तन्त्रायिणे नमः ।
( यजुर्वेद )
जयति स्वपरिस्पन्दानन्दान्दोलन लीलया ।
मन्त्रतत्त्वं त्रितत्त्वात्म तन्त्रयन्नेत्रमैश्वरम् ॥
( क्षेमराज )
अविगीता च प्रसिद्धिरागमः । ( अभिनवगुप्त )
न विद्या मातृकापरा ।
( स्वच्छन्दतन्त्र )
ध्यायेल् लिपितरोर् मूले
देवीं तन्मयपङ्कजे वदन्ति सुधियो वृक्षं
नित्यं वर्णमयं शुभम् ॥
परसंविन्महाबीजं
बिन्दुनादमहाशिकम् ।
पृथिव्यक्ष रशाखाभिः सर्वाशासु विजृम्भितम् ॥ सलिलाक्षरपत्रैः स्वैः सञ्छादितजगत्त्रयम् ।
वह्निवर्णाङ्कुरैर्दीप्तं रत्नैरिव सुरद्रुमम् ॥ मरुद्वर्णलसत्पुष्पैर्द्योतयन्तं वपुः श्रियम् ।
आकाशार्णफलैर्न श्रं सर्वभूताश्रयं परम् ॥ परामृताख्यमधुभिः सिञ्चन्तं परमेश्वरीम् ।
वेदागमादिभिः क्लृप्तसमुन्नतिमनोहरम् ॥ शिवशक्तिमयं साक्षाच्छायाश्रितजगत्त्रयम् ।
एनमाश्रित्य मुनयः सर्वान्कामानवाप्नुयुः ॥
( शारदातिलकतन्त्र )