शुद्धसंविच्छिवः पायाद्विभुः श्रीपरमेश्वरः ॥

श्रीशम्भो ते महिम्नः स्तुतिपथरचिताः साङ्गवेदाः सशास्त्राः

सिद्धान्ताः साङ्ग विद्याः सचकितमतयो नैव पश्यन्ति पारम् । साद्यन्तास्त्वामनन्तं परमशिवगुरुं ते कथं वर्णयेयु-

स्तस्मात्प्रज्ञानुसारादहमपि भवतः स्तौमि किञ्चिच्चरित्रम् ॥१॥ आनन्दात्मप्रकाशस्तव परमहिमापारपीयूषसिन्धु-

स्त्वद्भक्त्यामोदमग्नाः क्व च कविमधुपा ब्रह्मविष्णु प्रमुख्याः । श्रीशम्भो मोहजृम्भो न जनयति परां स्वात्मवत्तां किमेत-

च्चित्रं तद्वन्मयापि स्वमतिविभवतः स्तूयसे त्वं न दोषः ॥ २ ॥

श्रीमद्भिर्दृश्यभावै रहमहमिदमित्यात्मजृम्भाधिरूढै-

र्नानारूपैः पदार्थैरनवधिविभवै राशुदेदीप्यमानः । सर्वातीतस्त्वमेकः परशिवचरण स्वप्रकाशात्मशम्भो

नान्यस्त्वत्तः परोऽस्तीत्यहमिह गुरुणा त्वां स्वभावैरवैमि ॥ आत्मैवैष स्वकीयो निरतिशयचिदानन्दसद्ब्रह्मपूर्णो

जिह्मः संसारभावैरतिदुरधिगमै रात्तमायाविलासैः । सर्वात्मत्वादनन्तस्तव शिवमहसः श्रीगुरोः सत्यवाक्यै -

निस्तपाधिभेदैः परमपुरुष ते तत्त्वमद्वैतमेति ॥ ४ ॥

दीक्षां यः शाम्भवीयां शिवगुरुविहितां दिव्यबीजागमोक्तां

प्राप्य श्रीशम्भुतादात्म्यवितरणचणां जन्ममृत्युप्रभेत्रीम् । भित्त्वा भेद्यं पशुत्वं परशिवचरणध्यानयोगेन पूर्णः

स्वाघोरब्रह्मविद्याविदितपरपदं ब्रह्म स प्रैति विद्वान् ॥ ५ ॥

ब्रह्माण्डं पिण्डमेतत्पितरमिव सुतस्तत्समं नैकधर्मं

विज्ञायाज्ञानमुक्तः शिव गुरुवचनैरात्मविज्ञानशान्तः ।

सर्वात्मैकप्रभोस्ते परशिवचरणाराधनासक्तचित्तो

यः कोऽप्येकः स योगी जयति जनिमृती भो महामृत्युमृत्यो ॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

पिण्डे षाट्कौशिकेऽस्मिन्नवविवरपुरे पञ्चभूतेन्द्रियाढ्ये

पुंस्के स्त्रैणे च षाण्डे शिवगुरुवचनैरत्र विज्ञायसे चेत् । केनाप्यन्नासुचित्तप्रमितिनिरुपमानन्दकोशान्तराशि-

२२१

स्त्वं षोढा भिन्नमूर्तिः परशिव स बुधो विश्वरूपत्वमीयात्॥७॥

सर्वेश श्रीपुरेश त्रिभुवनभवनव्यक्तयः शक्तयस्ते-

ऽनन्ताद्याः श्री पराद्या निरवधिविभवा मातृकान्ताः क्षकान्ताः । विज्ञाताः स्युः स्वरूपे यदि शिवगुरुणा विश्वदृश्य प्रपञ्च

स्वात्मज्योति विलीनान्विदधति विदुषो योगिनः सैव मुक्तिः ॥ या षोढा पञ्चधा च प्रकटितविभवा श्रीपरा देव शम्भो

सैव श्री सुन्दरीति श्रुतिभिरभिनुता चक्रराजासनस्था । सर्वत्रानेककोटिप्रकटितगणनायोगिनीर्व्य श्नुवाना

त्वत्तेजोऽन्तर्निरूढा रचयति जगतामादिमध्यान्तकालान् ॥ या शक्ति. पञ्चवाहप्रवहणलहरीव्यक्तनै जात्मतेजः

संवर्ताग्निप्रपीत त्रिभुवनजलधिः कालसङ्कर्षणी ते । दिक्कालातीतमूर्ते परशिवमहतां भक्तिभाजामविद्यां

मृत्युं विज्ञानदानात्प्रहरति विदुषां तन्महत्त्वं त्वमेव ॥ १० ॥ सर्वज्ञो नित्यतृप्तः सदसदुभयगोऽनादिबोधः स्वतन्त्रो

नित्या लुप्तात्मशक्तिर्निरुपमचरितोऽनन्त इत्यङ्गषट्कैः । षट्शक्तिव्यक्तभावस्त्वमिह यदि शिव ज्ञायसे देशिकोक्त्या

येन स्वात्मन्यनादौ सकलविलसितं ते परायाः स भेदः ॥

गायत्री वेदधात्री शतमखफलदा वेदशास्त्र कवेद्या

चिच्छति ब्रह्मविद्यां परमशिव तव श्रीपरां व्याकरोति । शब्दब्रह्म क्यवाच्या मखिलमतमिति व्यक्ततत्त्वामवाच्यां

सप्तस्रोतोविभूतिं त्रिभुवनमयतां तत्त्वतः सर्वतुर्याम् ॥१२॥ संसारासारभारप्रवहणचतुरामादिशक्ति परां तां

स्वात्माभिन्नां विदित्वा वपुरनुमतिभिर्नावृताहङ्कृतिस्थः । त्रैलोक्यं ब्रह्मविश्वप्रसरमनवधिस्वप्रकाशप्रपूर्णं

ज्ञात्वा मुक्तः स योगी भवति गतभवस्त्वत्प्रसादान्महेश ॥

विश्वेश स्वप्रकाशप्रसरमिह विना नान्यदस्तीति तत्त्वं

मीमांसारूपमेतत्तव परमगुरो श्रीमुखाम्नायजालम् ।

२२२

स्वप्रत्यक्षं विहाय स्वरहितमिति चेदस्ति नान्यत्र तत्त्वं

ये धीरास्तर्कयेयुस्त इह जनिमृतीराप्नुवन्त्यङ्गभारैः ॥ १४ ॥ न ब्रह्मा विष्णुरुद्र सुरपतिरमरा नासुरा नैव पृथ्वी

नापोऽग्निर्नैव वायुर्नच गगनतलं नो दिशो नैव कालः । नो वेदा नैव यज्ञा न च रविशशिनौ नो वियन्नो विकल्पः

स्वज्योतिः सत्यमेकं जयति तव पदं सच्चिदानन्तमूर्ते ॥ १५ ॥ शम्भो सैद्धान्तिका ये स्वमतिविभवतोऽखर्वगर्वाः प्रमाणै-

मीमांसन्ते भवन्तं बहुमतजनकैरावृता शुद्धविद्यैः । अन्योऽन्यस्पर्द्धिनस्ते कथमिह भवतस्तत्त्वमीयुः स्वतेजः

सर्वातीतं विकल्पग्रहरहितमजं मानतर्काद्यगम्यम् ।। १६ ।। धीराः केचिन्महान्तो गुरुवचनरतास्त्यक्तसंसारभावा

निःशङ्काघोरविद्याः परिणतमतयः सर्वसङ्कल्पमुक्ताः । त्वत्कारुण्याक्षिलक्ष्याः परमशिव भवत्साधकाः पुण्यपापैः

कृत्याकृत्यै विहीनाः परपदविभवं त्वां प्रपश्यन्ति विश्वम् ॥१७॥

सिद्धान्तः शाम्भवोऽयं शिवगुरुवचनाघोरविद्याक्षरोक्तः

स्तोत्र व्याजेन निर्वाह्यत इति भवतः श्रीविभो चापलं मे । अत्र न्यूनातिरेकोक्तिजनितमसकृत्क्षम्यतां दासबुद्धया

मच्चित्तस्थः प्रमेयं समुपदिश परं मातृकावर्णराशिम् ॥१८॥

इति उपोद्घातप्रकरणं प्रथमम् ।

द्वितीयं प्रकरणम्

श्रीमद्रश्मिप्रभावं त्रिभुवनभवनव्यञ्जकस्वात्मदीपं

को वा वक्तुं निरुक्त्या प्रभवति यतधी रात्तसम्यग्विमर्शः । यत्र ब्रह्मादिविद्वन्मतिरपि विगतिर्याति भीत्या विनाश

श्रुत्या सार्द्धं स केन प्रविततमतिना वर्ण्यते ते महेश ॥ १ ॥

षण्णामप्यन्वयानां क्षितिजलदहन स्पर्शनाकाशचेतः

पीठस्थानां पराद्याः परशिवभवतः शक्तयो मातृकान्ताः । ब्रह्मादिप्रेतसिंहासनगत विभवैस्तावकीयैः षडङ्गै-

द्वत्रिंशद्रश्मिमुख्याः स्वकिरणकरणव्याप्त विश्वैर्विभान्ति ॥२॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

बुद्धेः सम्यग्विमर्श प्रकटितसरणेरर्थवद्वाक्प्रवृत्ते-

यंत्र स्थाने तुरीये नवकलित महावाक्यतत्त्वे विनाशः । तत्कि ज्योतिस्तमो वा सदसदुभयगं किं न्वमूर्त नु मूर्त

२२३

निर्धारश्चेद्विनाशो नहि मतिवचसां देव तस्मात्परस्त्वम् ॥३॥ ज्ञानं योगः प्रकाशो विधिरुभयमतिर्देहधीः प्राणशून्या-

हङ्काराधिकामः स्वविषयमनघं चाश्रयन्नन्तरास्ते । इत्यात्माकाशसत्ता तव परिविदिता सम्यगेतत्प्रमेया-

धारेष्वन्तर्धृतं यत्पयसि तिलचये तैलबद्धासि हीश ॥ ४ ॥ षट्त्रिंशत्तत्त्वपुष्पस्तबकपरिमलस्तावकीयः स तेजः-

कल्पद्रुश्चेत्प्रबुद्धः शिव गुरुवचसा सर्वतः स्वानुभूतः । अद्वैत ब्रह्मबुद्धि जनयति विदुषामेष एवास्मदादि-

ब्रह्मान्तात्मप्रपञ्चे विलसति न परोऽस्तीति चेत्पारिजातः ॥५॥ स्वप्रत्यक्षेपि तत्त्वे करतलफलवद्वेत्ति नासी स्वरूपं

नाना सिद्धान्त जालप्रलपितजनिताज्ञानमोहान्धकारैः । आक्रान्तः पुण्यपापैरधिगत निधनै रात्मकर्मण्यनादौ

हेयोपादेयबुद्धया भव इति विहितस्ते महामाययेश ॥ ६ ॥

एकोऽसौ लक्षणैश्चेदखिलतनुगतैरिन्द्रियार्थैरनेकै-

भिन्नः स्वात्मप्रकृत्या विधिजनिमृतिभिः सन्निबद्धः किमेतत् ।

देवत्वं मानुषत्वं वपुषि भुजगतां सर्वजीवात्मकत्वं

धत्से शैलूषवत्ते स्मरति न तु पदं श्रीमहादेवमूर्ते ॥ ७ ॥

इति पराशक्तिस्कन्धरश्मिप्रकरणं द्वितीयम् ।

तृतीयं प्रकरणम्

सत्त्वं चित्त्वं महत्त्वं तव परमगुरोरात्मशक्तेः परायाः

पिण्डीकृत्य प्रकृत्य प्रथम रतिपतिव्याजकालान्तवह्निः ।

भूत्वा संसारसृष्टिस्थितिलयनिलयाद्याति तोयार्णवान्तं

तन्वानो निर्ममेच्छस्त्वमिह विजयसे विष्णुमायाविभूते ॥१॥ मायायामन्तरस्थः कुसुमसररसस्तावकीयः स्वकाले ।

ज्ञानज्ञेयप्रमातृप्रकटितमहिमा स्वप्ररोहप्रसारैः ।

२२४

उत्पाद्याद्यं विरिञ्चं तदनु भुवनतामात्मना व्यश्नुवानो

बीजाकारः स्वयम्भूरिति कथयति ते नाम विश्वात्मसृष्टेः ॥ २॥ आदिक्षान्तार्णसृष्टि त्रिभुवनभवनाभासभूमि शिवादि-

क्षित्यन्तात्मीयतत्त्वावलिविकृतगति वैधसाण्डान्तभूमिम् । आत्मीयानुत्तरेच्छा गुणपरवशतां प्राप्य संव्यश्नुवानः

श्रीशम्भो विश्वसृष्टिर्भवसि निजमलत्रय्युपप्रोषितात्मा ॥३॥ चत्वारः कालतत्त्वे तव युगपतयस्ते च धातुश्च पुत्रा

व्याख्याता द्वादशैते स्थितिकृतिविदिताः सावताराः सदाराः । श्रीकण्ठाद्याच नाथा धृतयुगविधयस्त्वन्नियत्युत्थितान्ता-

चैतन्या एव तस्मात्स्थितिरिति विदितस्त्वं सहस्रार्कदीप्ते ॥ ४ ॥ आत्मीयानादिरश्मीनिह भवजनितानेकसिद्धान्तजाल-

व्यामोहोद्य द्विकल्पानृतनिजविषयान्पुण्यपापादिभेदैः । दुर्ज्ञेयान्देशिकोक्त्या प्रविमलवपुषि स्वप्रकाशैकवह्नौ

स्वात्मत्वेन प्रबुद्धाञ्झटिति विजयते यस्त्वदात्माविरोधः ॥ जाग्रत्स्वप्नप्रसुप्तिप्रकटितविभवैरात्ममायागुणैः स्वै-

र्ज्ञानेच्छाक्रोधरूपैर्विधिहरिहरकैरावृते मोक्षमार्गे ।

पान्थाः केचित्सुधीराः शिवगुरुवचनज्ञानशास्त्राग्निदीप्ता

स्त्वत्कारुण्यै करक्षापरिविहितभियस्त्वां प्रयान्त्यादिमूर्ते ॥ ६ ॥

त्वं मायाकामदेवप्रथममसि ततः स्वस्य सृष्टी विधाता

रक्षायां विष्णुरन्ते प्रबलतरमहारुद्रमूर्तिः स्वमूर्ती । सत्योऽनन्तः प्रमाता शिवगुरुरिति च स्वात्ममूर्तिप्रभावः

स्वेच्छावस्थागुणादयोऽप्यगुण इति विभो वस्तुतः स्तूय से त्वम् ॥ इच्छाशक्त्या ययैतत्कवलितमखिलं ते जगज्जालरूपं

सृष्टिस्थित्यन्तवृत्त्या सरसि जलधरासारतुल्यात्मगत्या । सैवानन्तान्तरङ्गप्रस र बहुविधाने कसङ्कल्पभाव-

राविर्भूय त्वदङ्गप्रकटनकृतये बोधसिन्धुस्त्वमेव ॥ ८ ॥

इति इच्छाशक्तिस्कन्धरश्मिप्रकरणं तृतीयम् ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

चतुर्थ प्रकरणम्

२२५

संवेद्यं तत्त्वजालं परशिवधरणी मूलपारं विचित्रं

कर्मानन्तप्रपञ्चं निरुपममहिमानादिमध्यावसानः । ब्रह्मानन्दामृताब्धिः समरसविधुना जृम्भितस्वात्मभासो

हेतुत्वेन प्रबोधज्वलन तव महाज्ञानशक्ति व्यनक्ति ॥ १ ॥

गोजं क्षीरं यथैकं द्युतिविविधगुणस्वेन्द्रियार्थ प्रकाशोऽ- प्येकस्तद्वर्णनानारुचिरधिकरणस्यैकताकारणेन ।

नीलाद्याभासबुद्धया नभसि परिवृतो धूमभासैरिवाग्निः

प्राचुर्येण प्रदीप्तः परमशिव ततः सत्यविश्वात्मकस्त्वम् ॥२॥

नित्याखण्डप्रकाशादमलतरविभो त्वत्सकाशात्कदाचि-

माया सञ्जायमाना त्रिगुणमुखगणव्यक्तशक्तिस्वभावा । सिद्धान्त भिन्नमानप्रमितिभिरसुखैर्भेदबुद्धि प्रधानैः

संसारित्वं प्रसार्य द्रढयति भवतः सत्यतां वेदविद्या ॥ ३ ॥

अन्यः पक्षोऽथवात्र प्रविमलकलनानन्तशक्तिप्रकाशः

सत्याख्यः सोऽपि यत्र प्रविलयमयते शून्यगर्ते तदात्मा । यौष्माकः सत्यभावः स च निजमहसां कामरूपात्ममाया-

मुत्पाद्यैतत्प्रपञ्चं घटयति तदिदं व्यश्नुषे स्वात्मयोने ॥ ४ ॥

ऐक्याच्चिदुह्लादयोश्चेदिदमहमिति च द्वन्द्वभावस्य जीव-

ब्रह्मादिद्वैतबुद्धयोदिनकरशशिनो रण्डविध्यण्डयोश्च । प्राणापानाख्यवाय्वोः सुकृतदुरितयोः स्याद्यदा सामरस्य-

प्रादुर्भावस्तदा त्वं भवसि सदसदानन्दनाथः परोऽग्रे ॥ ५ ॥

सेयं विज्ञानशक्तिस्तव शिवगुरुणा दर्शिता नित्यशुद्धा

निर्द्वन्द्वब्रह्मतत्त्वं गमयति सुधियां सच्चिदानन्दपूर्णम् ।

लोके प्रमातृप्रमितिभिरिति चेदथिता भिन्नमार्गाः

मुद्रा नाना स्वरूपाः प्रकटयति मुदाहङ्कृतिस्थाः परेश ॥ ६ ॥

इति ज्ञानशक्तिस्कन्धरश्मिप्रकरणं चतुर्थम् ।

१५ म० मा०२२६

पञ्चमं प्रकरणम्

बुद्धिज्ञानेन्द्रियाणां निजनिजविषयास्वादभोगप्रबोध-

क्षीराब्धि: प्रोद्यदिच्छा मृतकरणरुचा वाङ्मुखक्षालितैश्च । सङ्क्रान्तश्चालितार्थप्रस रबहुपथः स्वात्ममायोरुपूर-

त्रुट्यद्ब्रह्माण्ड बिन्दूविकिरति तव चेत्त्वं शिवातः क्रियात्मा ॥ सृष्टिस्थित्यन्तलीलावकलितसरणिर्यत्प्रयत्नो यदीयं

धैर्यं विख्यातवीर्यं सकलमिति गता यस्य बुद्धिः समृद्धा । यत्सामर्थ्यं प्रभूतं निरवधिगणनाजाण्डरुद्राण्डभाण्डा-

गारं यद्ब्रह्मसत्ता जयति तव मनोरूपविश्वात्मकत्वम् ॥ २ ॥

संवेशं दूरदेशं कलयति सकलं कर्मकृत्यं च तत्त्वं

स्वं यद्बाह्य न्द्रियाणां चलनमपि विना स्वान्तमन्तः प्रकाशम् । तत्ते वीर स्वतन्त्रप्रकृतिनिगमनं निर्गतोपाधितर्क

वाह्याख्यादर्शनार्थं विमलशिव ततस्त्वं हृषीकाश्रयात्मा ॥३॥

यद्वन्न्यग्रोधबीजं पृथुतरविटपानोकहत्वेन रूढं

सामर्थ्यं दर्शयेस्त्वं परमशिव सदा सत्यविज्ञानबीजम् । इच्छाक्षेत्रे सुबुद्धीन्द्रियकुलकलितं सर्वतः स्वक्रियाभिः

स्वात्मानं विश्वरूपं प्रकटयसि यदा त्वं तदा गोचरः स्याः ॥४॥

स्वात्माशेषाक्षवृत्तेः पृथगयनतया क्वापि भूतानि पञ्च

क्वापि प्रेक्षाप्रपञ्चः क्व च निनदमुखाः क्वापि वाक्यादयश्च । एतैरेव प्रवृत्तो निजविषयतया सर्वविश्वात्मजृम्भ-

स्तस्मात्त्वं लोक मुख्योऽद्वयमिति रहितः स्वप्रकाशप्रमेयः ॥५॥ कालावस्थाश्च तिस्रो गिरिश दश दिशः सप्तधा भूमिरापो

नाना तेजः समीरा दश वियदखिलव्यापि चैकादशाक्षाः । भिन्नार्थानन्यबोधप्रकटितमहिमा बीजभेदास्त्वनन्ता-

स्त्वत्सक्ता बीजजाताः स्वगुणमनुसरन्त्येव ते देव सत्त्वात् ॥ ६॥

पञ्चाशद्वर्णमाला बहुविधनिनदोच्चारणात्तत्त्वजाल-

व्यक्तिव्यापारसक्ता गिरिश गुरुमुखाम्नायविद्यास्वरूपा ।

धात्राद्युत्पत्तिपूर्वं श्रुतिमुख विविधाने कसिद्धान्तविद्या

नानाभाषा क्रियाभिः प्रकटयति ततः सैव ते साङ्गवेदान् ॥७॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

वर्णेभ्यो धातवः स्युविविधपदचयस्तद्भवस्तेन वाक्यं

तस्माज्जातं प्रमाणं विविधनिगमनं तेन सिद्धान्तजालम् । तस्मान्नानात्मतत्त्वप्रकटनमिति यत्तत्त्वविद्या त्वदीया

२२७

त्वं चेदेकोऽद्वितीयः क्रमरहितमहासंविदात्मा महेशः ॥ ८ ॥ यज्ञस्थानं श्मशानं सकलमिति गृहं भास्वदोङ्कारपीठं

प्रादुर्भूतप्रयाणस्थलमिति विपुलं कल्पवृक्षाधिरूढैः । संवीतभैरवोरगपतिगणपैस्तत्र दिव्यार्घ्यपात्रं

वह्निब्रध्नेन्दुक्लृप्तं परशिव सकलं व्यश्नुषे स्वात्मना त्वम् ॥९॥ चित्पूजादृक्क्रियात्मा गुरुकथितमहारुद्रमूर्तिः समन्ता-

दात्मीयै रङ्गदेवैरधिगतविषयाज्याहुति निर्विकल्पः । निष्कामैरात्मकामैरुपचितयजनैश्चित्स्वतन्त्र रतन्द्रै-

रात्माग्नौ ब्रह्मविद्यापरिणतमतिभिः श्रीविभो हूयसे त्वम् ॥१०॥ द्वैतं यत्रानधेध्मं पशुरधिपिशितो मृत्युरक्षाणि जिह्वा-

हव्यं चाथ प्रबोधः प्रकटहुतवहो निर्मलात्मैव होता । अध्वर्युः स्वच्छचेतो गुरुमुखविदिता मातृकोद्गातृवर्ग:

स्वाचार्यो देशिकेन्द्रः परमखभुगसि त्वं परः शम्भुरीशः ॥११॥ यागाश्वान्ये सकामैः पशुभिरिह कृताः सर्वसिद्धान्तकृत्याः

नानायज्ञक्रियाश्च त्रिभुवनभवने चित्रकर्मप्रसाराः । विश्वोत्पत्तिप्रतिष्ठाप्रहरणाविधयः स्वक्रियाशक्तिबीजा:

सञ्जाताः सर्वतस्त्वं प्रभवसि मनसा चित्रनिर्माणमूर्ते ॥ १२ ॥

इति क्रियाशक्तिस्कन्धरश्मिप्रकरणं पञ्चमम् ।

षष्ठं प्रकरणम्

नित्या लुप्तात्मशक्तिः सकलतिथिफणापञ्चदश्या प्रदीप्त-

स्त्रुट्यादीन् कालवायुन्ग्रसदुरुरसनश्चक्रवल्मीकवर्ती । सम्यक् चैतन्यगुम्फैरवगतकिरणो विश्वजृम्भैकभर्ता

कृष्णाध्वार्केन्दुयोनिर्भजगपतितनुस्त्वं ततः कुण्डलीशः ॥ १ ॥

स्वस्थात्मा चित्तपूर्वं रविशशिपदवीं पूरितांशुप्रचारां

दीपान्तर्वह्निवेधैरविततगतिभिर्बोधिताधारशक्तिम् ।

२२८

तत्तच्चक्रप्रभेदोद्भव विविधमहाशब्दरूपामनन्त-

ब्रह्मानन्दप्रवाहामनुभवसि परामादिसौषुम्णमूर्ते ॥ २ ॥ यस्मात्प्राणः प्ररोहत्युपरिगतिरधः सम्प्रधावत्यपान-

स्तस्मादेवाविरोधात्तदुभयजनिकृद्वायुसंरोधमात्रात् । विद्याविद्यादियुग्मप्रसरसमरसाम्बोधिजृम्भैरदम्भैः

सार्द्धं हंसः परस्मिन् महसि खलु लयं प्रति ते प्राणसूत्रः ॥ ३॥ सर्वेषामिन्द्रियाणां निजनिजविषयोद्योतनं यत्प्रसूतं

साराः सर्वेषु कर्मस्वनुपमविषयाः साध्वसानन्दकोपाः । यज्जाताः सर्वनाडीपथचलदनिलव्याप्तयः सर्वभावाः

नानारूपाश्च सर्वायनपथिकमहास्पन्दकः स त्वमेव ॥ ४ ॥ बुद्धवासदेशिकोक्त्या सुविदितविभवां खेचरीं दिव्यमुद्रा-

मर्थानन्तप्रपञ्चान्वितनिजकरणान्यात्मचित्ते निरुद्धय । तच्चित्तं ज्योतिरङ्गं निरवधिकरणं चिन्येद्यः स योगी

निर्वाणः कृष्णवर्त्मा भवति तव महास्पन्दतामेत्य शम्भो ॥ प्राणाख्या कुण्डलिन्या जगदिदमखिलं प्राणितं ते ययेश

ज्ञात्वा यां योगिनस्ते परतरमभयं यान्ति शान्तं पदं तत् । यामज्ञात्वा भवाब्धौ जननमरणकृत्क्रूरकर्म प्रबद्धा

मज्जन्त्याद्यन्तहीना यदि कृपयति सा मोचयेन्मृत्युबन्धात् ॥

इति कुण्डलिनीशक्तिस्कन्धरश्मिप्रकरणं षष्ठम् ।

सप्तमं प्रकरणम्

अज्ञातं ब्रह्मतत्त्वं निजहृदयदरीलीनमात्मप्रकाश

व्यक्तीकर्तुं स्वनित्याक्षरविदितमहामातृकात्वं प्रपन्नः । त्वं दिव्याम्नायविद्यासुविदितमहिमानन्तशक्तिप्रकाश-

स्तत्तद्वर्णात्मभेदैरुपदिशसि पदं श्रीगुरो स्वस्वरूपम् ॥ १ ॥

श्रीशब्दब्रह्ममूर्ते सकलरवमयानाहतध्वानभेदा-

नात्मीयानक्षरस्थान्बहुविधनिनदैर्भूरिवाद्यप्रभेदैः । भेरीनिःसाणघण्टादरमुरजमहाशृङ्गनालोरुतालै-

वंशैर्यत्रैव गात्रैर्जलधरपटलैस्त्वं ब्रवीषि ध्वनिज्ञः ॥ २ ॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

तत्त्वानां व्यक्तिहेतुः सकलतिथिगतः सुप्रपूर्यष्टकाङ्ग-

स्त्रीपुंसद्वन्द्वरूप मणिशशिमहावह्निपादः षडात्मा । सर्वाभिप्रायसंवित्प्रकटितविभवस्त्वं महाम्नायविद्या-

२२८

सारस्फारस्वरूपः पुरुष इति ततः सोऽक्षरात्मादिवर्णः ॥ ३ ॥ रम्योदात्तानुदात्तस्वरितविकृतिगः प्रोच्चनीचोभयस्थो

भेदादष्टादशात्मा महितनिजमहास्फूर्ति रेकोऽक्षरादिः । षड्जादिग्रामजातश्रुतिविततलसद्गीत सप्तस्वरोद्य-

न्नानारागान्प्रबन्धानधिवसति भवानादिनित्यस्वरात्मन् ॥४॥ सर्वास्यस्थानवर्णः प्रथमविगणितस्त्वं स्तुतः षोडशीति

स्वेच्छाशक्त्या निरूढ़ द्रढिमनिजमहाप्रौढिमाढौकमानः । कालव्यक्तस्त्रिलिङ्गिन्निजगतिविलयान्ह्रस्वदीर्घप्लुतादीन्

विद्याविद्योभयात्मा जनयसि परितः श्रीमहावर्णजात्मन् ॥५॥ पक्षद्वन्द्वैककर्तावनिजलहुतभुङ्मारुताकाशमूर्ते

श्रोत्राद्यक्षाणि सर्वाण्यधिगतचरणः स्वप्रकृत्या निबद्धः । अन्तःस्थो विश्वरूपः पुरुष इति यतो ज्ञायसे स्वक्रमेण

ज्ञाता वर्गाक्षराणां परमशिव जनैस्त्वं ततो वर्गोऽसि ॥ ६ ॥

सर्वातीतात्मधा मानलनिलयपदज्ञापिका मन्त्रविद्या:

सत्याभिप्रायबुद्धया शिवगुरुवदनाम्भोरुहाद् भासमानाः । नानार्था धातवश्च प्रकटितविभवाश्वित्रवाग्ब्रह्मवेदाः

सर्वं नश्यद्विना त्वां परशिव सहजं वर्णसंयोगरूपम् ॥ ७ ॥ ओङ्कारं स्वात्मवासं श्रुतिभिरभिनुतं वाग्भवं शक्तिबीजं

माबीजं स्मारबीजं परतरविभवं मातृकाबीजयुग्मम् । शैवान्त्यं चापि गत्वा षडयनविलसत्कूटषट्कं च भित्वा

हंसः सोऽहं तथा त्वं विरमसि मनसामन्तरे मन्त्रमूर्ते ॥ ८ ॥ विद्वेन्दोरुनादैवकलितकलाव्याप्तिभिः साधिदेव-

र्नानानन्ताधिदेवैः परिणति सुलभैः श्रीगुरुक्तागमस्थैः । न्यासैविद्याविशेषैः श्रुतिसुखविविधानेक सिद्धान्तमन्त्रैः

विष्वक्प्रोत प्रतीको दहसि भवमघं दुष्प्रभामन्त्रवह्नौ ॥ ९ ॥

वर्णास्ते मन्त्रविद्या दशविकरणगा धातवो नित्यशब्दाः

वाक्यान्याम्नायभेदा बहुविधमतजाः साङ्गभेदाश्च भाषाः ।

२३०

नाना च्छन्दांसि तालाः स्वरविकृतिगुणाः सर्वतो वाङ्मयस्था:

नानारूपाः पराग्नेः समजनिषत ते मातृकाशक्तिबीजात् ॥१०॥

इति मातृकाशक्तिस्कन्धरश्मिप्रकरणं सप्तमम् ।

अष्टमं प्रकरणम्

एवं रात्रिन्दिवस्थाः परशिवघटिका एव ते रश्मिभूताः

स्त्रीपुंसद्वन्द्वरूपा रविशशिचरणाक्रान्तयो रक्तशुक्ला: । षट्छक्त्यंशप्रभेदा दहरपुरयुगे कोणषट्कान्तरस्थाः

कालावस्थाश्चतुभिः प्रविदधति युगैविश्वभूतैर्निदानैः ॥ १ ॥ षट्त्रिंशत्तत्त्वमालामवनिमुख शिवान्तामुपेतात्मवृत्ति

खे वायौ सप्तविंशत्युडुगण विकृतीर्जीवमाया शिवांशात् । तेजस्थाः स्वान्तरात्मान्तरतनुविकृती रस्थिमांस प्रमुख्याः

क्षोण्यां त्वं जीव मायागुणगणमभितो भासयस्यंशुमालिन् ॥ २ ॥ यावन्तस्ते मयूखाः क्षितिजलदहनस्पर्शनाकाशचेत:-

I

पीठस्थाः षट्प्रमाणाः परमधिपतयो भैरवा एव सर्वे । तेषां मध्ये त्वमेकः परतरम हिमोज्ज्जृम्भमाणः प्रचण्डो

मार्तण्डो रश्मिमध्य स्थित इव परितो भासि चि वाग्ने ॥ ३ ॥ भैरव्यो रश्मिदेव्यस्तव शिव करुणापूरिताक्षाः प्रसन्ना-

स्त्वत्सत्ताकाशवाहोदित निजगतयश्र्चवितात्मार्थ कृत्याः । तद्धामन्येव शान्ताः सुरमुनिपितृभिः पुण्यपापैश्च बद्धान्

भक्ताँश्चानेक बाधाञ्झटिति विघटयन्त्यात्मबोधाग्निजृम्भैः ॥४॥ श्रीनाथ श्रीपरेश्वर परशिव ते दिव्यदिव्या मरीची-

ब्रह्मादीनां मनोवागनवगतमहाचित्रनानार्थ रूढाः ।

गूढप्रौढप्रकाशाः सुरमुनिवचनैरप्यबुद्धाः कथं वा

स्तोतुं ज्ञातुं समर्थो भवति कविजनः कोऽत्र मन्दो नृमात्रः ॥ ५ ॥

इति श्रीषडन्वयरश्मिविवेकस्कन्धप्रकरणमष्टमम् ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

नवमं प्रकरणम्

२३१

साङ्गा भूमिः शताङ्गः शतधृतिरपि तत्सारथिः सप्तयस्ते

वेदा ब्रह्म वेद्याः पृथुतरचरणौ पुष्पवन्तौ तदक्षः । मेरुस्तत्कीलबन्धः कमठपतिरिभास्तत्पृथुस्तम्भपङ्क्तिः,

शेषस्तद्राज्जुबन्धस्तदुपरि पितृभूस्तत्र चिन्त्यो रथी त्वम् ॥१॥

कल्पान्तानन्तसूर्यद्युतिमति विकटानेकदंष्ट्र षडास्यं

वह्नीन्द्वर्काम्बुकाष्ठादशयुतमभितः प्रज्वलन्तं मयूखैः । शूलासीषूग्रशक्त्यङ्कुशवरनृशिरः श्रीफलेष्वासनारि-

द्योतत्पाशाभयाङ्कनिजभुजपरिघैस्त्वां गुरुं शम्भुमीडे ॥२॥

नागास्थीन्दुप्रसूतैः श्रवणगतमहाभूषणैः कुण्डलीन्द्रै-

राक्रोशन्मुण्डमालापरिवृतवपुषा दिक्षु जाज्वल्यमानम् । मत्तेभेन्द्रोरुकृत्यन्तरघटितकटीमण्डलं साट्टहासं

तं भास्वद्व्योमगर्भोदरविधृत कराङ्गुष्ठमात्रं प्रपद्ये ॥ ३ ॥

नागेन्द्रैः कल्पवृक्षैरधिगत विहगै भैरव देवदैत्यैः

भूतैः प्रेतैः पिशाचैः परिवृतमभितो योगिनीभिः श्मशाने । सर्वप्रज्ञैकवासं त्रिभुवननिलयं स्वात्मनाध्यात्मदीप्तं

सर्वोत्तीर्णात्मतत्त्वेश्वरमनलमुखं त्वां गुरुं शम्भुमीडे ॥ ४ ॥

नाना ध्यानात्मयोगप्रकटितशिवतासिद्धरूपप्रसादः

स्वेच्छाज्ञानक्रियात्मत्रिशिखविदलितत्रय्युदीर्णप्रमोहः । सत्यज्ञानासिभिन्नप्रमितिजनिरिपुः स्वात्मयोगेषु धारा-

च्छिन्नाविद्यासु लक्ष्यः परमशिव विभो तेन मृत्युञ्जयस्त्वम् ॥५॥ देव ब्रह्माण्ड सृष्टिस्थितिलय समयध्वंसिनी ते त्रिशक्ति-

र्मायाशक्तिप्रचण्डोद्धतघनकरिणी वारिणी सा सृणिस्ते । धर्मार्थात्मेष्टमुक्तिप्रवितरणचणस्ते वरस्तेऽप्यभीति-

विश्वग्रासोग्रमृत्युप्रतिभयदलिनी तद्भवा मृत्युमृत्युः ॥ ६ ॥

पाशस्ते विश्ववश्यः पितृपतिकृतभी र्हस्तिनी सिंहवृत्ति-

श्वक्रः संसाररात्रिद्युमणिसमुदयस्तावकस्ते पिनाकः । आक्रान्ताशेषमोहप्रकृतिविकृतिको मातृकाचित्परात्मा

प्राणास्ते तत्कपालं हतविधिमुखसत्प्रेतचिद्रूपमीश ॥ ७ ॥

२३२

एवं ते दिव्य दिव्यायुधपरमहिमा गीयते वेदशास्त्र:

प्रागुक्तस्ते शताङ्गोऽप्यपि च पितृगणप्रेतशीर्षोच्चरङ्गे । उच्चण्डं ताण्डवं ते त्रिभुवनभयकृद्वज्रपाताट्टहासो

भीषास्मात्त्वत्सकाशादपर इव परो नास्ति तेनोग्रवीरः ॥ ८ ॥ चित्ताकाशानिलाग्न्यम्ब्ववनितलपतिप्रेतसिंहासनस्थ:

षट्छक्तिव्यक्तमूर्तिः षडयनपथिकः सोमसूर्याग्निपादः । ब्रह्माग्निः सप्तजिह्वाकवलितविषयीभूतविश्वप्रपञ्च

स्थूलोऽपि ध्यानदृष्टेस्त्वमधिकतमसां ज्योतिषामप्यगम्यः ॥ ९ ॥ इत्युक्तध्यानचिन्त्योऽप्यनवगतमनोवाक्प्रवृत्तिस्वभावः

स्वच्छन्दात्मीयसत्ता चिदुचितविभवः पावकः शम्भुरूपः । सर्वातीतस्वभावोऽप्युपनिषदुदितज्ञानमीमांस्यमानः

सत्त्वं यस्यान्तरङ्ग े निवसति स शिवस्त्वन्मयः स्यान्महेश ॥१०॥ श्रीमानप्यादिभिक्षुस्त्रिभुवनजनकोऽप्यात्मभूरागमोक्ति-

व्याख्यावेद्योप्यवाचः प्रकृतिसुविमलोऽप्यात्ममायाविलासः । तत्त्वादेकोऽप्यनेकः परयुवतिरतोऽप्यात्मवित्सेव्यमानः

तस्मात्स्वच्छन्दलीलस्त्वमिह विजयसे मानसीं भाववृत्तिम् ॥

इति श्रीपावकध्यानयोगप्रकरणं नवमम् ।

दशमं प्रकरणम्

द्रष्टव्यस्त्वं जगद्भिर्बहुविधविधिभिः सर्वसिद्धान्तवाक्यैः

श्रोतव्यो निर्विकल्पः शिवगुरुवदनाम्भोरुहेण प्रबुद्धः । मन्तव्यः सर्वतत्त्वावकलितचरणस्तन्निदिध्यासितव्यः

सत्तामात्रावलम्बीत्यमरनुतपदो नास्ति देवस्त्वदन्यः ॥ १ ॥

उग्रं शान्तं च वीरं सकलमयमहाविष्णुमग्नि ज्वलन्तं

सर्वत्रानन्तवक्त्रं नरमृगवपुषं भीषणं सर्वभद्रम् । सर्वज्ञं मृत्युमृत्युं वहुविधनुतिभिर्वन्दितं सर्वलोकैः

विश्वाहङ्कारजृम्भं परमशिवगुरुं त्वां भजे मन्त्रराजम् ॥२॥

शम्भो त्वां भूर्भुवः स्वर्महरुदिततनुं त्वन्तरिक्षद्यसूर्या -

रज्ञाचार्येन्दुशुक्राकिभिरपि निगमब्रह्मभिः प्रोतशक्तिम् ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

प्राणापानादिभेदैः कलयति सकलं मानसं ध्यानयोगं

२३३

येषां तेषां सपर्या भवति सुरकृतब्रह्मता योगिता च ॥ ३ ॥

सर्वोत्कृष्टं परं तत्सवितुरनुपमं ते वरेण्यं शरण्यं

भर्गो देवस्य धीमह्यभिदधति धियो यो न इत्यौर्वतेजः । तुर्यं सर्वाणि भूतान्यधिगतममलं सर्वतो दृक्क्रमाद्यं

ध्यायामि ध्येयमन्तःकरण सुनियतैर्योगिभिः श्रीमहेश ॥ ४ ॥ कालोऽनन्तो युगात्मा शिव दिवसनिशापक्षमासास्तथाब्दाः

तद्भेदाः षऋतुस्थास्तदनुगतजगत्सर्ववृत्तान्तभेदाः । दानायज्ञक्रियाश्च त्रिदशदितिसुता मानुषाः सर्वनागाः

योगीन्द्रा जीवसङ्घास्तव चरणबिलं यान्ति जन्मान्तमध्यात् ॥५॥ भूतं भव्यं भविष्यत्त्रिभुवनभवने षण्महाशक्तिभिस्त्वं

तत्सर्वं व्यश्नुवानो विचरसि कलितः सृष्टिगत्यन्तकामैः । देवदैत्यैर्मनुष्यैरुरगपतिकुलैः सर्वजीवप्रसारै-

रत्मीयै चित्रिताङ्गः शिव भवतमसः सूर्य भास्त्वं परस्तात् ॥६॥ श्रोता स्पर्शी च द्रष्टा निजरसरसिकः सर्वगन्धान्तरज्ञो

वक्ता कर्ता च गन्ता त्रिभुवनभवतो विश्वसर्गः प्रमोदी । कामी मीमांसकच प्रथितशुचिशिखासप्तकव्याप्त विश्वो

बोद्धा स्वार्थाननन्तानधिगतचरणः सर्वतस्त्वं शिवोऽसि ॥७॥

सर्वार्थी सर्वनामा सकलकुलपतिः सर्वलोकाङ्गनेशः

शृङ्गारी सर्वभोगी नवरस रसिकः प्राज्यसाम्राज्यभोक्ता । त्रैलोक्ये वाक्प्रपञ्चे प्रवचनपठितः सोमयाजी च यज्ञः

संसारी कामचारीत्यनुवदति जनो यः स धन्यः शिव त्वाम् ॥

क्षेत्र क्षेत्रप्रमाता शिवगुरुवदनाघोरविद्याधिदेवो

मन्त्रो मन्त्राधिदेवो मखविधिरनघो योगयोग्यः पदार्थः ।

त्वं दर्श: पूर्णमासः परिधिरपि मखाचार्यवर्यश्च होतो-

द्गाताध्वर्युश्च हव्यं त्रिविधहुतवहस्त्वां विना नास्ति शम्भो ॥

क्षेत्रज्ञाः सर्वदेवाः सुरनरभुजगाः सर्वजीवाश्च तच्च

क्षेत्रं ब्रह्माण्डरूपं त्रिभुवनभवनव्यापकं चित्ररूपम् । एतावद्व्याप्य तत्र स्थितम खिलजगद्भक्तभोक्तारमग्नि

ज्ञात्वा षट्छक्तिभिस्त्वां परमशिव महामृत्युमत्येति विद्वान् ॥

२३४

उक्तक्षेत्राधिदेवे परतरपुरुषे त्वय्यनन्तस्वरूपे

दिव्याम्नाया गुरूक्ता निजनिजनियतिस्फूर्तयः सर्ववेदाः । साङ्गोपाङ्गाश्व शास्त्राण्यधिगतमहिमान्योऽन्यसिद्धान्तविद्या

भाषा स्वार्थीविभान्ति त्रिणयन भवतो विश्वमूर्तेः परः कः ॥

मूलं व्योमैव वायुज्वलनजलधरा मध्यमं यस्य शाखा

देवाः पर्णानि दैत्या: किसलयनिचया मानुषाश्व प्रतानाः । नागाः पुष्पाणि जीवा बहुविधतनवो पक्वसस्य प्रबोधो

विश्वन्यग्रोधकद्रोः परमशिव भवान् बीजभूतो विभाति ॥१२॥ मायारूपेण कालो जननमरणकृन्सर्वजीवाङ्गवृत्ते -

विद्यारूपेण कालान्तक इति विनुतः स त्वमेवापरो न । देहाहङ्कार एवान्तक इति गुरुणा यः प्रविज्ञाय मायां

जागर्त्यात्मप्रबोधे शिव तव कृपया सोऽत्र मृत्युञ्जयः स्यात् ॥ त्वं नाथस्त्वं गुरुस्त्वं परपदजनिताम्नायविद्यार्थकोश-

स्त्वं शम्भुस्त्वं परेशः परतरमहिमा त्वं परा त्वं पराग्निः । त्वं भानुस्त्वं सुधांशुस्त्वमपि च जननी त्वं पिता त्वं सुमित्र-

स्त्वंभ्राता बान्धवस्त्वं त्वमसि धननिधिस्त्वां विना नास्ति मेऽन्यः शब्दार्थाधारभूतं त्रिभुवनजनकं सर्वतो दिक्सतत्त्वं

त्रैलोक्यस्थायि लिङ्गत्रयविदितपदं सर्वतत्त्वैकवेद्यम् । सर्वानिर्वाच्यसत्तागतपरविभवज्योतिरुज्जृम्भमाणं

व्यक्तीकृत्यात्मवर्णैः प्रकटयसि परं तत्त्वमात्मीयमग्रे ॥१५॥ त्वे विश्व विश्वहेतुविरहितकरणे विश्वकार्येककर्ता

विश्वातीतश्च विश्वेश्वर इति बहुधा निश्चितश्चाक्षरज्ञैः । अद्वैतात्मप्रबोधानलबहुलशिखाचवितात्मीयहव्यः

श्रीशम्भो विश्वसत्ता परतरवियति प्रेषि निर्वाणपूजाम् ॥१६॥

एवं यः स्तौति मूर्ति त्रिभुवनमहतीं विष्वगाश्चर्यचर्या -

मन्तर्बाह्यागमोक्तिप्रविनुतविभवामादिमध्यान्तहीनाम् ।

सौम्योग्राकारदेवासुरनरभुजगानेकजीवप्रभेदो-

त्पत्तिस्थित्यन्तभूमिः स भवति जगदाश्चर्यवानेव शम्भो ॥१७॥

इति महाविभूतिप्रकरणं दशमम् ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

एकादशं प्रकरणम्

२३५

का पूजा पूजकः कः शिवगुरुरिति कः को विधि: कश्च मन्त्रः

किं पीठं किं प्रसूनं किममलसलिलं केऽत्र सर्वोपचाराः । निर्द्वन्द्वस्यात्मनस्ते द्वयमिति रचितं सर्वमेतत्कथं स्या-

त्सन्तोषार्थी महेश त्रिकरणविमलज्ञानपूजाप्रसन्नाः ॥ १ ॥

त्रैकाल्यं सर्वतस्ते सकलजगदिदं व्यश्नुवानात्मसत्ता-

विस्फूर्ते रष्टमूर्तेरखिलजनमनः प्रोच्चसिंहासनस्य । कस्मादावाहनं स्याद्बहिरिह चरितं क्वासनं चन्द्रमौले-

या संसारभावो रचयति नितरामात्मभोगाय भेदम् ॥ २॥

आधारोऽग्निः सुपात्रं रविरमृतकलानायक: पूर्णमद्यं

शक्तीशस्त्वं प्रपूज्यः षडवयवयुतस्तत्र पात्रप्रवर्गे । पाद्यं ते तर्पणं च प्रभवति समुदे वाह्ययागार्घ्यपात्रैः

सन्तुष्टः स्याः कथं त्वं परशिवविमलज्ञानदुग्धाब्धिशायिन् ॥३॥ भास्वच्चन्द्राग्निबिम्बोदित विमल शिवज्ञाननित्य प्रमोद-

ज्ञानानन्दप्रवाह स्त्रिगुणितसरितो मुख्यनाडीत्रयस्थाः । कालिन्दीजहनु कन्यान्तरसरिदभिधास्ते तनुस्नानकृत्ये

सृष्टा हल्लिङ्गमूर्तेः कथमितरजलैः स्यात्तव स्नानमंत्र ॥४॥

लज्जा रागादिमायातिमिरदिनकरीभूतचेतः प्रबोध -

ज्योतिः पुञ्जप्रवृत्तेर्गतभवतमसो दिक्पटालङ्कृतस्य । प्रज्ञायज्ञोपवीतैरुपचितवपुषः प्रेतभस्माङ्गराग -

स्यान्ये मिथ्योपचारास्तव वसनमहासूत्रबन्धानुलेपाः ॥ ५ ॥

सर्वाहि सेन्द्रियाश्वद्रुतगतिशमनं सर्वभूतानुकम्पा -

शान्तिः सत्यं प्रबोधो गुरुकथिततपो निश्चलध्यानदृष्टिः । श्रद्धा भक्तिव नित्यं निजविषयपरित्यागिता निःस्पृहत्वं

संवित्पूज्येति पुष्पाण्यमल शिव भवत्पूजनाय क्रियन्ते ॥ ६ ॥

ब्राह्मचाद्या मातरोऽष्टौ स्वविषयकुसुमैरात्मभावप्रसूनैः

योगिन्यः शक्तयस्ते निजनिजम हिमस्फूर्तिसन्मञ्जरीभिः । त्वद्भावं भावयद्भिस्तव किरण महाभैरवैरात्तसङ्गा-

स्त्वां श्रीचिभैरवेशं परमशिवगुरुं पूजयन्ति स्मरन्त्यः ॥७॥२३६

सद्विद्याङ्गारमध्यार्पितसततमहावासनाभ्यासधूपैः

श्रीमद्वक्त्रारविन्दोदितसकलकुलाम्नाय बोधप्रदीपैः । सर्वाक्षार्थान्न भेदैरुपचितमहादिव्यनैवेद्यपानै-

राराध्यो योगिभिस्त्वं कथमितरकृतैस्तोष्य से श्रीपरेश ॥ ८ ॥

इत्यन्तर्यागोपचारपरामर्शप्रकरणमेकादशम् ।

द्वादशं प्रकरणम्

विद्या नाना विभूषा मृगमदघनसारादिसौरभ्यवस्तु-

प्रोतश्रीचन्दनानि प्रविकच कुसुमान्यद्भुतान्यम्बराणि । नानामोदाश्च धूपाः क्रमुकशकलवद्वी टिकाः पानभेदाः

नानापात्राणि भूम्याः परशिव भवतः पूजनाय क्रियन्ते ॥१॥ सप्तैते मण्डलस्थाश्चरुजलनिधयो दिव्यनैवेद्यराशी-

नाना पक्वान्नभेदान्विविधपिशितवच्छाकनानोपदेशान् । भक्ष्यं भोज्यं च चोष्यं विविधशशि सुधास्वादवद्वस्तु लेह्य

हालादध्याज्यदुग्धान्यपि विदधति ते सूपहाराय शम्भो ॥२॥ मन्त्राकारैः प्रदीपैर्दहनरविकलानाथनक्षत्रमाला-

विद्युन्माणिक्यमुक्ता रजतकनकधात्वादिनानाप्रकाशैः । युष्मन्नीराजनायै विरचितरचनः स्वप्रकाशादिमूर्ति

सर्वानन्दात्मरूपं परमशिवगुरुं भासयत्यौर्वतेजः ।। ३ ।।

मुद्रा नानार्थपोषानतिपथचलितानष्टयोगाँश्च नाटचं

तीर्थाक्रान्ति प्रणामं निजकरणगतिं सर्वसिद्धान्तवाचः । कर्माज्ञानप्रवाहान्व्यजनमपि महाचामराण्यातपत्रं

हस्त्यश्वादीन् रथाँस्ते परेशिवचरणाध्यास्य दास्यं विधत्ते ॥ आकाशः शब्दभेदैः प्रलयजलधरामन्ददम्भोलिजृम्भै-

भेरी निःसाणवाद्यैर्दरनिकररवैर्भूरिघण्टानिनादैः ।

तालैर्नादैर्मृदङ्गैर्मु रजडमरुकैर्गीत सद्वल्लकीभिः

सर्वैर्वाद्यप्रभेदध्वनिभिरिह विभो नाथ पूजां करोति ॥ ५ ॥

शम्भव्यो रश्मिदेव्यः समरसमुदिता मातृकावर्ण रूपा

भास्वन्तो भैरवाष्टावपि सरसकलापानमत्ताः क्रमस्थाः ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

वेदान्तैरागमान्तैरभिदधति वरं शाम्भवं वैभवं ते

सर्वानिर्वाच्यसत्तावियदुदितपदं श्रीविभो विश्वमूर्ते ॥ ६ ॥

योगिन्यः क्षेत्रपालाः सरसमधुमदा वेदशास्त्रार्थतत्त्व-

व्याख्यानध्यानवक्त्राः पितृवनदशदिग्वृक्षगा भैरवाश्च । सौधास्वादप्रमत्ताः प्रकटितविकटाटोपसिंहाट्टहासा:

२३७

स्वस्वव्यापारपुष्पैः परमशिवगुरुं त्वां विभो पूजयन्ति ॥ ७ ॥ भूताः प्रेताः पिशाचाः स्वविकृतिविभवैः प्राप्तवीभत्सवेषा योगिन्यस्ते श्मशानावरणगत महादेवता भासयन्ति । देवास्ते पूर्वदेवा मधुरसमुदिता विस्मयाविष्टचित्ताः

शान्ता ध्यायन्ति गायन्त्यपि परमशिव त्वां मुदोपासते च ॥ ८ ॥ ब्रह्मा वेदोक्तगानैर्हरिरपि कमलैस्ताण्डवैश्चण्डरुद्रा-

स्तौर्यत्रय्या महेन्द्रो निजनिजविषयैरन्यदिक्पालदेवाः । सिद्धाः सर्वे मुनीन्द्रा स्तुतिनतिवचनैः सर्वदुर्गागणेशा

नृत्तैर्वाद्यप्रभेदैविदधति सुमुदं ते महादेव शम्भो ॥ ९ ॥ सन्तप्तः प्रेतसिंहासनविहितमहाभैरवः शाम्भवाग्निः

पञ्चाशद्विस्फुलिङ्गाक्षरविदितपराघोरविद्योग्रतेजाः ।

सत्यान्तर्यज्ञदेवस्त्रिभुवनहविषा तोषितात्मीयरश्मि-

र्वागर्थव्यक्तभावात्सकलमिह तनुं व्यश्नुवानो विभाति ॥ १० ॥ सर्वज्ञानैकभूमिस्त्रिभुवनकरवीराख्यशून्यश्मशान-

ज्ञानाकूपारपूरश्रुतमुख बहुविच्छास्त्रबोधोदवाहान् । प्रज्ञां गाम्भीर्यगर्वाद्ग्रसति रविरिव स्वप्रकाशात्प्रकाशा-

नन्यानिन्द्रडुमुख्यान्निविडत ररुचिर्ध्वान्तपूरांस्तवाग्निः ॥ ११ ॥

श्रीशम्भो विश्वमूर्ते परमशिव गुरो नाथ विश्वेश्वरात्म-

न्नेषाशेषार्थं वद्वाक्प्रसवविरचिता स्रग्धरावृत्तपूजा ।

त्वय्येव ज्ञानवह्नौ हुतवहरसने संहता मुक्तये मे

भूयादागः क्षमस्व प्रवचनपठितः श्रीविभो मे प्रसीद ॥ १२ ॥ इति विशेषोपचारपरामर्शे शान्तिप्रकरणं द्वादशम् ।

२३८

त्रयोदशं प्रकरणम्

इति तव कृपादोग्ध्री पूजा सुभक्तिस्रुतामृता

जननमरणप्रादुर्भावप्रभेदपटीयसी ।

जनयति मुदं ब्रह्मानन्दप्रवाहतरङ्गिणीं

दहति विपदः पुण्यं पापं दुरन्तभवाटवीम् ॥ १॥

परशिव मम जन्म धन्यमेत-

तव महिमस्तुतिमोचितो यतोऽहम् । कुलमिदमखिलं द्विधा विभिन्नं

परमपदं गतमेव ते प्रसादात् ॥ २ ॥

हतो मायामृत्युर्गुरुवचनखड्गेन मनसः

ह्ता

प्रभिन्नं मालिन्यं व्यपहतमहङ्कारतिमिरम् । मे कामाद्याः प्रबलरिपवः स्वात्मविषया:

महेश त्वत्सेवाविदितसुविवेकाग्निमहसा ॥ ३ ॥

जातिर्लज्जा निजकुलमद : सर्वसंशीतिराधि-

देहान्ता सुकृतदुरितद्वन्द्वपाशोऽभिमानः । सर्वे ह्यते मम विनिहतास्त्वन्महावाक्यसूर्य-

ज्योतिःपुञ्जः किमपरमहं देव भद्रं समीहे ॥ ४॥

मद्विद्याभ्यसनमभूदिहैव सार्थं

सान्निध्यात्तव च तदुक्तिगोचरस्य ।

अद्य त्वं त्रिभुवनवाङ्मनस्यलभ्यो

निर्बाधः सकलपथैकगम्यमूर्ते ॥ ५ ॥

श्रुतिस्मृतिमिथः पथे प्रचलितोऽहमेकान्ततः

प्रचो: शिवगुरोस्तव त्रिजगदुन्नताज्ञां गतः । भजामि परपावकं त्रिजगदात्महव्याशिनं

भवन्तमधिदैवतं भववने ज्वलन्तं स्वतः ॥ ६ ॥

ब्रह्मत्वं सुरनायकत्वमखिलं क्षोणीपतित्वं लसद्-

ब्राह्मण्यं सुरयक्षनागपितृता गन्धर्वता सिद्धता । एतत्सर्वमनित्यमेव गणितं नाहं समीहे सुखं

किन्तु त्वत्पदपद्मनिश्चलतरध्यानं समीहे विभो ॥ ७ ॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

सम्प्राप्ता कृतकृत्यता सफलता वाचां तव स्तोत्रता

मृत्योरप्रमितैश्व मृत्युरभवद्वश्यं गतं त्वत्पदम् । संसारानवधिप्रचण्डजलधिस्तीर्णः प्रमोहो हतः

पुण्यं पापमगाद्विनाशमिह मे प्राप्तः प्रबोधो विभो ॥ ८ ॥ इति परशिव शम्भोऽनन्तकान्ते महिम्न-

स्तव विरचितमेतत्स्तोत्रमात्मोक्तिशक्त्या ।

प्रभवतु सुमुदे ते त्वं मम स्वान्तवर्ती

भव भवगतदुःखं छिन्धि चागः क्षमस्व ॥ ९ ॥ यावांस्ते जीवलोकः परशिवचतुराशीतिलक्षैकसंख्य-

स्तत्तत्कर्मप्रभेदोपगतजनिमृती घोरसंसारचक्रे । सृष्टिस्थित्यन्तवृत्ति भजति निरवधित्वत्पदध्यानहीनो

२३६

दृष्ट्वैनं भीतभीतं शरणमुपगतं त्राहि मां देव मृत्यो ॥१०॥ दुर्वासाः सत्यवासाः कनकगिरिरहं कन्दरे मे हृदाख्ये

श्लोकाश्चैते मृगेन्द्राः पदनखदशनाः शाम्भवास्त्रकवीर्याः । मायाध्वान्तेभयूथप्रदलनपटवो ब्रह्मविद्याटवीस्थाः

वक्तृश्रोतॄन्प्रमातृन्निजहृदय गुहाब्रह्मसत्तां नमन्ति ॥ ११ ॥

भूष्यं वैदुष्य मुद्यद्दिनकरकिरणाकारमाकारतेजः

प्रज्ञानं भूरिमानं निजकरकलितं दुर्गमं योगमार्गम् । आयुष्यं ब्रह्मपोष्यं हरगिरिविशदां कीर्तिमभ्येत्य भूमौ

देहान्ते ब्रह्मपारं परशिवचरणाकारमभ्येति विद्वान् ॥ १२ ॥

ये श्रीशाम्भवशासने कृतधियः श्रीशासने कर्मठा:

श्रौतस्मार्त विधिष्व मन्दमतयः सत्यव्रता ब्राह्मणाः ।

विद्वांसः सकलागमेषु च कलाविद्यासु ते शाम्भव-

ब्रह्मप्राप्तिमवाप्नुवन्ति पठनाच्छम्भोर्महिम्नः स्तुतेः ॥ १३ ॥

स्त्रोत्रं चैतत्पठेद्यः शिवगुरुवदनाघोरविद्यात्तदीक्षः

सत्यज्ञानप्रकाशात्प्रबलभवरिपुं पुण्यपापाद्यविद्याम् ।

भित्त्वा मुक्तो विकल्पस्त्रिजगति महितं सौख्यमात्मप्रबोधं

तेजः कीर्ति च लक्ष्मीमभिलषितपदं व्यश्नुते स्त्रोत्रवीरः ॥१४॥

महिम्नः स्तोत्रस्य त्रिभुवनगुरोर्यो जपरतः

पराशक्तस्तत्त्वं परशिवपदं वेत्ति स बुधः ।

२४०

अगाधं गाम्भीर्यं स्तुतिगतमनन्तप्रमितिजं

समस्ताः सिद्धीरप्यनुभवति गच्छेत्परपदम् ।। १५ ।।

श्री क्रोधभट्टारकदिव्यनाम्ना दुर्वाससा सूक्तमहामहिम्नः । स्त्रोत्रं पठेद्यो भुवनाधिपत्यं नित्यं गुरुत्वं शिवतामुपैति ॥१६॥ महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।

अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ।। १७ ।। सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् ।

सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ १८ ॥ श्रीगुरुकरुणालक्ष्यो यः कोप्यात्मविदनुगृहीतिपरः । परशम्भुस्तुतिबोधो जगदाधारो भवेत्सदा धीरम् ॥ १९ ॥ परशम्भोस्स्तव पद्यं रविप्रकरणं पठंस्त्रिकालेऽपि । रविरिव जगत्प्रकाशमतिचातुर्याज्जगद्गुरुर्भवति ॥ २० ॥ तस्मात्स्मृतिमतिबुद्धिप्रज्ञावानात्मविन्महादेवः ।

परशम्भोस्तव हृदयं सत्पात्रेषु प्रकाशयेत् सदयम् ॥ २१ ॥

इति श्रीदुर्वासाकृतपरशम्भुमहिम्नः स्तवे उपसंहारप्रकरणं त्रयोदशम् ।

इति श्रीक्रोधभट्टारकापरनाम्ना महामहिम्ना दुर्वाससा मुनीश्वरेण विरचितः परशम्भुमहिम्नः स्तवः सम्पूर्णः ।

श्रीसुभगोदयस्तुतिः

भवानि त्वां वन्दे भवमहिषि सच्चित्सुखवपुः

पराकारां देवीममृतलहरी मैन्दवकलाम् । महाकालातीतां ‘कलितसरणी कल्पिततनुं

सुधासिन्धोरन्तर्वसति मनिशं वासरमयीम् ॥ १॥

मनस्तत्त्वं जित्वा नयनमथ नासाग्रघटितं

पुनर्व्यावृत्ताक्षः स्वयमपि यदा पश्यति पराम् ।

तदानीमेवास्य स्फुरति बहिरन्तर्भगवती

परानन्दाकारा परशिवपरा काचिदपरा ॥ २ ॥

मनोमार्गं जित्वा मरुत इह नाडीगणजुषो

निरुध्यार्क सेन्दुं दहनमपि सञ्ज्वाल्य शिखया । सुषुम्णां संयोज्य इलथयति च षड्ग्रन्थि शशिनं

तवाज्ञाचक्रस्थं विलयति महायोगिसमयी ॥ ३॥

यदा तौ चन्द्रार्कों निजसदनसंरोधनवशा-

४दशक्तौ पीयूषस्रवणहरणे सा च भुजगी । प्रबुद्धा क्षुत्क्रुद्धा दशति शशिनं बैन्दवगतं

सुधाधारासारैः स्नपयसि तनुं बैन्दवकले ॥ ४ ॥ पृथिव्यापस्तेजः पवनगगने तत्प्रकृतयः

" स्थितास्तन्मात्रास्ता विषयदशकं मानसमिति । " ततो माया विद्या तदनु च महेशः शिव इतः

परं तत्त्वातीतं मिलितवपुरिन्दोः परकला ॥ ५॥ कुमारी यन्मन्द्रं ध्वनति च ततो योषिदपरा

कुलं त्यक्त्वा रौति स्फुटति च ’ महाकालभुजगी । ततः पातिव्रत्यं भजति दहराकाशकमले

सुखासीना योषा भवसि भवसीत्काररसिका ॥ ६ ॥

१. कलितसरणि कल्पिततनुं । २. पुनर्व्यावृत्ताक्षिद्वयमपि । ३. श्लथयति, विलसति । ४. दशक्ता । ५. स्थितास्तन्मात्राप्ता । ६. तया । ७. काचित् । ८. महाकालपतगी, महानीलभुजगी ।

१६ म० मा०

२४२

त्रिकोणं ते कौलाः कुलगृहमिति प्राहुरपरे

चतुष्कोणं प्राहुः समयिन इमे बैन्दवमिति ‘सुधा सिन्धो तस्मिन्सुरमणिगृहे सूर्यशशिनो-

रगम्ये रश्मीनां समयसहिते त्वं विहरसे ॥ ७ ॥

त्रिखण्डं ते चक्रं शुचिरविशशाङ्कात्मकतया

मयूखैः षट्त्रिंशद्दशयुततया खण्डकलितैः । पृथिव्यादी तत्त्वे पृथगुदितवद्भिः परिवृतं

  • भवेन्मूलाधारात्प्रभृति तव षट्चक्रसदनम् ॥ ८ ॥

शतं चाष्टौ वह्नः शतमपि कलाः षोडश रवेः

शतं षट् च त्रिशत्सितमय मयूखाचरणजाः ।

य एते षष्टिश्च त्रिशतमभवंस्त्वच्चरणजा’

महाकौलैस्तस्मान्न हि तव शिवे कालकलना ॥ ९ ॥

त्रिकोणं चाधारं ‘त्रिपुरतनु तेऽष्टारमनघे

‘भवेत्स्वाधिष्ठानं पुनरपि दशारं मणिपुरम् ।

दशारं ते संवित्कमलमथ मन्वश्रकमुमे

विशुद्धं स्यादाज्ञा शिव इति ततो बैन्दवगृहम् ॥ १० ॥

त्रिकोणे ते वृत्तत्रितयमिभकोणे वसुदलं

कलाश्र मिश्रा भवति भुवनाश्रे च भुवनम् ।

चतुश्चक्रं शैवं निवसति “भगे शाक्तिकमुमे

प्रधानैक्यं षोढा भवति च तयोः शक्तिशिवयोः ॥ ११ ॥

कलायां बिन्द्वैक्यं तदनु च तयोर्नादविभवे

तयोर्नादिनैक्यं तदनु च कलायामपि तयोः ।

तयोबिन्दाक्यं त्रितयविभवैक्यं परशिवे

तदेवं षोढैक्यं भवति हि सपर्या समयिनाम् ॥ १२ ॥

१. सुधासिन्धोस्तस्मिन् । २ विहरसि । ३. षट्त्रिंशत्त्रिशतयुतमाखण्ड ०, षट्त्रिंशच्छतयुततया । ४. भवेन्मूलाधारप्रभृति । ५. षट्त्रिंशद्वे षट्त्रंशद्वै सितमयि । ६. ० चरणगा । ७. महाकालस्तस्मात् । ८ त्रिभुवननुते, त्रिभुवन- नुतेष्वार० । ९. तव स्वाधिष्ठानं भगवति । १०. त्रिभुवनम् । ११. दशे शक्तिकमुमे, लगे शाक्तकमुमे । १२. तथैवं ।

रहस्यमयी तान्त्रिक स्मृतियों का संग्रह

कला नादो बिन्दुः क्रमश इह वर्णाश्च चरणं

षडब्जं चाधारप्रभृतिकममीषां च मिलनम् ।

‘तदेवं षोढैक्यं भवति खलु येषां समयिनां

चतुर्थैक्यं तेषां भवति हि सर्पया समयिनाम् ॥ १३ ॥ तडिल्लेखामध्ये स्फुरति मणिपुरे भगवती

चतुर्धैक्यं तेषां भवति च चतुर्बाहुरुदिता । धनुर्वाणानिक्षूद्भव कुसुमजानङ्कुशवरं

तथा पाशं बिभ्रत्युदितरविबिम्बाकृतिरुचिः २ ॥ १४ ॥

भवत्यैक्यं षोढा भवति भगवत्याः समयिनां

मरुत्वत्कोदण्डद्युतिनियुतभासा समरुचिः ।

भवत्पाणिवातो दशविध इतीदं मणिपुरे

भवानि प्रत्यक्षं तव वपुरुपास्ते न हि परम् ॥ १५ ॥

इत्यैक्य निरूपणम् ॥

भवानि श्रीहस्तैर्वहसि फणिपाशं सृणिमथों

धनुः पौण्ड्रं पौष्पं शरमथ जपस्रक्शुकवरौ ।

अथ द्वाभ्यां मुद्रामभयवरदानैकरसिकां

3

२४३

क्वणद्वीणां द्वाभ्यां त्वमुरसि कराभ्यां च बिभूषे ॥ १६ ॥

त्रिकोणैष्टारं त्रिभिरपि दशारं समुदभू-

दशारं भूगेहादपि च भुवनाश्रं समभवत् ।

ततोऽभून्नागारं नृपतिदलमस्मात्त्रिवलयं

“चतुर्द्धाः प्राकारत्रितयमिदमेवाम्ब शरणम् ॥ १७ ॥ चतुःषष्टिस्तन्त्राण्यपि कुलमतं निन्दितमभू-

द्यदेतन्मिश्राख्यं मतमपि भवेन्निन्दितमिह ।

शुभाख्याः पञ्चैताः श्रुतिसरणिसिद्धाः प्रकृतयो

महाविद्यास्तासां भवति ‘परमार्थो भगवती ॥ १८ ॥

स्मरो मारो मारः स्मर इति परो मारमदन-

स्मरानङ्गाश्चेति’’ स्मरमदनमारा स्मर इति ।

१. तथैवं । २. ० कृतिरुचिम् । ३. ०रसिके । ४. उरसि च । ५. चतुर्धा । ६. चरणम् । ७. कुलतं निन्दितमिदं तदेत । ८. परमार्था परमार्थी भगवति । ९. स्मरो । १०. ०६चैते ।

२४४

त्रिखण्ड: खण्डान्ते ‘कलितभुवनेश्यक्षरयुत-

श्चतुःपञ्चवार्णास्ते त्रय इति च पञ्चाक्षरमनुः ॥ १९ ॥

त्रिखण्डे त्वन्मन्त्रे शशिसवितृवयात्मकतया

स्वराश्चन्द्रे लीनाः सवितरि कलाः कादय इह । यकाराद्या वह्नावथ कषयुगं बैन्दवगृहे

निलीनं सादाख्ये शिवयुवति नित्यैन्दवकले ॥ २० ॥

ककाराकाराभ्यां स्वरगणमवष्टभ्य निखिलं

कला प्रत्याहारात्सकलमभवद्वयञ्जनगणः । त्रिखण्डे स्यात्प्रत्याहरणमिदमन्वक्कषयुगं 3

क्षकारवाकारोऽक्षरतनुतया चाक्षरमिति ॥ २१ ॥

विदेहेन्द्रापत्यं श्रुत इह ऋषिर्यस्य च मनो-

र चार्थः सम्यक्श्रुतिशिरसि तैत्तिर्यकऋचि । ऋषि हित्वा चास्या हृदयकमले नैतमृषिमि-

त्यृचाभ्युक्तः पूजाविधिरिह भवत्याः समयिनाम् ।। २२ ।।

त्रिखण्डस्त्वन्मत्रस्तव च सरघायां निविशते

श्रियो देव्याः शेषो यत इह समस्ताः शशिकलाः ।

त्रिखण्डे त्रैख्यड्यं निवसति समन्त्रे च सुभगे

षडब्जारण्यानी त्रितययुतखण्डे निवसति ॥ २३ ॥

त्रयं चैतत्स्वान्ते परमशिवपर्यङ्कनिलये

परे “सादाख्येऽस्मिन्निवसति चतुर्धैक्यकलनात् । स्वरास्ते लीनास्ते भगवति कलाश्रे च सकलाः

ककराद्या वृत्ते तदनु चतुरश्रे च यमुखाः ॥ २४ ॥

हलो बिन्दुर्वर्गाष्टकमिभदलं शाम्भववपु-

चतुश्वकं शक्रस्थितमनुभयं शक्तिशिवयोः । निशाद्या दर्शाद्याः श्रुतिनिगदिताः पञ्जदशधा

भवेयुनित्यास्तास्तव’ जननि मन्त्राक्षरगणा ।। २५ ।।

१. कलितभुवने ते क इति यः । २ ० मनोः । ३. ०मश्वत्कषयुगं । ४.

विदेहो नैर्ऋत्याः सुत इह ऋषिर्यः स च ।

५. सादाख्यास्मिन् । ६. शक्ता-

स्थित०, शक्तौ स्थित ० ७ पञ्चदश ता । ८. ० नित्याप्तास्तव ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

इमास्ताः षोडस्यास्तव च सरघायां शशिकला-

स्वरूपायां लीना निवसति तव श्रीशशिकला । अयं प्रत्याहारः श्रुत इह कलाव्यञ्जनगण:

ककारेणाकारः स्वरगणमशेषं कथयति ॥ २६ ॥ क्षकारः पञ्चाशत्कल इति ‘हलो बैन्दवगृहं

ककारादूर्ध्वं स्याज्जननि तव नामाक्षरमिति ।

भवेत्पूजाकाले मणिखचितभूषाभिरभितः

प्रभाभिर्व्यालीढं भवति मणिपूरं सरसिजम् ॥ २७ ॥

वदन्त्येके वृद्धा मणिरिति जलं तेन निबिडं

परे तु त्वद्रूपं मणिधनुरितीदं समयिनः ।

अनाहत्या नादः प्रभवति सुषुम्णाध्वजनितं -

स्तदा वायोस्तत्र प्रभव इदमाहुः समयिनः ॥ २८॥

तदेतत्ते संवित्कमलमिति संज्ञान्तरमुमे

भवेत्संवित्पूजा भवति कमलेऽस्मिन्समयिनाम् ।

विशुद्धयाख्ये चक्रे वियदुदितमाहुः समयिनः

सदापूर्वी देवः शिव इति हिमानीसमतनुः ॥ २९ ॥

त्वदीयैरुयोतैर्भवति च विशुद्धयाख्यसदनं

भवेत्पूजा देव्या हिमकरकलाभिः समयिनाम् । सहस्रारे चक्रे निवसति कलापञ्चदशकं

तदेतन्नित्याख्यं भ्रमति सितपक्षे समयिनाम् ॥ ३० ॥

अतः शुक्ले पक्षे प्रतिदिनमिह त्वां भगवतीं

निशायां सेवन्ते निशि चरमभागे समयिनः ।

शुचिः स्वाधिष्ठाने रविरुपरि संवित्सरसिजे

शशी चाज्ञाचक्रे हरिहर विधिग्रन्थय इमे ॥ ३१ ॥

कलायः षोडश्याः प्रतिफलितबिम्बेन सहितं

तदीयैः पीयूषैः पुनरधिकमाप्लाविततनुः । सिते पक्षे सर्वास्तिथय इह कृष्णेऽपि च समा

यदा चामावास्या भवति न हि पूजा समयिनाम् ॥ ३२ ॥

२४५

१. हरो । २. क्षकारा० । ३. लीननिबिडं । ४. सादः । ५. प्रतिदिन - महस्त्वां ।२४६

इडायां पिङ्गल्यां चरत इह तौ सूर्यशशिनौ

तमस्याधारे तौ यदि तू ‘मिलितौ सा तिथिरमा । तदाज्ञाचक्रस्थं शिशिरकर बिम्बे रविनिभं

दृढव्यालीढं सद्विगलितसुधासारविसरम् ॥ ३३ ॥

महाव्योमस्थेन्दोरमृतलहरी प्राविततनुः

प्रशुष्यद्वै नाडीप्रकरमनिशं प्लावयति तत् । यदाज्ञायां विद्युन्नियतनियुताभाक्षरमयी

स्थिता विद्युल्लेखा भगवति विधिग्रन्थिमभिनत् ॥ ३४ ॥

ततो गत्वा ज्योत्स्नामयसमयलोकं समयिनां

पराख्या सादाख्या जयति शिवतत्त्वेन मिलिता ।

सहस्रारे पद्म शिशिरमहसां बिम्बमपरं

तदेव श्रीचक्रं सरघमिति तद्वैन्दवमिति ।। ३५ ।।

वदन्त्येके सन्तः परशिवपदे तत्त्वमिलिते

ततस्त्वं ‘विशी भवसि शिवयोर्मेलनवपुः ।

त्रिखण्डेऽस्मिन्स्वान्ते परमपदपर्यङ्कसदने

परे सादाख्येऽस्मिन्निवसति चतुर्धैक्यकलनात् ।। ३६ ।।

“क्षित वह्निर्व वदलजले दिङ्मरुति दिक्-

‘कला मन्वश्रं द्दशि वसुरथ राजकमले । " प्रतिद्वैतग्रन्थिस्तदुपरि चतुर्द्वारसहितं

“मही चक्रं चैकं भवति भगकोणैक्यकलनात् ॥ ३७ ॥

इति मन्त्रचक्रैक्यम् ॥

१२ डब्जारण्ये त्वां समयिन इमे पञ्चकसमां

यदा संविद्रूपां विदधति च षोढैक्य कलिताम् ।

मनो जित्वा १४ चाज्ञासरसिज इह प्रादुरभव-

तडिल्लेखा नित्या भगवति तवाधारसदनाम् ॥ ३८ ॥

१. तुलिती । २. प्रशुष्यद्वेशन्त् । ३. सिता । ४. ससमया । ५ षट्त्रिंशा । ६. चतुर्थैक्य ० । ७. महावह्नि० । ८. क्कलारे । ९. वसुरधो । १० प्रतिद्वचैत- ग्रन्थि० । ११. महाचक्रं । १२. षडब्जारण्यैस्त्वां । १३. ०कलितम् । १४. ० सरसिजमिह ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

भवत्साम्यं केचित्त्रतयमिति ‘कौलप्रभृतयः

परं तत्त्वाख्यं चेत्यपरमिदमाहुः समयिनः । क्रियावस्थारूपं प्रकृतिरभिधापञ्चकसमं

तदेषां साम्यं स्यादवनिषु च यो वेत्ति स मुनिः ॥ इत्यैक्यनिरूपणम् ।

वशिन्याद्या अष्टावकचटतपाद्याः प्रकृतयः

स्ववर्गस्थाः स्वस्वायुधकलित हस्ताः स्वविषयाः ।

‘यथावर्गं वर्णप्रचुरतनवो याभिरभव-

स्तव प्रस्तारास्ते त्रय इति जगुस्ते समयिनः ॥ ४१ ॥

इमा नित्या वर्णास्तव चरणसम्मेलनवशा-

न्महामेरुस्थाः ‘स्युर्मनुमिलन कैलासवपुषः । वशिन्याद्या एता अपि तव सबिन्द्वात्मकतया

मही प्रस्तारोऽयं क्रम इति रहस्यं समयिनाम् ॥। ४१ ।।

इति प्रस्तारत्रयनिरूपणम् ॥

भवेन्मूलाधारं तदुपरितनं चक्रमपि

तद्-

द्वयं तामिस्राख्यं शिखिकिरणसम्मेलनवशात् ।

तदेतत्कौलानां प्रतिदिनमनुष्ठेयमुदितं

भवत्या वामाख्यं मतमपि परित्याज्यमुभयम् ॥ ४२ ॥

अमीषां कौलानां भगवति भवेत्पूजनविधि-

स्तव स्वाधिष्ठाने तदनु च भवेन्मूलसदने ।

अतो बाह्या पूजा भवति भगरूपेण च ततो

निषिद्धाचारोऽयं निगमविरहोऽनिन्द्यचरिते ॥ ४३ ॥

नवव्यूहं कौलप्रभृतिकमतं तेन स विभु-

‘नवात्मा देवोऽयं जगदुदयकृद्भ ववपुः’ ।

नवात्मा वामादिप्रभृतिभिरदं भैरववपु-

महादेवी ताभ्यां जनकजननीमज्जगदिदम् ॥ ४४ ॥

१. कौम्भप्र० । २. चेत्स पर इद०, परमिद० । ४. यदा वर्गा वर्णप्रचुरतरवो । ५. ० स्थास्यन्मनु० 1 ७. प्रभृतिकमिदं । ८. कृच्छशववपुः । ९. बैन्दववपुः ।

२४७

३. त्वामवनिषु ।

६. च सहबि० ।

२४८

भवेदेतच्चक्र द्वितयमतिदूरं समयिनां

विसृज्यैतद्युग्मं तदनु मणिपूराख्य सदने । त्वया ‘सृष्टैर्वारिप्रतिफलितसूर्येन्दुकिरण-

द्विधा लोके पूजां विदधति भवत्याः समयिनः ॥ ४५ ॥

अधिष्ठानाधारद्वितयमिदमेवं दशदलं

सहस्त्राराज्जातं मणिपुर मतोऽभूद्दशदलम् । हृदम्भो जान्मूलान्नृपदलमभूत्स्वान्तकमलं

तदेवैको बिन्दुर्भवति जगदुत्पत्तिकृदयम् ॥ ४६ ॥

सहस्रारं विन्दुर्भवति च ततो वैन्दवगृहं

तदेतस्माज्जातं जगदिदमशेषं सकरणम् ।

ततो मूलाधाराद्वितयमभवत्तद्दशदलं

सहस्राराज्जातं तदिति दशधा विन्दुरभवत् ॥ ४७ ॥

तदेतद्विन्दोर्यद्दश कमभवत्तत्प्रकृतिकं

दशारं सूर्यारं नृपदलमभूत्स्वान्तकमलम् ’ ।

रहस्यं कौलानां द्वितयमभवन्मूलसदनं

" तथाधिष्ठानं च प्रकृतिमिह ‘सेवन्त इह ते ॥ ४८ ॥

अतस्ते कौलास्ते भगवति दृढप्राकृतजना

इति प्राहुः प्राज्ञाः कुलसमय मार्गद्वयविदः ।

महान्तः सेवन्ते सकलजननीं वैन्दवगृहे

शिवाकारां नित्याममृतझरिका मैन्दवकलाम् ॥ ४९ ॥

इदं ‘कालोत्पत्तिस्थितिलयकरं पद्मनिकरं

त्रिखण्डं श्रीचक्रं मनुरपि च तेषां च मिलनम् ।

तदैक्यं षोढा वा भवति च चतुर्धेति च तथा

तयोः साम्यं पञ्चप्रकृतिकमिदं शास्त्रमुदितम् ॥ ५० ॥

उपास्तेरेतस्याः फलमपि च सर्वाधिकमभू-

तदेतत्कौलानां फलमिह हि चैतत्समयिनाम् ।

१. सृष्टे वारि० । २. विभालोके । ३० मे दद्दश० । ४. मणि पुरमितो० । ५. नकरणम् । ६. ० नेत्रकमलम् । ७. तदा । ८. ०मथ सेवन्त्विह च ते । ९. कौलोत्पत्ति० । १०. तु ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

सहस्रारे पद्म सुभगसुभगोदेति’ सुभगे

परं सौभाग्यं यत्तदिह तव सायुज्यपदवी ॥ ५१ ॥ अतोऽस्याः संसिद्धौ सुभगसुभगाख्या गुरुकृपा-

कटाक्षव्यासङ्गात्स्रवदमृत निष्यन्दसुलभा ।

तया विद्धो योगी विचरति निशायामपि दिवा

दिवा भानू रात्रौ विधुरिव कृतार्थीकृतमतिः ॥ ५२ ॥ इति श्रीगौडपादाचार्यविरचिता सुभगोदयस्तुतिः

सम्पूर्णां ै ।

२४६

१. ० क्तेति सुभगं ।

३. कृतार्थीकृत इति ।

२. अतस्ते संसिद्धा । ३. दिवा वा रात्रौ वा

५ सौन्दर्यलहरी की लक्ष्मीधरा टीका से ज्ञात होता है कि अनुष्टप् छन्दों वाला भी कोई ‘सुभगोदय’ नामक ग्रन्थ था जिस पर भगवत्पाद श्रीशङ्कराचार्य एवं लक्ष्मीधर ने टीका लिखी थी । यथा—

तदुक्तं सुभगोदये- ‘परोऽपि शक्तिरहितः शक्तः कर्तुं न किञ्चन । शक्तः स्यात्परमेशानि शक्त्या युक्तो भवेद्यदि । ( श्लोक ११ की टीका )

‘एतत्सर्वं सुभगोदय व्याख्यानावसरे चन्द्रकलायां सम्यङ्निरूपितमस्माभिः ।’ ( श्लोक १७ टी० )

‘यथोक्तं भगवत्पादैः सुभगोदयव्याख्याने - शिखिज्वालारूपा समय इह सैवात्र समया तयोः सम्भेदो मे दिशतु हृदयाब्जैकनिलयः । ( श्लोक ३८ )

लल्ल की भी सुभगोदय पर टीका थी-

‘अनेनैवाशयेन सुभगोदयटीकायां लल्लेनोक्तम् -’ ( सोभाग्यभास्कर पृ०७७) वासनासुभगोदय का भी उल्लेख मिलता है—

‘तदुक्तं वासना सुभगोदये दर्शाद्याः पूर्णिमान्ताद्याः कलाः पञ्चदशैव तु । षोडशी तु कला ज्ञेया सच्चिदानन्दरूपिणी ।’ ( वही पृ० )

महाकविकालिदासविरचिता

पञ्चस्तवी

( १ ) लघुस्तुति:

ऐन्द्रस्येव शरासनस्य दधती मध्ये ललाटं प्रभां

शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः । एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशोस्सदाहस्थिता

छिन्द्यान्नस्सहसा पदैस्त्रिभिरधं ज्योतिर्मयी वाङ्मयी ॥ १ ॥

या मात्रा त्रपुकीलिता तनुलसत्तन्तुस्थितिस्पर्धिनी

वाग्बीजे प्रथमे स्थिता हृदि सदा तां मन्महे ते वयं । शक्तिः कुण्डलिनीति विश्वजननी व्यापारबद्धोद्यमा

ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः ॥ २ ॥

दृष्ट्वा सम्भ्रमकारिवस्तु सहसा ऐ ऐ इति व्याहृतं

येनाकूतवशादपीह वरदे बिन्दुं विनाऽप्यक्षरम् । तस्यापि ध्रुवमेव देवि तरसा का ते तवानुग्रहे

वाचस्सुक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजात् ॥ ३ ॥

यन्नित्ये तव कामराजपरं मन्त्राक्षरं निष्कलं

तत्सारस्वतमित्यवैति विरल: कश्चिद्बुधश्चेद्भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः

प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥ ४ ॥

यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधै-

स्तातयं तदहं नमामि मनसा त्वद्बीजमिन्दुप्रभम् । अस्त्यारोपिसरस्वतीमनुगतो जाडयाम्बुविच्छित्तये

गोशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ॥

एकैकं तव देवि बीजमनघं स व्यञ्जना व्यञ्जनं

कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं

जप्तं वा सफलीकरोति तरसा तं तं समस्तं नृणाम् ॥ ६ ॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे

भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् । उज्जृम्भाम्बुजपत्रकान्तिनिवहस्निग्धप्रभालोकिनीं

२५१

ये त्वामम्ब न शीलयन्ति मससा तेषां कवित्वं कुतः ॥ ७ ॥ ये त्वां पाण्डरपुण्डरीकपटलस्रग्भाभिरामप्रभां

सिञ्चन्तीममृतद्रवैरिव शिवे ध्यायन्ति मूर्ध्नि स्थिताम् । अश्रान्तं विकटस्फुटाक्षरपदं निर्याति वक्त्रोदरा-

त्तेषां भारति भारती सुरसरित्कल्लोललोलोमिवत् ॥ ८ ॥ ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा-

मुर्वी चापि विलीनयावकरसप्रस्तारमग्नामिव । ध्यायन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर-

क्लान्तास्त्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ॥ ९ ॥

चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीस्रजं

ये त्वां चेतसि तद्गतेक्षणमपि ध्यायन्ति कृत्वा स्त्रियम् । तेषां वेश्मसु विभ्रमादह रहस्स्फारीभवन्त्यश्चिरं

माद्यत्कुञ्जरकर्णतालतरला स्थैर्यं भजन्ति श्रियः ॥ १० ॥

आर्भटया शशिखण्डमण्डनजटाजूटां नृमुण्डस्रजं

बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यसिनीम् । त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं

मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥ ११॥ जातोऽत्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले

निश्शेषावनिचक्रवतिपदवीं लब्ध्वा प्रतापोन्नतः । यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभव-

देवि त्वच्चरणाम्बुज प्रणतिजस्सोऽयं प्रसादोदयः ।। १२ ।। चण्डि त्वच्चरणाम्बुजार्चनविधौ बिल्वीदलोल्लुण्ठना-

त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः ।

ते दण्डा कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितै-

जयन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥ १३ ॥

विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः-

स्त्वां देवि त्रिपुरे परापरमयीं सन्तर्प्य पूजाविधौ ।

२५२

यां यां प्रार्थयते मनस्स्थिरतया तेषां त एते ध्रुवं

तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृताः ॥ १४ ॥

शब्दानां जननि त्वमत्र भुवने वाग्वादिनीत्युच्यसे

त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् । लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी

सा त्वं काचिदचिन्त्यरूपगरिमा शक्तिः परा गीयसे ॥१५॥

देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा-

स्त्रैलोक्यं त्रिपुटी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः । यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गात्मकं

तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ १६ ॥

लक्ष्मी राजकुले जयां रणमुखे क्षेमङ्करीमध्वनि

क्रव्यादद्विपसर्पभाजि शवरीं कान्तारदुर्गे गिरौ । भूतप्रेतपिशाचजृम्भकभये स्मृत्वा महाभैरवीं

व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयप्लवे ॥ १७ ॥

माया कुण्डलिनी क्रिया मधुमयी काली कलामालिनी

मातङ्गी विजया जया भगवती गौरी शिवा शाम्भवी । शक्तिश्शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी

ह्रींकारी त्रिपुरे परापरमयी माता कुमारीत्यसि ॥ १८ ॥

आईपल्लवितैः परस्परयुतै द्विविक्रमाद्यक्षरैः

काद्यैः क्षान्तगतैस्स्वरादिभिरथ क्षान्तैश्च तैस्सस्वरैः । नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते

तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥ १९ ॥

बोद्धव्या निपुणं पदैः स्तुतिरियं कृत्वा मनस्तद्गतं

भारत्या त्रिपुरेत्यनन्यमनसो यत्राद्यपद्यैः स्फुटम् । एकद्वित्रिपदक्रमेण कथितस्त्वत्पादसंख्याक्षरे-

1

मन्त्रोद्धारनिधिर्विशेषसहितस्सत्सम्प्रदायान्वितः ॥ २० ॥

सावद्यं निरवद्यमस्तु यदि वा किंवाऽनया चिन्तया

नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्चायमानं हठात् -

२५३

त्वद्भक्त्या मुखरीकृतेन सुचिरं यस्मान्मयाऽपि ध्रुवम् ॥२१॥

इति श्रीदेवीलघुस्तुतिस्सम्पूर्णा ॥

( २ ) घटस्तवः

आनन्दमन्थरपुरन्दरमुक्तमाल्यं

मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्जु-

मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ १ ॥

देवि त्र्यम्बकपत्नि पार्वती सति त्रैलोक्यमात विशे

शर्वाणि त्रिपुरे मृडानि वरदे रुद्राणि कात्यायनि । भीमे भैरवि चण्डि शर्वरि कले कालक्षये शूलिनि

त्वत्पादप्रणताननन्यमनसः पर्याकुलान्पाहि नः ॥ २ ॥ देवि त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम-

न्त्याजन्मस्फुरदङ्घ्रिपीठविलुठत्कोटी रकोटिच्छटाः । यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते

यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायन्ति वामभ्रुवः ॥३॥

उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्च्छा इव

प्राप्तप्रौढमदा इवार्तिविरहग्रस्ता इवार्ता इव ।

ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एवाग्रत-

स्त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति तान्सुभ्रुवः ॥ ४ ॥

ध्यायन्ति ये क्षणमपि त्रिपुरे हृदि त्वां

लावण्ययौवनधनैरपि विप्रयुक्ताः ।

ते विस्फुरन्ति ललितायतलोचनानां

चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ ५ ॥

एतं किं नु दृशा पिबाम्त विशाम्यस्याङ्गमङ्गैनिजैः

किं वामुं निगराम्यनेन सहसा किं वैकतामाश्रये । तस्येत्थं विवशो विकल्पललिताकूतेन योषिज्जनः

किं तद्यन्न करोति देवि हृदये यस्य त्वमावर्तसे ॥ ६ ॥

२५४

विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः

शब्दः शक्तिरिति त्रिलोकजननि त्वय्येव तथ्यस्थितिः । इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं

त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि चित्रं महत् ॥ ७ ॥ इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणीं

पाण्डूत्फुल्लसरोरुहासनगतां स्निग्धप्रदीपच्छविम् । वर्षन्तीममृतं भवानि भवतीं ध्यायन्ति ये देहिन-

स्ते निर्मुक्तरुजो भवन्ति विपदः प्रोज्झन्ति तान्दूरतः ॥ ८ ॥

पूर्णेन्दोः शकलैरिवातिबलैः पीयूषपूरैरिव

क्षीराब्धे ही भरैरिव सुधापङ्कस्य पिण्डैरिव । प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया

चित्तान्तर्निहितार्तितापविपदस्ते सम्पदं विभ्रति ॥ ९ ॥

ये संस्मरन्ति तरलां सहसोल्लसन्तीं

त्वां ग्रन्थिपञ्चकमिदं तरुणार्कशोणाम् ।

रागार्णवे वहलरागिणि मज्जयन्तीं

कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ १०॥

लाक्षारसस्नपितपङ्कजतन्तुतन्वी-

मन्तस्मरत्यनुदिनं भवतीं भवानि ।

यस्तं स्मरप्रतिममप्रतिमस्वरूपा

नेत्रोत्पलैर्मृगदृशो भृशमर्चयन्ति ॥ ११ ॥ स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् । कदम्बमालां

बिभ्राणमापादतललम्बिनीम् ॥ १२ ॥

मूर्नीन्दोः सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं

वर्षन्तीममृतं सरोरुहभुवो वक्त्रेऽपि रन्धेऽपि च । अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च

त्वामेवं स्मरतः स्मरारिदयिते वाक्सर्वतो वल्गति ॥ १३ ॥

ददातीष्टान्भोगान्क्षपयति रिपून्हन्ति विपदो

दहत्याधीन्व्याधीशमयति सुखानि प्रतनुते ।

हठादन्तर्दुःखं दलयति पिनष्टीष्टविरहं

सकृदध्याता देवी किमिव निरवद्यं न कुरुते ॥ १४ ॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तय-

त्यन्वेति प्रतिपद्यते कलयति स्तोत्याश्रयत्यर्चति । यस्तु त्र्यम्बकवल्लभे तव गुणानाकर्णयत्यादरात्

तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ।। १५ ।।

किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां

का का कीर्तिः कुलकमिलिनि ख्याप्यते न स्तुतायाम् । का का सिद्धिः सुरवरनुते प्राप्यते नाचितायां

९५५

कंकं योगं त्वयि न चिनुते चित्तमालम्बितायाम् ।। १६ ।।

ये देवि दुर्धरकृतान्तमुखान्तरस्था

ये कालि कालघनपाश नितान्तबद्धाः ।

ये चण्डि चण्डगुरुकल्मषसिन्धुमग्ना-

स्तान्पासि मोचयसि तारयसि स्मृतैव ॥ १७ ॥

लक्ष्मी वशीकरणचूर्ण सहोदराणि

त्वत्पादपङ्कजरजांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे

लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ १८ ॥

रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते

यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यता-

मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १९ ॥

याचे न कञ्चन न कञ्चन वञ्चयामि

सेवे न कञ्चन निरस्तसमस्तदैन्यः ।

लक्ष्णं वसे मधुरमद्रि भजे वरस्त्री-

देवी हृदि स्फुरति मे कुलकामधेनुः ॥ २० ॥

नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।

भवानीं

भवसन्तापनिर्वाणसुधानदीम् ॥ २१ ॥

इति श्रीपञ्चस्तव्यां घटस्तवस्तृतीयः ।२५६

( ३ ) चर्चास्तुतिः

सौन्दर्यविभ्रमभुवो भुवनाधिपत्यं

सम्पत्तिकल्पतरवस्त्रिपुरे जयन्ति ।

एते कवित्वकुमुदप्रकरावबोध-

पूर्णेन्दवस्त्वयि जगज्जननि प्रणामाः ॥ १ ॥

देविस्तुतिव्यतिकरे कृतबुद्धयस्ते

वाचस्पतिप्रभृतयोऽपि जडीभवन्ति । तस्मान्निसर्गजडिमा कतमोऽहमत्र

स्तोत्रं तव त्रिपुरतापन पनि कर्तुम् ॥ २ ॥

मातस्तथापि भवती भवतीब्रताप-

विच्छित्तये स्तुतिमहार्णवकर्णधारः ।

स्तोतुं भवानि स भवच्चरणारविन्द-

भक्तिग्रहः किमपि मां मुखरीकरोति ॥ ३ ॥

सूते जगन्ति भवती भवतीं बिर्भात

जागर्ति तत्क्षयकृते भवती भवानि ।

मोहं भिनत्ति भवती भवती रुणद्धि

लीलायितं जगति चक्रमिदं भवत्याः ॥ ४ ॥

यस्मिन्मनागपि नवाम्बुजपत्रगौरीं

गौरीप्रसादमधुरां भृशमादधासि ।

तस्मिन्निरन्तरमनङ्गशरप्रकीर्ण

सीमन्तिनीनयनसन्ततयः पतन्ति ॥ ५ ॥

पृथ्वीभुजोऽप्युदयनप्रवरस्य तस्य

विद्याधरप्रणतिचुम्बितपादपीठः ।

यच्चक्रवर्तिपदवीं प्रणयः स एष

त्वत्पादपङ्कजरजःकणजः प्रसादः ॥ ६ ॥

कल्पद्रुमप्रसवकल्पितचित्रपूजा-

मुद्दीपितप्रियतमा मदरक्तगीतैः ।

नित्यं भवानि भवतीमुपवीणयन्ति

विद्याधराः कनकशैलगुहागृहेषु ॥ ७ ॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

लक्ष्मीवशीकरणकर्मणि कामिनीना-

माकर्षणव्यतिकरेषु च सिद्धमन्त्रः ।

नीरन्ध्र मोहतिमिरच्छिदुर प्रदीपो

देवि त्वदङ्घिजनितो जयति प्रसादः ॥ ८ ॥ देवि त्वदङ्घ्रिनखरत्नभुवो मयूखाः

प्रत्युप्तमौक्तिरुचो मुदमुद्वहन्ति । सेवानतिव्यतिकरे सुरसुन्दरीणां

सीमन्तसीम्नि कुसुमस्तबकायितं यैः ।। ९ ।।

मूर्ध्नि स्फुरत्तु हिनदीधितिकान्तिमित्र

मध्ये ललाटममरायुधरश्मिचित्रम् ।

हृच्चक्रचुम्बिहुतभुक्कणिकानुरूपं

ज्योतिर्यदेतदिदमम्ब तव स्वरूपम् ॥ १० ॥

रूपं तव स्फुरितचन्द्रमरीचिगौर-

मालोक्यते शिरसि वागाधिदैवतं यैः ।

निस्सीम सूक्तिरचनामृतनिर्झरिण्य-

स्तेषां प्रकाममधुराः प्रसरन्ति वाचः ।। ११ ।।

सिन्दूरपांसुपटलच्छुरितामिव द्यां

त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ।

यः पश्यति क्षणमपि त्रिपुरे विहाय

व्रीडां मृडानि सुदृशस्तमनुव्रजन्ति ॥ १२ ॥

मातर्मुहूर्तमपि यः स्मरति स्वरूपं

लाक्षारसस्नपिततन्तुनिभं भवत्याः ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः

प्रद्युम्नसीम्नि सुभगत्वगुणास्तरुण्यः ।। १३ ।।

योऽयं चकास्ति गगनार्णवरत्नमिन्दु-

र्योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्वाममर्धमिदमन्धकसूदनस्य

देवि त्वमेव तदिति प्रतिपादयन्ति ॥ ४॥

इच्छानुरूपमनुरूपगुणप्रकर्षं

सङ्कर्षणत्वमभिसृत्य यदा बिभषि ।

१७ म० भा०

२५७

1

२५८

जायेत स त्रिभुवनैकगुरुस्तदानीं

देवश्शिवोऽपि भुवनत्रयसूत्रधारः ।। १५ ।।

त्वां व्यापिनीति सुमना इति कुण्डलीति

त्वां कामिनीति कमलेति कलावतीति । त्वां मालिनीति ललितेत्यपराजितेति

देवि स्तुवन्ति विजयेति जयेत्युमेति ॥ १६ ॥ आधारमारुतनिरोधवशेन येषां

सिन्दूररञ्जितसरोजगुणानुकारि ।

तीव्रं हृदि स्फुरति देवि महस्त्वदीयं

ध्यायन्ति तानिह समीहितसिद्धसाध्याः ॥ १७ ॥

ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति-

रूपं तवाम्ब नवयावकपङ्करम्यम् ।

तेषां तथैव कुसुमायुधबाणभिन्न-

वक्षःस्थलामृगदृशो वशगा भवन्ति ॥ १८ ॥

त्वामैन्दवीमिव कलामनुफालदेश-

मुद्भासिताम्बरतलामवलोकयन्ति ।

सद्यो भवानि सुधियः कवयो भवन्ति

त्वं भावनाधिकधियां किल कामधेनुः ॥ १९ ॥

उत्तप्तहेमरुचिरे त्रिपुरे पुनीहि

चेतश्चिरन्तनमघौघवनं लुनीहि ।

कारागृहे निगडबन्धनयन्त्रितस्य

त्वत्संस्मृतो झटिति तन्निगडा गलन्ति ॥ २० ॥

लक्ष्मीवशीकरणचूर्ण सहोदराणि

त्वत्पादपङ्कजरजांसि शिवे जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे

शंसन्ति धातृलिखितानि दुरक्षराणि ॥ २१ ॥ यः स्तोत्रमेतदनुवासरमम्बिकायाः

श्रेयस्करं पठति वा यदि वा शृणोति । तस्येप्सितं फलति राजभिरीड्यतेऽसौ

जायेत स प्रियतमो मदिरेक्षणानाम् ॥ २२ ॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

खङ्ग ं पादुकमञ्जनं च घुटिकां सारस्वतं सम्पदं

मृत्योर्वश्ञ्चनमुग्रकालहरणं देहस्थिते कारणम् । भ्रूभङ्गादगतुङ्गवृक्षपतनं वश्यं जगद्योषितां

२५६

चर्चा जाप्यमिदं करोति सततं त्वत्पूजकस्येप्सितम् ॥ २३ ॥ इति श्रीकालिदासविरचिता चर्चास्तुतिः सम्पूर्णा ॥

( ४ ) अम्बास्तुतिः

यामामनन्ति मुनयः प्रकृति पुराणीं

विद्येतियां श्रुतिरहस्य गिरो गृणन्ति । तामर्धपल्लवितशङ्कररूपमुद्रां

देवीमनन्यशरण शरणं प्रपद्ये ॥ १ ॥

अम्ब स्तवेषु तव तावदकृत्रिमाणि

कुण्ठीभवन्ति वचसामपि गुम्फनानि । डिम्भस्य मे स्तुतिरसावसमञ्जसापि

वात्सल्यनिघ्नहृदयां भवतीं धनोतु ॥ २ ॥

व्योमेति बिन्दुरिति नाद इतीन्दुरेखा-

रूपेति वाग्भवतनूरिति मातृकेति । निष्यन्दमानसुखबोधसुधास्वरूपा

विद्योतसे मनसि भाग्यवतां जनानाम् ॥ ३ ॥

आविर्भवत्पुलकसंहतिभिश्शरीरै-

निष्यन्दमानसलिलैर्नयनैश्च नित्यम् ।

वाग्भिश्च गद्गदपदाभिरुपासते ये

पादौ तवाम्ब भुवनेषु त एव धन्याः ॥ ४ ॥

वक्त्रं यदुद्यतमभिष्टुतये भवत्या

स्तुभ्यं नमो यदपि देवि शिरः करोति ।

चेतश्च यत्त्वयि परायणमेव तानि

कस्यापि तैरपि भवन्ति तपोविशेषैः ॥ ५ ॥

मूलालवालकुहरादुदिता भवानि

निर्भिद्य षट्सरसिजानि तडिल्लतेव

२६०

भूयोऽपि तत्र विशति ध्रुवमञ्चितेन्दु-

निष्यन्दमानपरमामृतवृष्टिरूपा ॥ ६ ॥

दग्धं पुरा मदनमेकमनेकधा ते

मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार । धत्ते तदा प्रभृति देवि ललाटनेत्र

सत्यं ह्रियैव मुकुलीकृतमिन्दुमौलिः ॥ ७ ॥

अज्ञातसम्भवमनाकलितान्ववायं

भिक्षु कपालिनमवाससमद्वितीयम् । पूर्वं करग्रहणमङ्गलतो भवत्या

शम्भुं क एव बुबुधे गिरिराजकन्ये ॥ ८ ॥

चर्माम्बरं च शवभस्मविलेपनं च

भिक्षाटनं च वसतिश्च परेतभूमौ ।

बेतालसंहतिपरिग्रहता च शम्भोः

शोभां वहन्ति गिरिजे तव साहचर्यात् ॥ ९ ॥

कल्पोपसंहरण केलिषु पण्डितानि

चण्डानि खण्डपरशोरपि ताण्डवानि ।

अलोकितेन तव कोमलितानि मात-

लस्यात्मना परिणमन्ति जगद्विभूत्यै ॥ १० ॥

जन्तोरपश्चिमतनोस्सति कर्मसाम्ये

निश्शेषपाशपटललच्छिदुरा निमेषात् ।

कल्याणि देशिककटाक्षसमाश्रयेण

कारुण्यतो भवति शाम्भववेधदीक्षा ॥ ११॥

मुक्ताविभूषणवती नवविद्रुमाभा

यच्चेतसि स्फुरसि तारकितेव सन्ध्या ।

एकस्स एव भुवनत्रय सुन्दरीणां

कन्दर्पतां व्रजति पञ्चशरीं विनापि ॥ १२ ॥

ये भावयन्त्यमृतवाहिभिरंशुजालै

राप्लाव्यमानभुवनाममृतेश्वरीं त्वाम् ।

ते लङ्घयन्ति ननु मातरलङ्घनीयां

ब्रह्मादिभिस्सुरवरैरपि कालकक्षाम् ॥ १३ ॥

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां

व्याख्यानमुद्रित करां शरदिन्दुशुभ्राम् ।

पद्मासनां च हृदये भवतीमुपास्ते

मातस्स विश्वकवितार्किकचक्रवर्ती ॥ १४ ॥

बर्हावतंसयुतबर्ब रकेशपाशां

गुञ्जावली कृतघनस्तनहारशोभाम् । श्यामां प्रवालवसनां शरचापहस्तां

त्वामेव नौमि शबरीं शबरस्य नाथाम् ।। १५ ।।

अर्धेन किं तव तथा कलितेन मुग्धे

क्रीतं विभोः पुरुषमर्धमिदं शरीरम् ।

आलीजनस्य परिहासवचांसि मन्ये

मन्दस्मितेन तव देवि जडीभवन्ति ॥ १६ ॥

ब्रह्माण्डबुद्बुदकदम्बकसङ्कुलोऽयं

मायोदधिविविधतत्त्वतरङ्गमालः ।

आश्चर्यमम्ब झटिति प्रलयं प्रयाति

त्वद्ध्यानसन्ततिमहा बडवामुखाग्नौ ॥ १७ ॥

दाक्षायणीति कुटिलेति कुहारिणीति

कात्यायनीति कमलेति सरस्वतीति ।

एका सती भगवती परमार्थतोऽपि

संदृश्य से बहुविधा ननु नर्तकी ॥ १८ ॥

आनन्दलक्षणमनाहतनाम्नि देशे

नादात्मना परिणतं तव रूपमीशे

प्रत्यङ्मुखेन मनसा परिचीयमानं

शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ १९ ॥

त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं

त्वं चेतनाऽसि पुरुषे पवने बलं त्वम् । त्वं स्वादुताऽसि सलिले शिखिनि त्वमूष्मा

निस्सारमेतदखिलं त्वदृते यदि स्यात् ॥ २० ॥

ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं

सूते पयांसि यदहिर्धरणीं च धत्ते ।

२६१

२६२

यद्वाति वायुरनलो यदुर्दाच रास्ते

तत्सर्वमम्ब तव केवलमाज्ञयैव ॥ २१ ॥

सङ्कोचमिच्छसि यदा गिरिजे तदानी

वाक्तर्कयोस्त्वमसि भूमिरनामरूपा ।

यद्वा विकासमुपयासि यदा तदानीं

त्वन्नामरूपगणनास्सुकरा भवन्ति ॥ २२ ॥

भोगाय देवि भवतीं कृतिनः प्रणम्य

भ्रू किंकरीकृत सरोज गुहास्सहस्रम् । चिन्तामणौ प्रलयकल्पित के लिशैले

कल्पद्रुमोपवन एव चिरं चरन्ति ॥ २३ ॥

हत्र त्वमेव भवसि त्वदधीनमीशे

संसारतापमखिलं दयया पशूनाम् ।

वैकर्तनी किरणसन्ततिरेव नूनं

घर्मं निजं शमयितुं निजया हि दृष्ट्या ॥ २४॥

शक्तिश्शरीरमधिदैवतमन्तरात्मा

ज्ञानं क्रिया करणमासनजालमिच्छा । ऐश्वर्यमायतनमावरणानि च त्वं

किं तन्न यद्भवसि देवि शशाङ्कमौलेः ।। २५ ॥

भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा

विद्यानले मरुति शान्तिरतीतशान्तिः । व्योम्नीति याः किल कला : कलयन्ति विश्वं

तासां हि दूरतरमम्ब पदं त्वदीयम् ॥ २६ ॥

विद्यां परां कति चिदम्बरमम्ब केचि -

दानन्दमेव कतिचित्कतिचिच्च मायाम् ।

त्वां विश्वमाहुरपरे वयमामनाम

स्साक्षादपारकरुणां गुरुमूर्तिमेव ॥ २७ ॥

यावत्पदं पदस रोजयुगं त्वदीयं

नाङ्गीकरोति हृदयेषु जगच्छरण्ये ।

तावत् विकल्पजटिलाः कुटिलप्रतर्का

स्सर्वे ग्रहास्समयिनां प्रलयं न यान्ति ॥ २८ ॥

रहस्यमयो तान्त्रिक स्तुतियों का संग्रह

निर्देवयान पितृयानविहारमेति

कृत्वा मनः करणमण्डलसार्वभौमम् ।

याने निवेश्य तव कारणपञ्चकस्य

पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥ २९ ॥

स्थूलासु मूर्तिषु महीप्रमुखासु मूर्तेः

कस्याश्वनापि तव वैभवमम्ब यस्याः ।

पत्या गिरामपि न शक्यत एव वक्तुं

सापि स्तुता किल मयेति तितीक्षितव्यम् ॥ ३० ॥

कालाग्निकोटिरुचिपुञ्जषडध्वशुद्धा

वाप्लावनेषु भवतीममृतौघवृष्टिम् ।

श्यामां घनस्तनतटां शकलीकृताघां

ध्यायन्ति ये हि जगतां गुरवो भवन्ति ॥ ३१ ॥

कुवलयदलनीलं बर्बरस्निग्धकेशं

पृथुतरकुचभारक्रान्तकान्तावलग्नम् ।

बहुभिरिह किमुक्तैस्निग्धरूपं परं न-

स्सकलभुवनमातस्सन्ततं सन्निधत्ताम् ।। ३२ ।।

इति श्रीकालिदासकृतौ अम्बास्तुतिः सम्पूर्णा ॥

( ५ ) सकलजननीस्तवः

अजानन्तो यान्ति क्षयमवशमन्योऽन्य कल है-

रमी मायाग्रन्थ तव परिलुठन्तस्समयिनः । जगन्मातर्जन्मज्वरभयतमः कौमुदि वयं

नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ १॥

वचस्तर्कागम्यस्वरसपरमानन्दविभव-

प्रबोधाकाराय द्युतिदलितनीलोत्पलरुचे । शिवाद्याराध्याय स्तनभरविनम्राय महते

नमो यस्मै कस्मैचन भवतु मुग्धाय महसे ॥ २॥

२६३

२६४

लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिका-

मुदञ्चद्धर्माम्भःकणगुणितवक्त्राम्बुजरुचिम् ।

शिवं पार्थत्राणप्रवणमृगयाकारकरुणं

शिवामन्वग्यान्तीं शरणमहमन्वेमि शबरीम् ॥ ३ ॥

मिथः केशाकेश प्रधननिधनास्तर्कघटना

बहुश्रद्धाभक्तिप्रणतविषयाश्चापि विधयः ।

प्रसीद प्रत्यक्षीभव गिरिसते देहि चरणौ

निरालम्बे चेतः परिलुठति पारिप्लवमिदम् ॥ ४ ॥

शुनां वा वह्नर्वा खगपरिषदो वा यदशनं

तदा केन स्वेति क्वचिदपि न कश्चित्कलयति ॥ अमुष्मिविश्वासं विजहिहि ममाह्नाय वपुषि

प्रपद्येथाश्चेतस्सकलजननीमेव शरणम् ॥ ५॥

अनाद्यन्ताभेदप्रणयरचितापि प्रणयिनी

शिवस्याजर्यत्वं परिणयविधौ देवि गृहिणी । सवित्री भूतानामपि यदुदभूश्शैलतनया

तदेतत्संसारप्रणयनमहानाटक सुखम् ॥ ६ ।

ब्रुवन्त्येते तत्त्वं भगवति सदन्ये विदुरस-

त्परे मातः प्राहुस्सदसदपि चान्येऽप्यसदसत् । चिरेणैतत्सर्वं समभिदधते देवि सुधिय-

स्तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे ॥ ७ ॥

तडित्कोटिज्योतिर्द्युतिदलितषड्ग्रन्थिगहनं

प्रविष्टं स्वाधारे पुनरपि सुधावृष्टिवपुषा । किमप्यष्टाविंशत्किरणशकलीभूतमनिशं

भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ ८ ॥

चतुष्पत्रान्तः षड्दलपुटभगान्तस्त्रिवलय-

स्फुरद्विद्युद्वह्निमणिनियुताभद्युतियुते ।

षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं

कलाश्रं च द्वयश्रं गतवति नमस्ते गिरिसुते ॥ ६ ॥

कुलं केचित्प्राहुर्वपुरकुलमन्ये तव बुधाः

परे तत्सम्भेदं समभिदधते कौलमपरे ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

चतुर्णामेतेषामुपरि किमपि प्राहुरपरे

महामाये तत्त्वं तव कथममी निश्चिनुमहे ॥ १० ॥ प्रकाशानन्दाभ्यामविदितचरी मध्यपदवीं

प्रविश्यैतद्वन्द्वं रविशशिसमाख्यं कवलयन् । प्रपद्येोर्ध्वं नादं लयदहनभस्मी कृतकुल:

प्रसादात्ते जन्तुश्शिवम कुलमम्ब प्रविशते ॥। ११ ॥

षडध्वारण्यानी प्रलयशिखकोटिप्रतिरुचा

रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसम् । वितन्वानः शैवं किमपि वपुरिन्दुपलरुचिः

कुचाभ्यामान म्रश्शिवपुरुषकारो विजयते ॥ १२ ॥

मनुष्यास्तिर्यञ्च मरुत इति लोकत्रयमिदं

भवाम्भोधौ मग्नं त्रिगुणलहरी कोटिलुठितम् ।

क्रटाक्षश्चेद्यत्र क्वचन तव मातः करुणया

शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥ १३ ॥

षडाधारावतैरपरिमितमन्त्रभिपटलै-

र्वन्मुद्रा फेनैर्बहुविधलस दैवतझषैः । क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदीं

भवानि प्रत्यग्रा चिदचिदमृताब्धिप्रणयिनी ॥ १४॥

महीपाथोवश्विसनवियदात्मेन्दुरविभि-

वपुर्भिर्ग्रस्तांशैरपि तव कियानम्ब महिमा । अमून्यालोक्यन्ते भगवति न कुत्राप्यणुतरा-

मवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ १५ ॥

कलां प्राज्ञां मायां समयमनुभूतिं समरसं

गुरुं पारम्पर्यं विनयमुपदेशं शिवपरम् ।

प्रमाणं निर्वाणं प्रकृतिमतिभूति परगुहां

विधि विद्यामाहुस्सकलजननीमेव मुनयः ॥ १६ ॥

प्रलीने शब्दौघे तदनु विरते विन्दुविभवे

ततस्तत्त्वे चाष्टध्वनिवपुरुपाधिन्युपगते ।

गते शाक्ते पर्वण्यपि कलितचिन्मात्रगहनां

स्वयं व्यक्तां योगी रचयति शिवानन्दतनुताम् ॥ १७ ॥

२६५२६६

परानन्दाकारां निरवधिक मैश्वर्यवपुषं

निराघातज्ञानप्रकृतिमनवच्छिन्नकरुणाम् ।

सवित्रीं भूतानां निरतिशयमायास्पदपदां

भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ।। १८ ।।

जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे

पुमांसं बिन्दुस्थं तमपि करुणाख्येऽतिगहने ।

तदेतद् ज्ञानाख्येतदपि वियदानन्दगहने

महाव्योमाकारस्तदनुभवशीलो विजयते ॥ १९ ॥

विधे विद्ये वेद्ये विनयसुलभे वेदगुलिके

विचित्रे विश्वाद्ये विनयसुलभे वेदजननि ।

शिवाज्ञे शीलस्थे शिवपदवदान्ये शिवनिधे

शिवे मातर्मह्यं त्वयि वितर भक्ति निरुपमाम् ।। २० ।।

विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले

हरि शूलप्रोतं यदगमयदंसाभरणताम् ।

अलञ्चक्रे कण्ठं यदपि गरलेनाम्ब गिरिश-

शिवस्थायारशक्तेस्तदिदमखिलं ते विलसितम् ॥ २१ ॥

विरिञ्चाख्या मातस्सृजसि हरिसंज्ञा त्वमवसि

त्रिलोकीं रुद्राख्या हरसि निदधासीश्वरदशाम् ।

भवन्ती नादाख्याविहरसि च पाशौघदलना-

तदेका नैकासि त्वमसि कृतिभेदैगिरिसुते ॥ २२ ॥

मुनीनां चेतोभिः प्रमुदितकषायैरपि मना-

शक्यं सम्प्रष्टुं चकितच कितैरम्ब सततम् ।

श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतले

कथं वा विन्दन्ते पद किसलये पर्वतसुते ॥ २३ ॥

पिता माता भ्राता सुहृदनुचरस्सा गृहिणी

वपुः पुत्रः क्षेत्रं धनमपि यदा मां विजहति ।

तदा मे भिन्दाना सपदि भवमोहान्धतमसं

महाज्योत्स्ने मातभव करुणया सन्निधिकरी ॥ २४ ॥

प्रियङ्ग ु श्यामाङ्गीमरुणतरवासः किसलयां

समुन्मीलन्मुक्ताफलकुसुमनेपथ्यसुभगाम् ।

रहस्यमयी तान्त्रिक स्तुतियों का संग्रह

स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां

सकृद्ध्यायन्तस्त्वामभिदधति सन्तो भगवतीम् ।। २५ ।।

शिवस्त्वं शक्तिस्त्वं त्वमसि समयस्त्वं समयिनी

त्वमाज्ञा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः । अविद्या त्वं विद्या त्वमसि निखिलं तत्त्वमपरं

पृथक्त्वत्तः किंचिद्भगवति न वीक्षामह उमे ॥ २६ ॥

पुरः पश्चादन्तर्बहिरपरिमेयं परिमितं

परं स्थूलं सूक्ष्मं सकलमकलं गुह्यमगुहम् । दवीयो नेदीयस्सदसदिति विश्वं भगवती

सदा पश्यन्त्याख्यां वहसि भुवनक्षोभजननीम् ॥ २७ ॥

त्वाऽसौ जानीते रचयति भवत्यैव सततं

त्वयैवेच्छत्यम्ब त्वमसि तनवोऽप्यस्य विहिताः । जगत्साम्यं शम्भोर्वहसि परमव्योमवपुष-

स्तथाप्यर्थं भूत्वा विहरसि हरस्येति किमिदम् ॥ २८ ॥

मयूखाः पूष्णीव ज्वलन इव तद्दीप्ति कणिका:

पयोधौं कल्लोलप्रतिभयमहिम्नीव पृषतः ।

उदेत्यात्याम् त्वयि सह निजैस्सात्त्विकगुणै-

भजन्ते तत्त्वौघाः प्रलयमनुकल्पं परवशाः ॥ २९ ॥

सुता दक्षस्यादौ किल सकलमातस्त्वमुदभू-

स्सरोषं तं हित्वा तदनु गिरिराजस्य तनया ।

अनाद्यन्ता शम्भोरपृथगमपि शक्तिर्भगवती

२६७

विवाहाज्जायाऽऽसीत्यहह तव को वेत्ति चरितम् ।। ३० ।।

कलास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः

परं ब्रह्म क्षुद्रास्तव नियतमानन्दकलिताः ।

शिवादिक्षित्यन्तं त्रिवलिततनोविश्वमुदरे

तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ ३१ ॥

शरीरं क्षित्यम्भःप्रभृति रचितं केवलमचित्-

सुखं दुःखं चायं कलयति परश्चेतन इति ।

२६८

स्फुटं जानानोऽपि प्रभवति न देही रहयितुं

शरीराहङ्कारं तव जननि बाह्य गिरिसुते ॥ ३२ ॥ असङ्ख्यैः प्राचीनैर्जननि जननैः कर्मनिलयात्- सज्जन्मन्यते गुरुवपुषमासाद्य वपुषि । तवाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवा-

न्नयेयं त्वत्पूजा स्तुतिविरचनेनैव दिवसान् ॥ ३३॥

भुवि पयसि कृशानौ मारुते खे शशाङ्क

सवितरि यजमानेऽप्यष्टधाशक्तिरेका । वहसि कुचभराभ्यां या विनम्राऽसि विश्वं

सकलजननि सा त्वं पाहि मामित्यवाच्यम् ॥ ३४ ॥

यत् षट्पत्रं कमलमुदितं तस्य या कणिकाख्या

योनिस्तस्याः प्रथितमुदरे तत्तदोङ्कारपीठम् ।

तस्याप्यन्तः कुचभरनतां कुण्डलीति प्रसिद्धां

श्यामाकारां सकलजननीं चेतसा चिन्तयामि ॥ ३५ ॥ इति श्रीमत्कविराजराजमकुटरत्नराजितचरणारुणराजीवस्य

राजराजेश्वरीकरुणाकटाक्षलब्धनिखिलानवद्यविद्यस्य

तत्रभवतः श्रीकालिदासस्य कृतिषु’ श्री सकलजननीस्तवः

सम्पूर्णः ॥

१. सौन्दर्यलहरी के टीकाकार श्रीकामेश्वरसूरि ने पञ्चस्तवी को आचार्य भगवत्पादकृत माना है तथा श्रीलक्ष्मीधर ने कालिदास कृत । कैवल्याश्रम ने इसे धर्माचार्य की रचना माना है । ये महाराज समुद्रगुप्त के धर्माध्यक्ष हरिषेण कालिदास हो सकते हैं ।

२ नन्दिकेश्वर-काशिका

उपमन्युकृत टीका संवलिता

नृत्यावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ॥ १ ॥

नमः शिवाय देवाय सर्वज्ञाय महात्मने । यस्योन्मेषनिमेषाभ्यां व्यक्ताव्यक्तमिदं जगत् ॥ १ ॥ गुरुं शिवं कुमारच शिवतत्त्वविशारदम् ।

प्रणम्य नन्दिकेशादीन् शिवभक्तान् मुहुर्मुहुः ॥ २ ॥ काशिकामादिसूत्राणां नन्दिकेशकृतां शुभाम् ।

लोकोपकारिणीं दिव्यां व्याकरोमि यथामति ॥ ३ ॥

इह खलु सकललोकनायकः परमेश्वरः परमशिवः सनकसनन्दन- सनत्कुमारा- दीन् श्रोतृन् नन्दिकेशपतञ्जलिव्याघ्रपाद्वसिष्ठादीनुद्धर्तुकामो डमरुनिनादव्याजेन चतुर्द्दशसूत्रयात्मकं तत्त्वमुपदिदेश । तदनु ते सर्वे मुनीन्द्रवर्याश्चिरकालमाश्रिता- नामस्माकं तत्त्वं चतुर्दशसूत्रात्मकमुपदिदेशेति मत्वा अस्य सूत्रजालस्य तत्त्वार्थं नन्दिकेश्वरो जानातीति नन्दिकेश्वरं प्रणिपत्य पृष्टवन्तः । ततस्तेषु पृष्टवत्सु स षड्विंशतिकारिकारूपेण तत्त्वं सूत्राणामुपदेष्टुमिच्छन्निदमाचचक्षे - नृत्याव- साने इति । अहमिति शेषः । ’ नटराजराज’ इत्यनेन मङ्गलानि दर्शितानि । विश्वरूपविलास वैचित्र्यचमत्कारप्रवीणत्वान्नटराजराजः,

ताण्डवाख्य रासमात्र-

विलासर्वैचित्र्यचमत्कारप्रवीणत्वस्य त्वन्यत्र नटादावपि सत्त्वात् । स त्वात्मत्वं वागाद्यगोचर इति ज्ञापनार्थं ढक्कानिनादव्याजेन सनकादीनुद्धर्तुकामो नवपञ्च- वारं चतुर्दशवारं स्वान्तर्गतमात्मतत्त्वं प्रकटयितुं नृत्यावसाने ननाद नादितवान् । अहं तदेतद् विततनिनादोद्भूतवर्णात्मक माद्यमति रहस्यमेतच्छिव सूत्र जालं शिव- सम्बन्धि सूत्रसमूहं कल्याणरूप सूत्रसमूहं वा विमर्शे विचार्य स्फुटीकरोमीत्यर्थः । ( ‘विमर्श’ इति छान्दसं बोध्यम् ) ॥ १ ॥

अत्र सर्वत्र सूत्रेषु अन्त्यवर्णचतुर्दशम् ।

धात्वर्थं समुपादिष्टं पाणिन्यादीष्टसिद्धये ॥ २ ॥

अनुबन्धाः पाणिन्याद्युद्देश्यका एवेत्याह– अत्रेति । एष्वित्यादिरर्थः । अन्त्यं वर्णेति वा पाठ: । उभयथापि बहुव्रीहिः । कदम्बमन्यपदार्थः समासान्तः । चतुर्दशेति वा पाठ: । तदा तत्पुरुषः । द्वयेकयोरितिवच्चतुर्दशेति प्रयोगः । केषु चित् पुस्तकेषु ‘अन्त्यवर्णे चतुर्दशक’ मिति पाठः । श्रात्वर्थधातुमूलक शब्दशास्त्र-

२७०

प्रवृत्त्यर्थमित्यर्थः, अन्त्यवर्णजालं शब्द इति न्यायेन । तथा चोक्तमिन्द्रेण- ‘अन्त्य- वर्णसमुद्भूता धातवः परिकीर्तिता’ इति ॥ २ ॥

अ इ उ ण् ॥ १ ॥

अकारो ब्रह्मरूपः स्यान्निर्गुणः सर्ववस्तुषु ।

चित्कलामि समाश्रित्य जगद्रूप उणीश्वरः ॥ ३॥

तत्राद्येन सूत्रेण सर्ववर्णानां समस्तभुवनाश्व समुद्भवरूपं स्वात्मतत्त्वमुपदिष्ट- मित्याह – ० अकारो ब्रह्मेति० । अ: परमेश्वरो निर्गुण: ई मायामाश्रित्य उ: व्यापकः सगुणः ईश्वरः ण् आसीत् इति सूत्रार्थः सूचित: । [ सर्ववस्तुषु परा- पश्यन्ती मध्यमावैखर्यादिषु इं चित्कलामिमित्यत्र गायत्रीमि चेतिवदीकारो बोध्यः । अत्र ईकारस्तु सूत्रे नोदितः इकार एव प्रकटितः । सर्गसम्भवकाले अ, इ, उ, ऋ, ऌ, इति वर्णपञ्चकमेव सर्वेषामेकोनपञ्चाशदक्षराणां भूतपञ्चकानां पञ्चवर्गाणां क्रमेण योनिरिति ] । अत्र प्रमाणम् – ‘असद्वा इदमग्र आसीत्ततो वै सदजायत’ इति श्रुतिः । असद् ब्रह्म वै निश्वयेन अग्रे सृष्टेः पूर्वमिदमक्षरात्मक- मासीत् । ततोऽक्षरात असतो वै सत् सगुणमजायत जातमित्यर्थः । तदुक्तं, गीतायाम्, ‘अक्षराणामकारोऽस्मीति ॥ ३ ।

अकार: सर्ववर्णाग्रयः प्रकाशः परमेश्वरः ।

आद्यमन्त्येन संयोगादहमित्येव जायते ॥ ४ ॥

अत एवाह - अकार इति । ‘आदिरन्त्येन सहेता’ इत्यादिरकारोऽन्त्यो हकारः अकारादिहकारान्ता वर्णास्ततः परमात्मनः समभवन्नित्यर्थः । परमः शिव इति पाठान्तरम् ॥ ४ ॥

सर्वं परात्मकं पूर्वं ज्ञप्तिमात्रमिदं जगत् ।

ज्ञप्तेर्बभूव पश्यन्ती मध्यमा वाक् ततः स्मृता ।। ५ ।। वक्त्रे विशुद्धचक्राख्ये वैखरी सा मता ततः । सृष्ट्याविर्भावमासाद्य मध्यमा वाक् समा मता ॥ ६ ॥

ईश्वर एवानादिजीवोपाध्याश्रितकर्मप्रेरित प्राणव्यापारानन्तरं नाभी पराख्यं मायापरिणाममुपेत्य हृदि पश्यन्त्याख्यमुपेत्य विशुद्धचक्रे मध्यमाख्यमुपेत्य पश्चा- द्वक्त्रे वैखर्याख्यमवाप्य वेदादिरूपो भवतीत्यर्थः । श्रुतिरपि - " वागेव विश्वा भुवनानि जज्ञे " इति । सूक्ष्मा वागेव विश्वाकारेण विपरिणमते विवर्त्तते वेति बोध्यम् । श्रुत्यन्तरमपि - ‘वाचैव विश्वं बहुरूपं निबद्धं तयैवैकं प्रविभज्योपभु-

ङ्क्ते’ इति ॥ ६ ॥

अकारं सन्निधीकृत्य जगतां कारणत्वतः ।

इकारः सर्ववर्णानां शक्तित्वात् कारणं गतम् ॥ ७ ॥

नन्दिकेश्वर-काशिका

जगत् स्रष्टुमभूदिच्छा यदा ह्यासीत्तदाभवत् । कामबीजमिति प्राहुर्मुनयो वेदपारगाः ॥ ८ ॥ अकारो ज्ञप्तिमात्रं स्यादिकारश्चित्कला मता । उकारो विष्णुरित्याहुर्व्यापकत्वान्महेश्वरः ।। ९ ।। तत्र सर्वकारस्यैव स्वतन्त्रतामाह- अकारमिति ॥ ७ ॥

जगत् स्रष्टुमिति । उक्तं च- ‘स्वप्रकाशपरमात्मवस्तुनो दृश्यमानजगतः सिसृक्षया ।

कामतः परशिवप्रकाशितं कामबीजमिदमेव निश्चितम् ॥’ इति,

‘बीजं बिन्दुद्वयारूढं सार्धंयोनिस्वरूपकम् ।

महाकामकलारूपमात्मानं चिन्तयेत् प्रिये ॥’

इति च ॥ ८ ॥

२७१

उक्तमेव द्रढयति — अकार इति । उकार इति उ व्यापकत्वेन ण् ईश्वर आसीदित्यर्थ के उणीश्वरः इत्यत्रेति भावः ।। ९ ।।

ॠ ऌ क् ॥ २ ॥

ऋ लृ क् सर्वेश्वरो मायां मनोवृत्तिमदर्शयत् । तामेव वृत्तिमाश्रित्य जगद्रूपमजीजनत् ॥ १० ॥

ननु सर्ववेदान्तेषु परमेश्वर एक इति निश्चितत्वान्मायामी चित्कलां समा- श्रित्य जगद्रूपोऽभूदित्युक्तेऽद्वैत हा निजयितेत्याशङ्कयाह — ऋ ऌगिति । परमेश्वरः ऌ मायाख्यां मनोवृत्ति क् अदर्शयत्, तामेवाश्रित्य स्वेच्छया जगज्जन- यामासेत्यर्थः । ऋ परमेश्वर इत्यत्र ‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्’ इति श्रुतिः प्रमाणम् । तं तत्पदार्थं परं ब्रह्म ॠ सत्यमित्यर्थः । श्रुत्यन्तरमपि - ‘सोऽकामयत बहु स्यां प्रजायेय’ इति । श्रीतन्त्रेऽपि - ‘मत्तो ह्यभून्मनोरूपं ऌकारः परमेश्वरि’ इति । ऋवण यथा तादात्म्यमापन्नौ तथेत्यर्थः ॥ १० ॥

वृत्तिवृत्तिमतोरत्र भेदलेशो न विद्यते ।

चन्द्रचन्द्रिकयोर्यद्वद् यथा वागर्थयोरपि ॥ ११ ॥ स्वेच्छया स्वस्य चिच्छक्तौ विश्वमुन्मीलयत्यसौ । वर्णानां मध्यमं क्लीबमृलवर्णद्वयं विदुः ॥ १२ ॥ तदाह - भेदलेश इति । वास्तव इत्यर्थः ।। ११-१२ ।।

ए ओ

ङ् ।। ३ ।।

ए ओ ङ्मायैश्वरात्म्यैक्यविज्ञानं सर्ववस्तुषु ।

साक्षित्वात् सर्वभूतानां स एक इति निश्चितम् ॥ १३ ॥

२७२

ननु ‘जनयामास’ इत्युक्ते जन्यजनकभावेऽद्वैतहानिः स्यादित्याशङ्क्य ‘तत् सृष्ट्वा तदेवानुप्राविशदिति श्रुतिमाश्रित्याह - एवोङ्मायेश्वरेति । जन्यजनकत्वं च स्वस्यैव तद्रूपेण वर्तमानत्वादिति नाद्वैतहानिः । अकारोकाराभ्यां निष्पन्नप्रणव- रूपेणौकारेण सगुण निर्गुणयोरैक्ये बोधिते तेनैव दृष्टान्तेन सर्वत्रैक्यबुद्धो द्वैतनिरासो ध्वनितः । समष्टिव्यष्टिभेदेन पूर्ववर्णयुत द्वितीयस्य तद्युततृतीयस्य च समन्वय- बोधकमिदं सूत्रम् । अ अक्षरात्मकः इ मायायुक्तः सन् प्रज्ञानस्वरूपः प्रज्ञानात्मा [ सर्ववस्तूनामेकत्वात् अद्वैतोपपत्तिः, न नानात्वं जन्यजनकत्वं च । ] स्वयं प्रविश्यत तद्रूपेण वर्त्तत इत्यर्थः । वटबीजन्यायेन च पूर्वसूत्रद्वयजनितवर्णपञ्चक- मेव सकलजगत् कारणमिति प्रागुक्तम् । उत्तरसूत्रवर्णानामपि तस्मादेव सम्भवः । समष्टिव्यष्टिभेदेषु पूर्ववर्णयुतद्वितीयस्य पूर्ववर्णयुततृतीयस्य च समन्वयबोधकमिदं सूत्रम् । समन्वयबोधनमप्येकत्वेनोक्तम् । अत्राप्यपरत्वे सर्ववेदसम्मतत्वं च । तथा च सनकदक्षिणामूर्ति संवादमहावाक्यविवरणे-

‘श्रुणु त्वं सावधानेन चतुर्णामपि साम्यता । वेदानां च महाभाग चतुष्काणामिहोच्यते ॥ १ ॥

ब्रह्मशब्देन यद्वस्तु तत्त्वज्ञानमितीरितम् ।

प्रज्ञानं ब्रह्म यस्माद्धि तस्माद् ब्रह्मास्म्यहं ततः ॥ २ ॥

तद् ब्रह्म सर्वसाक्षीति तत्त्वमस्येव तत्त्वतः । अन्यत्ववारणत्वायाऽयमात्मेत्यपि वर्ण्यते ॥ ३ ॥

इति ॥ १३ ॥

ऐ औ च् ॥ ४ ॥

ऐ औ च ब्रह्मस्वरूपः सन् जगत् स्वान्तर्गतं ततः । इच्छया विस्तरं कर्त्तुमाविरासीन्महामुनिः ॥ १४ ॥

स्वात्मभूतस्य परमेश्वरस्य जगत्कारणत्वं कथमित्याशङ्कयाह - ऐ औजिति । ततः स्वान्तर्गतं जगद्विस्तारयितुमिच्छुः ऐ ज्ञानशक्तियुक्त इति अतः पूर्वसूत्रगत एव सः । अकारेका रदीर्घयोगस्यैव ऐकारत्वमेकत्वञ्च । सम्प्रज्ञानस्वरूपपरमेश्वरो यः स पूर्वसूत्रगत एव, अकारदीर्घस्य उकारदीर्घस्यैव योगे औकारत्वम्, य: स प्रज्ञानात्मा मायाशबलितः स एकारो यः स आईआऊ इत्याविर्भावे उक्तः । उक्तं चेश्वर विमशिन्याम् - अकारेकारोकाराणां ह्रस्वदीर्घाणां संयोगात् सर्वसम्भूति- रिष्यत इति । इच्छया जगद्विस्तारयितुमुद्युक्त इत्यर्थः । अत्राह-

‘प्रणवेन जगद्वयाप्तं मायायामवतिषुते ।।’

नन्दिकेश्वर-काशिका

२७३

इति ज्ञानोत्तमे । एवं तत्तत्समुदायानां त्रयोदशवर्णाच्छिवादिप्रकृत्यन्तानामुद्भवः । प्रकृतिपुरुषविवेकमुत्तरत्र कथयत्यस्मिन् सूत्रे उपहारत्वेन पठितम् । अत्र ह्रस्व- दीर्घप्रभेदाच्चतुर्द्दशस्वराणामेव संकीर्तनं चतुर्द्दशभुवन-चतुर्द्दश चक्रचतुर्द्दश प्रकारा- णामिति निष्कर्ष: । तदुक्तं शिवगौरीसंवादे महामन्त्रतत्त्वप्रकाशिन्याम्-

’ तव मन्त्रं महेशानि मम रूपं त्वमेव हि । चतुर्द्दशात्मकं चक्रं स्वरचक्रमितीरितम् ॥ त्रयोदशात्मकं तुर्यमावयोर्मन्त्रमम्बिके । उच्छूनकाले बिन्द्वात्मा तस्मादक्षरसम्भवः ॥ बिन्दुस्फोटनमात्रेण वर्णानां च समुद्भवः । तस्मादाकाश मुख्यानि भूतानि समजायत ॥ बिन्दु : श्रीचक्रराजस्य परब्रह्मात्मस्त्विति । चतुर्द्दशात्मकः पश्चाच्चक्राकारेण सम्भवः ॥ उत्पन्नभुवनान्यत्र चतुर्दश चतुर्दशे ‘ति ॥ १४ ॥

ह य व र ट् ॥ ५ ॥

भूतपञ्चकमेतस्माद्ध-य-व-र-णुमहेश्वरात् । व्योमवाय्वम्बुवह्नयाख्यभूतान्यासीत् स एव हि ॥ १५ ॥

तत आत्मनः सकाशादाकाशादिभूतसम्भवमाह-भूतपञ्चकमिति । स एवेति । परमेश्वर एवेत्यर्थः ।। १५ ।।

हकाराद्वयोमसंज्ञं च यकाराद्वायुरुच्यते ।

काराद्वह्निस्तोयं तु वकारादिति सैव वाक् ॥ १६॥ हकारादित्यादि । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः, आकाशा- वायुः वायोरग्निरग्नेरापोऽद्भयः पृथिवी’ इति श्रुतिः ॥ १६ ॥

ल ण् ॥ ६ ॥

आधारभूतं भूतानामन्नादीनां च कारणम् । अन्नाद्रेतस्ततो जीवः कारणत्वाल्लणीरितम् ॥ १७ ॥

एतस्मात् परमेश्वराद् भूतपञ्चकमाकाशादिकं प्रपञ्चकारणमासीदित्युक्तम्, तत्र आकाशादिभूतचतुष्टयमेवोक्तम्, न पृथिवीत्याकांक्षायामान - आधारेति । भूतानां प्राणिजातानामुद्भिज्ज स्वेदज जरायुजाण्डजादीनां प्रधानाधारत्वादाधार- भूता पृथिवी पुनश्चान्नपानादीनां कारणत्वात् प्रत्येकत्वेन लणित्युदीरितमित्यर्थः, अन्नाद्रेत इति न्यायात् ॥ १७ ॥

१८ म० मा०

२७४

ञमङण न स् ।। ७ ।।

शब्दस्पर्शी रूपरसगन्धाश्च ञ म ङ ण-न-म् । व्योमादीनां गुणा ह्य ेते जानीयात् सर्ववस्तुषु ॥ १८ ॥

ततः पृथिव्यादीनां कारणत्वेन स्थितानां तन्मात्राणामुत्पत्तिक्रममाह - शब्देति । व्योमादीनामिति । व्योमादीनां गुणानेककारणानुत्पत्तिक्रमे तान् जानीयात् । सर्ववस्तुष्विति । अत्र केषांचिद् ग्रन्थे अकारादिक्षकारान्ताः षट्- त्रिशत्तत्त्वमयाः, कतिचित्तन्त्रराजादिग्रन्थे पञ्चभूतक्रमेण लिपिप्रकारेण । एव- मन्यत्र बीजनिर्णयभेदा बहवः सन्ति, अत्र तु तन्त्रोक्तप्रकारेणोद्धाटितम् ।

‘पञ्चवर्गेष्वन्ति मार्णाः शब्दस्पर्शादयो गुणाः ।’

इति वचनात् । सर्वजग त्कारणभूतस्य वर्णरूपपुरुषस्य सर्वेषां चेति व्योमादिगुणा इत्यर्थः ॥ १८ ॥

झ भ ञ् ॥ ८ ॥

वाक्पाणी च झ भ ञासीद्विरारूपचिदात्मनः । सर्वजन्तुषु विज्ञेयं स्थावरादौ न विद्यते ॥ वर्गाणां तुर्यवर्णा ये कर्मेन्द्रियमया हि ते ॥ १९ ॥

घ ढ ध ष ॥ ९ ॥

घढधष् सर्वभूतानां पादपायू उपस्थकः ।

कर्मेन्द्रियगणा ह्य ेते जाता हि परमार्थतः ।। २० ।।

ततः सूत्राभ्यां कर्मेन्द्रियवर्गमुद्घाटयति– वाक्पाणी चेति । विरारूपस्य शिवस्य प्राणिजातस्य च झकारभकारी स्थावरादिषु विना विरारूपं विज्ञेय- मित्यर्थः । अथ क्रमप्राप्तं पादादिकमाह - घढधषिति । परमार्थत इति । परमशिवसकाशात् इमे कर्मेन्द्रियगणाः सर्वजन्तूनां पादपायूपस्था: घढधवर्णा जाता इत्यर्थः ॥ १९-२० ।।

ज ब ग ड द श ॥ १० ॥

श्रोत्रत्वनयनप्राणजिह्वाधीन्द्रियपञ्चकम्

सर्वेषामपि जन्तूनामीरितं ज ब ग ड द श् ।। २१ ।।

अथ क्रमप्राप्तं ज्ञानेन्द्रियसम्भवमाह— श्रोत्रेति }

‘वर्गाणां मध्यवर्णोत्यो ज्ञानेन्द्रियगणः स्मृतः ’ ।

इति वचनशासनाज्जनगडदवर्णसमूहो ज्ञानेन्द्रियगण इति तस्य सर्वत्रस्थस्यैव ज्ञानेन्द्रियगणः समुत्पन्नः इति सर्वत्र सर्वेषां प्राणिजातानामेते वर्णा ज्ञानेन्द्रियाणां जनका इति वा ज्ञातव्यमित्यर्थः ।। २१ ।।

afahaar-काशिका

ख फ छ ठ थ च ट त व् ॥ ११ ॥

प्राणादिपञ्चकं चैव मनो बुद्धिरहङ्कृतिः ।

·

बभूव कारणत्वेन ख फ छ ठ थ च ट त व् ॥ २२ ॥ वर्गद्वितीयवर्णोत्थाः प्राणाद्याः पञ्च वायवः । मध्यवर्गत्रयाज्जाता अन्तःकरणवृत्तयः ॥ २३ ॥

२७५

ततः प्राणादिपञ्चकमनोबुद्ध्यहङ्काराः समुन्मील्यन्ते - प्राणादीति ॥ २२॥ वर्गेति । एतैरष्टवर्णैः प्राणादिपञ्चकं मनोबुद्धयहङ्कृतयश्च जगतां कारण- त्वेन सम्भूता इत्यर्थः ॥ २३ ॥

कप ।।१२ ॥

प्रकृति पुरुषञ्चैव सर्वेषामेव सम्मतम् ।

सम्भूतमिति विज्ञेयं क प य् स्यादिति निश्चितम् ।। २४ ।।

ततः सर्वप्राणिकारणत्वेनाद्यन्तवर्गद्वयाद्यक्षरग्रहणेन सम्पुटीभावं प्रकृतिपुरुषा- भ्यां प्रकाशयति- प्रकृतिमिति । ककारपकारजातौ प्रकृतिपुरुषा वित्यर्थः ॥ २४ ॥

श ष स र् ॥ १३ ॥

सत्त्वं रजस्तम इति गुणानां त्रितयं पुरा ।

समाश्रित्य महादेवः श ष स र् क्रीडति प्रभुः ।। २५ ।।

श-ष-स-र् शकाराद्राजसोद्भूतिः षकारात्तामसोद्भवः ।

सकारात् सत्त्वसम्भूतिरिति त्रिगुणसम्भवः । २६ ॥ तत्रावस्थात्रयं निरूपयति - सत्त्वमित्यादि । पुरा सृष्टेः प्राक् शषसवर्ण- सम्भूतान् सत्त्वरजस्तमोगुणानाश्रित्य परमशिवः सर्वभूतेषु क्रीडतीत्यर्थः ।। २५-२६॥

ह ल् ॥ १४ ॥

तत्त्वातीतः परः साक्षी सर्वानुग्रहविग्रहः ।

अहमात्मा परो हल् स्यामिति शम्भुस्तिरोदधे ॥ २७ ॥

इति नन्दिकेश्वरकृता काशिका समाप्ता ॥

॥।

सर्वतत्त्वजनकः स्वयं तत्त्वातीत इति ज्ञापनार्थमेतत् सूत्रं चकारेत्याह- तत्त्वातीत इति । सर्वानुग्रहः साक्षी तत्त्वातीतो हल् स्यामिति ढक्कानिनादव्याजेन सर्वेषां मुनिजनानां तत्त्वमुपदिशन् तिरोदधे इत्यर्थः । हकारः शिववर्णः स्यादिति शैवागमस्थिति’ रिति शिवम् ॥ २७ ॥

इति आदिसूत्रनन्दिकेश्वरकाशिकायास्तत्त्वविमर्श-

न्युपमन्युकृता टीका सम्पूर्णा ॥

३ वर्णोद्धारतन्त्रोक्त मात्रिकाओं की ध्यान-सम्बन्धी आकृतियाँ

केतकीपुष्पगर्भाभां द्विभुजां हंसलोचनाम् । शुक्लपट्टाम्बरधरां पद्ममाल्यविभूषिताम् ॥ चतुर्वर्गप्रदां नित्यं नित्यानन्दमयीं पराम् । वराभयकरां देवीं नागपाशसमन्विताम् ॥ एवं ध्यात्वा अकारं तु तन्मन्त्रं दशधा जपेत् ॥ अ ॥ ध्यानमस्याः प्रवक्ष्यामि षड्भुजां रक्तलोचनाम् । रत्न- कङ्कण-केयूर - हारोज्ज्वलकलेवराम् सिद्धां सिद्धिप्रदां सौम्यां सिद्धगन्धर्वसेविताम् । एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् ॥ आ ॥

11

धूम्रवर्णा महारौद्री पीताम्बरयुतां पराम् । कामदां सिद्धिदां सौम्यां नित्योत्साहविवर्द्धिनीम् ॥ चतुर्भुजान्तु वरदां हरिचन्दनभूषिताम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ इ ॥ चतुर्भुजां रक्तवर्णां रक्तपुष्पोपशोभिताम् । चारुचन्दनदिग्धाङ्गीं रक्तपङ्कजलोचनाम् । रक्तचीरपरीधानां धर्मकामार्थ मोक्षदाम् ॥ एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् ॥ ई ॥ पीतवर्णां त्रिनयनां पिताम्बरधरां पराम् । द्विभुजां जटिलां भीमां सर्वसिद्धिप्रदायिनीम् । एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् ॥ उ ॥ द्विभुजां शुक्लवर्णां च जटामुकुटशोभिताम् । शुल्कमाल्याम्बरधरां चारुचन्दनभूषिताम् ॥ चतुर्वर्गप्रदां नित्यां रक्तपङ्कजलोचनाम् । एवं ध्यात्वा तु तन्मन्त्रं दशधा जपमाचरेत् ॥ ऊ ॥

वर्णोद्वारतन्त्रोक्त मातृकाओं को ध्यान-सम्बन्धी आकृतियाँ २७७

षड्भुजां नीलवर्णां च नीलाम्बरधरां पराम् । नानालङ्कारभूषाढ्यां सर्वालङ्कृतमस्तकाम् । भक्तिप्रदां भगवतीं भोगमोक्षप्रदायिनीम् ॥ एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् ॥ ऋ ।

ध्यानमस्याः प्रवक्ष्यामि द्विभुजां पद्मलोचनाम् । सन्तप्तस्वर्णवर्णाभां सर्वालङ्कारभूषिताम् ॥ रक्तपद्मेक्षणां देवीं रत्नहार - विभूषिताम् । एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् ॥ ऋ ॥ स्वर्णचम्पकवर्णाञ्च स्वर्णालङ्कारविग्रहाम् । चतुर्भुजां त्रिनयनां रक्तचन्दनचर्चिताम् ॥ प्रणमामि सदा देवीं धर्मकामार्थमोक्षदाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ लृ ॥

ध्यानमस्याः प्रवक्ष्यामि पीतवर्णां चतुर्भुजाम् । पीताम्बरपरीधानां नानालङ्कारमस्तकाम् ॥ विचित्रमाल्याभरणां देवदानवसेविताम् । चतुर्वर्गप्रदां नित्यां नित्योत्साह विवर्द्धिनीम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ लृ ॥

रक्ताम्बरपरीधानां षड्भुजां रक्तलोचनाम् । विचित्राभरणां नित्यां चतुर्वर्गप्रदायिनीम् । ईषद्धास्यमुखीं सौम्यां देवगन्धर्वसेविताम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ ए ॥

विचित्ररूपिणीं देवीं विचित्राम्बरधारिणीम् । विचित्रमाल्याभरणां चतुर्बाहुसमन्विताम् ॥ नानालङ्कारसंयुक्तां चतुर्वर्गफलप्रदाम् । देवदानवगन्धर्वैः सेवितां मोक्षकाङ्क्षिभिः ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ ऐ ॥

रत्नालङ्कारसंयुक्तां पद्मरागप्रभां शुभाम् ॥ शरत्पूर्णेन्दुवदनां विचित्रवसनान्विताम् ॥ चतुर्भुजां त्रिनयनां स्मेरास्यां नीलकुन्तलाम् ।

२७८

विद्युद्दामसमानाङ्गी मुक्तापङ्क्तिस्रजं भजे ।

एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ ओ ॥

चतुर्भुजां त्रिनयनां जटामुकुटमण्डिताम् । श्वेत- रोहित-पीतादि- पुष्पहारोपशोभिताम् । सदास्मेरमुखीं सौम्यां चतुर्वर्गप्रदायिनीम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ औ ॥

जपादाडिमपुष्पाभां द्विभुजां रक्तलोचनाम् । रक्ताम्बरपरीधानां रक्तालङ्कारभूषिताम् । चतुर्वर्गप्रदां सौम्यां वरदां नागशेखराम्। एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ अं ॥

सन्तप्तहेमवर्णाभां

सर्वालङ्कारभूषिताम् ।

रत्नयज्ञोपवीतां च रत्नकङ्कणराजिताम् ॥

पूर्णन्दुवदनां सौम्यां तुरीयकरसंयुताम् ॥

चन्द्रसूर्याग्निरूपेण

नयनत्रितयान्विताम् ।

साधकाभीष्टदां नित्यां धर्मकामार्थमोक्षदाम् ॥

एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ अः ॥

जपायावक सिन्दूरसदृशीं कामिनीं पराम् । चतुर्भुजां त्रिनेत्रां बाहुबल्लीविराजिताम् ॥ कदम्बकोरकाकार-स्तनयुग्म - विराजिताम् । रत्नकङ्कण-केयूर-हार-नूपुर - भूषिताम्

एवं ककारं ध्यात्वा तु तन्मन्त्रं दशधा जपेत् ॥ क ॥

बन्धूकपुष्पसङ्काशां रत्नालङ्कारभूषिताम् । वराभयकरां नित्यामीषद्धास्यमुखीं पराम् । एवं ध्यात्वा खकारं तु तन्मन्त्रं दशधा जपेत् ॥ ख ॥

दाडिमपुष्पशङ्काशां चतुर्बाहुसमन्विताम् ॥ रक्ताम्बरधरां नित्यां रक्तालङ्कारभूषिताम् । एवं ध्यात्वा गकारं तु तन्मन्त्रं दशधा जपेत् ॥ ग ॥

मालतीपुष्पवर्णाभां षड्भुजां रक्तलोचनाम् । शुल्काम्बरपरीधानां शुल्कमाल्यविभूषिताम् ।

वर्णोद्वारतन्त्रोक्त मातृकाओं की ध्यान-सम्बन्धी आकृतियाँ २७८

सदास्मेरमुखीं रम्यां लोचनत्रयराजिताम् । एवं ध्यात्वा घकारं तु तन्मन्त्रं दशधा जपेत् ॥ घ ॥

धूम्रवर्णा महाघोरां ललज्जिह्वां चतुर्भुजाम् । पीताम्बरपरीधानां साधकाभीष्टसिद्धिदाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ ङः ॥

तुषारकुन्दपुष्पाभां नानालङ्कारभूषिताम् । सदा षोडशवर्षीयां वराभयकरां पराम् ॥ शुल्कवस्त्रावृतकटिं शुल्कवस्त्रोत्तरीयिणीम् । वरदां शोभनां रम्यामष्टबाहुसमन्विताम् । एवं ध्यात्वा चकारं तु तन्मन्त्रं दशधा जपेत् ॥ च ॥

ध्यानमस्याः प्रवक्ष्यामि द्विभुजान्तु त्रिलोचनाम् । पीताम्बरधरां नित्यां वरदां भक्तवत्सलाम् ॥ एवं ध्यात्वा छकारं तु तन्मन्त्रं दशधा जपेत् ॥ छ ॥

नानालङ्कारसंयुक्तैर्भुजैर्द्वादशभिर्युताम् । रक्तचन्दनदिग्धाङ्गीं चित्राम्बरविधारिणीम् । त्रिलोचनां जगद्धात्रीं वरदां भक्तवत्सलाम् । एवं ध्यात्वा जकारं तु तन्मन्त्रं दशधा जपेत् ॥ ज ॥

सन्तप्तहेमवर्णाभां

रक्ताम्बरविभूषिताम् ।

रक्तचन्दन- लिप्ताङ्गी रत्नमाल्यविभूषिताम् ।

चतुर्दशभुजां देवीं रत्नहारोज्ज्वला पराम् ।

एवं ध्यात्वा झकारं तु तन्मन्त्रं दशधा जपेत् ॥ झ ॥

चतुर्भुजां धूम्रवर्णां कृष्णाम्बरविभूषिताम् । नानालङ्कारसंयुक्तां जटामुकुटराजिताम् ॥ ईषद्धास्यमुखीं नित्यां वरदां भक्तवत्सलाम् । एवं ध्यात्वा अकारं तु तन्मन्त्रं दशधा जपेत् ॥ ञ ॥

मालती कुन्दपुष्पाभां

दशबाहुसमायुक्तां

पूर्णचन्द्रनिभेक्षणाम् ।

सर्वालङ्कारभूषिताम् ।

परमोक्षप्रदां नित्यां सदा स्मेरमुखीं पराम् ।

एवं ध्यात्वा टकारं तु तन्मन्त्रं दशधा जपेत् ॥ ८ ॥

२८०

पूर्णचन्द्रनिभां देवीं विकसत्पङ्कजेक्षणाम् । सुन्दरी षोडशभुजां धर्मकामार्थमोक्षदाम् । एवं ध्यात्वा ठकारं तु तन्मन्त्रं दशधा जपेत् ॥ ठ ॥

जपासिन्दूरसङ्काशां वराभयकरां पराम् । त्रिनेत्रां वरदां नित्यां परमोक्षप्रदायिनीम् । एवं ध्यात्वा डकारं तु तन्मन्त्रं दशधा जपेत् ॥ ड ॥ रक्तोत्पलनिभां रम्यां रक्तपङ्कजलोचनाम् । अष्टादशभुजां भीमां महामोक्षप्रदायिनीम् । एवं ध्यात्वा ढकारं तु तन्मन्त्रं दशधा जपेत् ॥ ढ ॥

द्विभुजां वरदां वन्द्यां भक्ताभीष्टप्रदायिनीम् । राजीवलोचनां नित्यां धर्मकामार्थ - मोक्षदाम् ॥ एवं ध्यात्वा णकारं तु तन्मन्त्रं दशधा जपेत् ॥ ण ॥

चतुर्भुजां महाशान्तां महामोक्षप्रदायिनीम् ॥ सदा षोडशवर्षीयां रक्ताम्बरधरां पराम् ॥ नानालङ्कारभूषां वा सर्वसिद्धिप्रदायिनीम् । एवं ध्यात्वा तकारं तु तन्मन्त्रं दशधा जपेत् ॥ त ॥

नीलवर्णां त्रिनयनां षड्भुजां वरदां पराम् । पीतवस्त्रपरीधानां सदा सिद्धिप्रदायिनीम् ॥ एवं ध्यात्वा थकारं तु तन्मन्त्रं दशधा जपेत् ॥ थ ॥

चतुर्भुजां पीतवस्त्रां नवयौवन-संस्थिताम् । अनेक - रत्नघटित-हारनूपुर - शोभिताम्

1

एवं ध्यात्वा दकारं तु तन्मन्त्रं दशधा जपेत् ॥ द ॥

षड्भुजां मेघवर्णां च रक्ताम्बरधरां पराम् । वरदां शुभदां रम्यां चतुर्वर्गप्रदायिनीम् ॥ एवं ध्यात्वा धकारं तन्मन्त्रं दशधा जपेत् ॥ ध ॥ दलिताञ्जनवर्णाभां ललज्जिह्वां सुलोचनाम् । चतुर्भुजां चकोराक्षीं चारुचन्दनचर्चिताम् ॥ कृष्णाम्बरपरीधानामीषद्धास्यमुखीं सदा ।

एवं ध्यात्वा नकारं तु तन्मन्त्रं दशधा जपेत् ॥ न ॥

वर्णोद्वारतन्त्रोक्त मातृकाओं को ध्यान-सम्बन्धी आकृतियाँ

विचित्रवसनां देवी द्विभुजां पङ्कजेक्षणाम् । रक्तचन्दनलिप्ताङ्गीं पद्ममालाविभूषिताम् ॥ मणिरत्नादिकेयूरहा र केयूरविग्रहाम्

I

चतुर्वर्गप्रदां नित्यां नित्यानन्दमयीं पराम् ॥ एवं ध्यात्वा पकारं तु तन्मन्त्रं दशधा जपेत् ॥प ॥

प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् । भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् । एवं ध्यात्वा फकारं तु तन्मन्त्रं दशधा जपेत् ॥ फ ॥ नीलवर्णां त्रिनयनां नीलम्बरधरां पराम् । नागहारोज्ज्वलां देवीं द्विभुजां पद्मलोचनाम् ॥ एवं ध्यात्वा बकारं तु तन्मन्त्रं दशधा जपेत् ॥ ब ॥ तडित्प्रभां महादेवीं नागकङ्कणशोभिताम् । चतुर्वर्गप्रदां देवीं साधकाभीष्टसिद्धिदाम् ॥ एवं ध्यात्वा भकारं तु तन्मन्त्रं दशधा जपेत् ॥ भ ॥

कृष्णां दशभुजां भीमां, पीयलोहितलोचनाम् । कृष्णाम्बरधरां नित्यां धर्मकामार्थमोक्षदाम् ॥ एवं ध्यात्वा मकारं तु तन्मन्त्रं दशधा जपेत् ॥ म ॥

धूमवर्णा महारौद्री षड्भुजां रक्तलोचनाम् । रक्ताम्बरपरीधानां नानालङ्कार भूषिताम् । महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम् ॥ एवं ध्यात्वा यकारं तु तन्मन्त्रं दशधा जपेत् ॥ य ॥

ललज्जिह्वां महारौद्री रक्तास्यां रक्तलोचनाम् ।

रक्तवर्णामष्टभुजां

रक्तपुष्पोपशोभिताम् ।

रक्तमाल्याम्बरधरां रक्तालङ्कारभूषिताम् ॥ महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिकाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥ २ ॥

चतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम् । सर्वदा वरदां भीमां सर्वालङ्कारभूषिताम् ॥ योगोन्द्रसेवितां नित्यां योगिनीं योगरूपिणीम् ।

२८१

२८२

चतुर्वर्गप्रदां देवीं नागहारोपशोभिताम् ।

एवं ध्यात्वा लकारं तु तन्मन्त्रं दशधा जपेत् ॥ ल ॥

तु

कुन्दपुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम् । शुल्कमाल्याम्बरधरां रत्नहारोज्ज्वलां पराम् ॥ साधकाभीष्टदां सिद्धां सिद्धिदां सिद्धसेविताम् । एवं ध्यात्वा वकारं तु तन्मन्त्रं दशधा जपेत् ॥ व ॥ चतुर्भुजां चकोराक्षी चारुचन्दनचचिताम् । शुक्लवर्णां त्रिनयनां वरदां च शुचिस्मिताम् ॥ रत्नालङ्कारभूषाढ्यां श्वेतमाल्योपशोभिताम् । देववृन्दैरभिवन्द्यां सेवितां मोक्षकाङ्क्षिभिः ॥ एवं ध्यात्वा शकारं तु तन्मन्त्रं दशधा जपेत् ॥ श ॥ शुक्लाम्बरां शुक्लवर्णां द्विभुजां रक्तलोचनाम् । श्वेतचन्दनलिप्ताङ्गी मुक्ताहारोपशोभिताम् ॥ गन्धर्वगीयमानाञ्च सदानन्दमयीं पराम् । अष्टसिद्धिप्रदां नित्यां भक्तानन्दविवर्द्धिनीम् । एवं ध्यात्वा षकारं तु तन्मन्त्रं दशधा जपेत् ॥ ष ॥

करीषभूषिताङ्गी च साट्टहासां दिगम्बरीम् । अस्थिमाल्यामष्टभुजां वरदामम्बुजेक्षणाम् । नागेन्द्रहारभूषाढ्यां जटामुकुटमण्डिताम् ॥ सर्वसिद्धिप्रदां नित्यां धर्मकामार्थमोक्षदाम् । एवं ध्यात्वा सकारं तु तन्मन्त्रं दशधा जपेत् ॥ स ॥ चतुर्भुजां रक्तवर्णां शुक्लाम्बरविभूषिताम् । रत्नालङ्कारसंयुक्तां वरदां पद्मलोचनाम् ॥ ईषद्धास्यमुखीं लोलां रक्तचन्दनचर्चिताम् । `चतुर्वर्गप्रदां सौम्यां मनोहराम् । गन्धर्वसिद्धदेवाद्यैर्ध्यातामाद्यां सुरेश्वरीम् ।

एवं ध्यात्वां हकारं तु तन्मन्त्रं दशधा जपेत् । ह ॥

४ मात्रिकाओं पर ऐतिहासिक दृष्टि

वैदिक’ साहित्य में मातृका

ऋग्वेद ( १/१०२/४ ) में सोम बनाने के वर्णन में सात माताओं का

उल्लेख है ।

अस्यवामीय सूक्त के -

स॒प्त यु॑ञ्जन्ति॒ि रथमेकचक्र-

मेको अव वहति स॒प्तनामा॑ । २ । इमं रथमध् ये सुप्त तस्थुः स॒प्तच॑क्रं स॒प्त वहन्त्यश्वाः । सप्तस्वसारो अभि सं वन॑न्ते॒ यत्र॒ गवा॒ निहि॑ता स॒प्त नाम॑ । ३ । अक्षरे’ मिमते सप्त वाणीः । ४ ।

इन मन्त्रों में सप्तमातृकाओं का सन्धान करना असङ्गत न होगा ।

स्मृति-पुराणादिकों में मातृका

गोभिलस्मृति (१।११-१२ ) ने १४ मातृकाओं, मार्कण्डेयपुराण (८८1११-

१. श्री पी. वी. काणे ने ‘धर्मशास्त्र के इतिहास’ में लिखा है कि गृह्य- सूत्रों में मातृका की चर्चा नहीं मिलती । किन्तु आगे चलकर नामकरण संस्कार के प्रकरण में वहीं इन्होंने स्वीकार किया है कि हिरण्यकेशि गृह्यसूत्र ने १२ आहुतियों की चर्चा की है जिनमें ४ मातृकाओं को, ४ अनुमति को २ राका को एवं २ सिनीवाली को दी जाती हैं ।

२. गभिलस्मृति, प्रथम प्रपाठक :–

गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ ११ ॥ धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिकास्त्वेता वृद्धो पूज्याश्चतुर्दश ( षोडश ) ॥ १२ ॥

२८४

२० एवं ३३ ) ने मातृगण के नाम से ७ माताओं, मत्स्यपुराण’ (१७९।९-३१) एक सौ से अधिक माता देवियों के नाम गिनाये गये हैं । वराहमिहिर की

सर्वेषु मातरः सगणाधिपाः ।

कर्मादिषु तु सर्वेषु

मातरः

पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ।। १३ ।।

प्रतिमासु च शुभ्रासु लिखित्वा वा पटादिषु । अपि वाऽक्षतपुञ्जेषु नैवेद्यैश्व पृथग्विधैः ॥ १४ ॥ कुडलग्नां वसोर्धारां सप्तधारां घृतेन तु । कारयेत्पञ्चधारां वा नातिनीचां न चोच्छ्रिताम् ।। १५ ।। अनिष्ट्वा तु पितृन् श्राद्ध े न कुर्यात्कर्मवैदिकम् । तत्रापि मातरः पूर्वं पूजनीयाः प्रयत्नतः ।। १६ ।।

१. मत्स्यपुराण १९७ अध्याय :

ऋषय ऊचुः ।

सूत उवाच ।

श्रुतः पद्मोद्भवस्तात विस्तरेण त्वयोदितः । समासाद्भवमाहात्म्यं भैरवस्य विधीयताम् ॥ १ ॥

तस्यापि देवदेवस्य शृणुध्वं कर्म चोत्तमम् । आसीद् दैत्योऽन्धको नाम भिन्नाञ्जनचयोपमः ॥ २ ॥ तपसा महता युक्तो ह्यवध्यस्त्रिदिवौकसाम् । स कदाचिन्महादेवं पार्वत्या सहितं प्रभुम् ॥ ३ ॥ क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे । तस्य युद्ध ं तदा घोरमभवत्सह शम्भुना ॥ ४॥ आवन्त्ये विषये घोरे महाकालवनं प्रति । तस्मिन्युद्धे तदा

रुद्रश्चान्धकेनातिपीडितः ॥ ५ ॥

तु ।। ६ ।।

सुषुवे बाणमत्युग्रं नाम्ना पाशुपतं हि तत् ।

रुद्रबाण विनिर्भेदाद्रुधिरादन्धकस्य

अन्धकाश्च समुत्पन्नाः शतशोऽथ सहस्रशः ।

तेषां विदार्यमाणानां रुधिरादपरे

पुनः ।। ७ ।।

बभूवुरन्धका घोरा व्यप्तमखिलं जगत् ।

एवं मायाविनं दृष्टवा तच देवस्तथान्धकम् ॥ ८ ॥

मातृकाओं पर ऐतिहासिक दृष्टि

२८५

बृहत्संहिता ( ५८/५६ ) में मातृदेवियों की मूर्तियों की ओर सङ्केत है । कृत्य- रत्नाकर ने सात माताओं की मूर्तियों की चर्चा की है। देवी पुराण में मातृका पूजन के प्रसङ्ग में उनके प्रिय पुष्पों के नाम बताये गये हैं ।

पानार्थमन्धकास्रस्य

सोऽसृजन्मातरस्तदा ।

माहेश्वरी तथा ब्राह्मी कौमारी मालिनी तथा ।। ९ ।।

सौपर्णी ह्यथ वायव्या शाक्री वै नैर्ऋता तथा । सौरी सौम्या शिवा दूती चामुण्डा चाथ वारुणी ॥ १० ॥

वाराही नारसिंही च वैष्णवी च चलच्छिखा । शतानन्दा भगानन्दा पिच्छिला भगमालिनी ॥। ११ ॥

बला चातिबला रक्ता सुरभी मुखमण्डिका । मातृनन्दा सुनन्दा च विडाली शकुनी तथा ।। १२ ।।

रेवती च महारक्ता तथैव

जया च विजया चैव जयन्ती

विलपिच्छिका ।

चापराजिता ॥ १३ ॥

काली चैव महाकाली दूती चैव तथैव च ।

सुभगा दुर्भगा चैव कराली नन्दिनी तथा ।। १४ ।।

अदितिश्व दितिश्चैव मारी वै मृत्युरेव च । कर्णमोटी तथा ग्राम्या उलूकी च घटोदरी ।। १५ ।।

कपाली वज्रहस्ता च पिशाची राक्षसी तथा । भुशुण्डी शाङ्करी चण्डा लाङ्गली कुटभी तथा ।। १६ ।।

खेटा सुलोचना धूम्रा एकवीरा करालिनी । विशालदंष्ट्रिणी श्यामा त्रिजटी कुक्कुटी तथा ॥ १७ ॥

वैनायकी च वैताली उन्मत्तोदुम्बरी तथा । सिद्धिश्व लेलिहाना च केकरी गर्दभी तथा ।। १८ ।।

भ्रुकुटी बहुपुत्री च प्रेतयाना बिडम्बिनी । क्रौञ्चा शैलमुखी चैव विनता सुरसा दनुः ।। १९ ।।

उषा रम्भा मेनका च सलिला चित्ररूपिणी ।

स्वाहा स्वधा वषट्कारा धृतिर्ज्येष्ठा कपर्दिनी ॥ २० ॥

-२८६

अभिलेखों में मातृका

विश्ववर्मन् का गंगधार लेख

( मालव सं० ४८० - सन् ४२३-२४ ) –

मातृणाञ्च

प्रमुदितघनात्यर्थनिह्रदिनीनाम् ।

तन्त्रोद्धतप्रबलपवनोद्वर्तिताम्भोनिधीनाम्

माया

विचित्ररूपा च कामरूपा च सङ्गमा ।

मुखे विला मङ्गला च महानासा

कुमारी रोचना भीमा सदाहासा

अलम्बाक्षी कालपर्णी कुम्भकर्णी

महामुखी ॥ २१ ॥

मदोद्धता ।

महासुरी ।। २२ ।।

केशिनी शङ्खिनी लम्बा पिङ्गला लेहितामुखी । घण्टारवाथ दंष्ट्राला रोचना काकजङ्गिका ॥ २३ ॥ गोणिकाsजमुखिका महाग्रीवा महामुखी । उल्कामुखी धूमशिखा कम्पनी परिकम्पिनी ॥ २४ ॥ मोहना कम्पना क्ष्वेला निर्भया बाहुशालिनी । सर्पकर्णी तथैकाक्षी विशोका

ज्योत्स्नामुखी च रभसा निकुम्भा

अविकारा महाचित्रा चन्द्रसेना

अदर्शना हरत्पापा मातङ्गी

नन्दिनी तथा ॥ २५ ॥

रक्तकम्पना ।

मनोरमा ।। २६ ।।

लम्बमेखला ।

अबाला वचना काली प्रमोदा लाङ्गलावती ॥ २७ ॥

चिन्ता चित्तजला कोणा शान्तिकाघविनाशिनी । लम्बस्तनी लम्बसटा विसटा वासचूर्णिनी ॥ २८ ॥

स्खलन्ती दीर्घकेशी च सुचिरा सुन्दरी शुभा । अधोमुखी कटुमुखी क्रोधनी च तथाशनी ॥ २९ ॥

कुटुम्बिका मुक्तिका च चन्द्रिका बलमोहिनी । सामान्या हासिनी लम्बा कोविदारी समासवी ॥ ३० ॥ शङ्कुकर्णी महानादा महादेवी महोदरी । हुङ्कारी रुद्रसटा रुद्रेशी भूतडामरी ॥ ३१ ॥ पिण्डजिह्वा चलज्ज्वाला शिवा ज्वालामुखी तथा । एताश्चान्याश्च देवेशः सोऽसृजन्मातरस्तदा ।। ३२ ।।

मातृकाओं पर ऐतिहासिक दृष्टि

‘गतमिदं डाकिनीसम्प्रकीर्णम् ।

वेश्मत्युग्रं नृपतिसचिवो ( 5 ) कारयत्पुण्यहेतोः ॥ २३ ॥

२८७

यहाँ विश्ववर्मा के मन्त्री मयूराक्ष द्वारा बनवाये गये मातृ वेश्म की चर्चा की गई है ।

स्कन्दगुप्त का विहारस्तम्भ लेख-

भद्रार्यया भाति गृहं नवाभ्रनिर्मोकनिर्मुक्त

स्कन्दप्रधानैर्भुवि मातृभिश्च

लोकान्स सुष्य

॥ ९ ॥

संस्कृत-साहित्य में मातृका

मृच्छकटिक, अङ्क १ :-

‘11 2 11

चारुदत्त :- तद्वयस्य । कृतो मया गृहदेवताभ्यो बलिः । गच्छ, त्वमपि चतुष्पथे मातृभ्यो बलिमुपहर ।

कादम्बरी, अनुच्छेद ६४ :-

अभिनव लिखितमातृपटपूजाव्यग्रधात्रीजनम् ।

प्रस्तरकला में मातृका

दक्षिण में इलोरा की गुहा में सप्तमातृका की सुन्दर मूर्तियाँ हैं । मथुरा तथा काशी- कला भवन में भी इनकी मूर्तियाँ सुरक्षित हैं ।

जबलपुर से बारह

मील पर भेड़ाघाट नामक नर्मदा का प्रपात है । वहाँ संगमर्मर की चट्टानों पर गौरीशङ्कर जी के मन्दिर में चौसठ योगिनियों की मूर्तियाँ हैं इन्हें चौसठ वर्ण मातृका समझना अनुचित न होगा ।

ओङ्कारेश्वर से तीन मील पूर्व नर्मदा के तट पर एक शक्तिपीठ है । यह स्थान सातमात्रा के नाम से कहा जाता है । इसका शुद्ध नाम सप्तमातृका है । यहाँ ब्राह्मी आदि सात मातृकाओं के मन्दिर हैं ।

मोहनजोदड़ो के उत्खनन में माता- देवियों की आकृतियों की उपलब्धि की बात सर जॉन मार्शल के एतद्विषयक ग्रन्थों ( जि० १, पृष्ठ ७ एवं ४९-५२ तथा चित्र १२, ५४ और ५५ ) से ज्ञात होती है ।

कादम्बरी के अनुच्छेद ५६ में मातृ-भवन की चर्चा आई है । मातृदेवियों की पूजा के लिए प्रायः प्रत्येक गाँव के पास मातृ-भवन होता था जिसमें अनेक

२८८

मातृदेवियों की मूर्तियाँ स्थापित की जाती थीं । अहिच्छत्रा की खुदाई में एक मातृभवन पाया गया था जिसमें मातृदेवियों की पचासों मूर्तियाँ मिली थीं । - ’ कादम्बरी : एक अध्ययन’ ।

यज्ञोपवीत तथा विवाह संस्कार में आज भी दीवाल पर मातृकाओं की स्थापना की जाती है जिसे ‘माई थापना’ कहते हैं । संस्कार के अनन्तर मातृ- काओं का विसर्जन भी निकटस्थ सरोवर में किया जाता है ।