गङ्गाया गरिमाणं मौलिमुकुटसङ्घटितगिरिश्रेष्ठम् ।
गुरुणादरेण
बिभ्रद्विलसत्यत्रोत्तरो देशः ।। १ ।।
यत्रास्ते वैसवारावनिरखिलगुणखनिय जनिर्जित्वराणा-
माराद्वाराप्रसाराभिगतशत महारातिमारान्तकानाम् ।
विसरद सिलतोद्यद्यश: सौरभाणां,
श्रीवेनीमाधवानां
जृम्भन्तेऽद्यापि येषां रणरमणकथाश्चारु-रानाभिधानाम् ।। २ ।।
यस्याङ्के शोभते ग्राम: श्री सुमेरुपुराभिधः ।
पूर्वाञ्चले सदानीरा भाति लोननदी मुदा ॥ ३ ॥
दक्षिणस्यां च खरही पलाशवनसंवृता ।
प्रतीच्यां वहती चैव वर्षान्मदकलेवरा ॥ ४ ॥
वशिष्ठस्य गणे जात
उपमन्युर्महायशाः । गोत्रप्रवर्तकः कश्चिदासीच्छ्वोत्तमो महान् ॥ ५ ॥ वशिष्ठ इन्द्रप्रमदो महर्षिश्व भरद्वसुः । अस्यैते पूर्वजा आसन् प्रवरा ऋषयस्त्रयः ॥ ६ ॥ तस्योपमन्योर्महतो गोत्रे जातो नरर्षभः । आसीत्प्रभाकरः श्रीमानस्माकं कोऽपि पूर्वजः ।। ७ ।। यद्विषये वंशजस्यैव कस्यचित्सूक्तिरीयते-
‘न दक्षिणाशाप्यवलम्बिता क्वचित्
कृतोऽमुना नैव कदाप्यधः करः । तथापि लक्ष्मी सुहृदे समर्पयन्
प्रभाकरोऽभूदपरः प्रभाकरः ॥’
तस्यावस्थीत्यन्ववाय: प्रसिद्धो,
विद्यावृद्धः कान्यकुब्जद्विजेषु ।
उन्नावाख्ये मण्डले ग्रामउक्ते,
तस्मिन्वंशे सम्प्रसूतोऽहमस्मि ॥ ८ ॥
चन्द्रमती यस्याम्बा रामकुमारो भिषग्वरस्तातः ।
आवसथिककुलशैलः सततं प्राभाकरो जयति ।। ९ ।।२९६
साहित्ये कृतधीरधीतिनिपुणैरन्तेवसद्भिः सदा । संवीतो नवनीतिकौशलजुषी यस्याभवच्छेमुषी ॥ गीतागानचणः पितृव्यचरणो जैरामसंज्ञः सुधीः । वैदुष्यं हि वितीर्य मे सुरगिरो मामञ्जसान्वग्रहीत् ॥ १० ॥ श्रुत्यन्ते प्रथिता मतिः स्मृतिपुराणादौ च पूर्णा गति- यस्याभूद्रघुवंश इत्यभिधया ख्यातः पितृव्यो गुरुः । संसत्सु प्रतिवादिवृन्दविभदीकारप्रकारे पटु- मुम्बाया नगरे वसविधिया लेभेऽवदातं यशः ।। ११ ।। अष्टाध्यायी हि यस्याः स्मृतिसरणिमिता या क्रमव्युत्क्रमेण, तस्या अङ्के स्वतातस्वसुरखिलमहो शैशवं येन नीतम् । कौमुद्याः फक्किकासु प्रणिहितहृदयः शेखरप्रोतचित्तः । ब्रह्मानन्दाभिधानः गुरुरपर इहाऽभूद्यस्य धन्यो पितृव्यः ॥ १२ ॥ सूर्यनारायणः शुक्लो वाराणस्यां गुरुर्मम । आसीज्ज्ञानरुचौ सूर्यनारायण इवापरः ॥ १३ ॥ नित्यं रसावसेकाज्जीवनधारां प्रपूरयन्ती या । श्रीरिव गेहे कलिता सा मे ललिता सती भाति ॥ १४ ॥
तत्तिग्मांशोहर कुहरे चेतसालम्ब्य बिम्बं तत्राम्बाया विरचितवता चारु पञ्चोपचारम् । नित्यं सक्तेन हि जपविधौ भूयसा वेदमातु - रन्तर्यागप्रकटविधिनोत्थापिता
नागकन्या ॥ १५ ॥
सिन्दूरारुणतरुणीं तरणीं भवजालजलधिहरीणाम् ।
करुणावीक्षणनिपुणामम्बामविलम्बमालम्बे
॥ १६ ॥