DVG: ऋतं सत्यं धर्मः

स्रोतः - प्रेक्षा-जालक्षेत्रम्

This is a serialized Sanskrit translation of D V Gundappa’s Kannada monograph “Rta Satya Dharma” by Shashi Kiran B N.

॥ ऋतं सत्यं तथा धर्मः॥

१ प्रकृतिः

सामान्यतया वदामः किल वयं लोके “इयमस्माकं प्रकृतिः,” “तत्तस्य नैजम्,” “इदं मे नैजम्” इत्यादीनि वचांसि। कोऽसौ प्रकृतिः? किं नाम नैजम्? आ जनेर्मानवेषु समन्विता भवन्ति केचन पदार्थाः, काश्चन शक्तयो गुणप्रवृत्तयश्च।

मानवेन कथं वेदं वस्तुजातं समासादितम्? येन केनापि विधिनेति वक्तव्यम्—जन्मान्तरेण जातं, वरत्वेन लब्धं, पूर्वकर्मफलरूपेण संप्राप्तं वा। यत्किमपि भवतु नाम। निष्कर्षस्तावदयं यन्मनुष्यस्य जन्मावसर एव तत्तस्य सहजातम्। इदमेव हि तस्य नैजम्। नैजस्यास्य “प्रकृतिः,” “स्वभावः” इत्यादीनि सन्ति नामान्तराणि। कर्मेन्द्रियज्ञानेन्द्रियादयः सर्वेऽवयवास्तदिन्द्रियशक्तयश्च, मनोबुद्धिप्रमुखा अन्तरङ्गशक्तयोऽपि—एकीभूय समवायविधिना मानवप्रकृतिं सर्जयन्ति।

गुणाः

अन्तरङ्ग-बहिरङ्गशक्तीनामेतासां सकलाः खलु क्रिया अधो दत्ते गुणत्रितये कस्मिंश्चिदवश्यमन्तर्भवन्ति –

  • भद्रं, सुन्दरं, मितवेगयुतम् – सत्त्वगुणः,
  • अविशिष्टम्, अनिश्चितं, जवाधिक्यान्वितम् – रजोगुणः,
  • अशुभं, मलीमसं, मन्दम् – तमोगुणः

इमा गुणशक्तयः सर्वेष्वपि मानवेषु विविधप्रमाणेन भवन्ति। प्रमाणवैषम्यमिदं तु स्वाभाविकम्। एवं गुणशक्तयो जन्मजाताः। किं तर्हि मानवेन सस्वतन्त्रं किमपि न कर्तुमुचितम्?

विवेकः

सत्त्वगुणस्य तारतम्यप्रवृत्तयस्तथा विवेकरूपिण्यो मनोबुद्धयः सर्वेषु भवन्त्येव। किं च सन्दर्भानुसारं ताः प्रवृत्तय उच्चावचतां भजन्ते। कदाचिदुकृष्टाः, कदाचिच्च निकृष्टाः। सिद्धान्तस् तावदस्ति यद् विवेक-शक्तेर् उत्कर्षस्थितिर् एव प्रगतिपथपाथेयभूता सर्वाभ्युदयसहकारिणी। इदमेव हि सत्त्वबीजम् इति निगद्यते।

अपि को नाम लोक-जीवने मानवस्य नितरां श्रेयस्करः? उच्यते। स्वकीयो विवेकः। न कस्मिन्नपि जने विवेकोऽयमसिद्ध इति वक्तुं शक्यम्। मनाङ्मात्रमपि वा सर्वेष्वयं दरीदृश्यते। विवेकस्यास्य संवर्धनाय सर्वैरपि लोकैः सावधानं यतनीयम्। विवेकप्रबलीकरणविधावस्मिन्मानवः किल स्वतन्त्राधिकारी। अयमेव हि प्रकल्पस्तस्य प्रकाशावकाशः। उदिते सति विवेकविवस्वति श्रेयःप्रत्युषसि भव्योज्ज्वलगभस्तयः सर्वत्र विकिरन्ति।

अत्रायं सङ्क्षेपः— ऋतश्रद्धया सत्यनिष्ठया चास्माभिः स्वात्म-सूर्योदय-प्रभाम् अक्षि-लक्ष्यी-कर्तुं शक्यते। नान्यथा सर्वथापि।

२ भगवान्

भगवान् ननु चैतन्यात्मको जगदीश्वरः1

भगवत्तत्त्वप्रत्यभिज्ञानाय सन्ति नैके मार्गाः। तल्-लक्षणानि च बहूनि द्योतन्ते। परं न केनापि लक्षणेन भगवत्तत्त्वं कार्त्स्न्येन प्रकटितम्। अगणितगुणगणघने खलु भगवति भवन्ति सर्वे गुणाः। एतेषु कदाचन परस्परवैरुद्ध्यमपि दृश्येत। गुणेष्व् एतेषु पुनर् अस्मदिष्टा अपि राजन्ते, यानेव वयं प्रत्येकतया सविशेषं व्यवहरामः—

  • सत्—अस्तित्वम्,
  • चित्—ज्ञानम्,
  • आनन्दः—सन्तोषः

अस्तित्वम्

अस्तित्वमेव हि सर्वप्रथमम्। यदा किमपि वस्तु सद्भावं भजते, तदैव ननु तद्विषये जिज्ञासापि प्रवर्तते। न हि कदाप्यसद्वस्तुमीमांसा केनापि क्रियते। कश्चनास्यां दिशि प्रसरेद्यदि प्रयत्नस्तस्य भृशं विपिनविलपितायते। सच्छब्देनात्र सार्वकालिकं सार्वदेशिकं च केवलास्तित्वं विवक्षितम्।

आस्तिक्यम्

अस्तित्वेनैव हि “आस्तिक्यम्” उत्पद्यते समूह्यते च। आस्तिक्यं नामास्तित्वस्य नितान्तमङ्गीकरणम्। तदेव भगवदङ्गीकरणम्। अस्तिभावाधिगतं किमपि साधु भवेदसाधु भवेद्युभयथाप्यथवा। परं तस्यास्तित्वं न केनापि प्रतिषेद्धुम् अलम्। अपि च तद्वस्तु सर्वशक्तमिति साधारणो लोकवादः।

इदमपि सत्यं खलु यत्तस्य संमुखीकरणाय सर्वे मानवाः प्रयतन्ते। सर्वशक्तस्य तस्य प्रसादनेनास्मकं मनोऽभीष्टं फलेग्रहि भवतीति भावना तु सर्वेषामपि लोकानां मनस्सु जायते। नैसर्गिकी चेयं भावना कस्यापि दाक्षिण्येन प्रचोदनेन वा नोत्पद्यते। तेनैव हेतुना भावनेयम् ऋतात्मिका।

ऋतं सत्यम्

ऋतं हि श्रद्धासंपन्नम्। ऋतेन— भगवानस्ति, सः सर्वशक्तः सर्वोदारश्च —इति श्रद्धा जागर्ति। स्वातन्त्र्यमविहाय मनसा सर्वप्रथमं क्रियते यत्कर्म तद् ऋतमिति गीयते।+++(5)+++ तदुत्तरम् अन्यानि बहिर् भूतप्रमाणानि तं द्रढयन्ति समर्थयन्ति च। “सत्यं” नामेदमेव समर्थनप्रमाणम्।

अनेन हि ज्ञायते यदृतस्य सत्यस्य च संमेलनेन श्रद्धा सुस्थिरा भवति, चारित्र्यं च निश्चयत्वम् अधिरोहति। ऋतं नाम नैजप्रवृत्तिः स्वभावाभिव्यक्तिश्च। “ॠ—गतौ” इत्यनेन धातुना शब्दोऽयं निष्पद्यते।

मनुष्यजीवने प्रतिदिनमपि प्रतिनवप्रसङ्गा अभिनवसंनिवेशाश्च प्रादुर्भूय चिरनूतनप्रश्नानुत्थापयन्ति। प्रश्नस्येदृशस्य मानवमनसा कथमुत्तरं दीयते? तदुत्तरस्य किं प्रमाणम्? कः प्रवर्तयिता? का तर्कसरणिः? न खलु विज्ञायते; यतो हि नास्त्येव किमपि चोदनम्। प्रोत्साहनिरपेक्षेयं मूलप्रतिक्रिया मनुष्यस्य “ऋतम्”।

अन्तरङ्गाभिव्यक्तिरूपं तावद् ऋतं बहिरङ्गप्रमाणैः सह प्रतोल्य कञ्चन निश्चयात्मकं तत्त्वं मानवो निर्मिमीते। तस्याभिधानं “सत्यम्” इति।+++(5)+++ ऋतमेव हि सत्यवृक्षस्यादिमूलम्। लोकसम्पर्कवशादृतं किल परिवर्तनमवाप्य सत्यात्मना प्रतिफलति।+++(5)+++ अस्मज्जीवनाचरणाय परमावश्यकज्ञानसम्पदि सत्यमग्रताम्बूलमर्हति। ऋतं सत्यस्य मूलम्।

एवम् ऋतसत्ये श्रद्धाजीवातुभूते। ऋतसत्ययोरसम्मतं कथनं कर्म च सर्वथा मृषाकल्पम्, अलीकं, मिथ्यात्मकं च। असत्यमनुगच्छत्सर्वञ्च मिथ्यायते। असत्येन च ध्रुवं विनाशः। अनेनैव हेतुना—“सत्यान्नास्ति परो धर्मः” इति स्मरणियं चिरन्तनवचनम्।

सत्यस्य मूलस्वरूपम् ऋतम्। ऋतान् नन्नु सत्यम्। अतो हि सत्यं नाम ऋतस्य समृद्धा दशा।+++(4)+++

३ नियतिः

सृष्टेर् नैकविकाराकार-नेपथ्ये कश्चन निर्विकार्यो नियमः क्रमो वा जागर्तीति श्रद्धा तु श्रुतिषु वैदिकसंस्कृतिसुप्रभातादपि दरीदृश्यते। भगवतश् चित्रभानोर् उदयास्तेषु, सुधासूतेर् वृद्धिक्षयेषु, ऋतूनां पर्यायपातिषु गतिषु च क्लृप्तिः काचन नियतिः कापि च दृश्यत इति महर्षीणामपरोक्षमासीत्। तथैव जीवराशीनामभिवृद्धिक्रमे काचिद्व्यवस्था तेषां लोचनगोचरासीत्।

सृष्टिसन्तानक्रमे कश्चन वंशवाहिनियमः परिपाल्यत इति साक्षात्कृतवेदानामुपज्ञा। यथा घासाद्घासः, वृक्षाद्वृक्षः, वीरुधो वीरुत्, नरान्नरः, मृगान्मृगः। न तु व्युत्क्रमो यथा नरात्तरुः, मृगात्खगो वा।

एवमेव पाञ्चभौतिकव्यवस्थायामपि काचित्कार्यकारणनियतिरस्तीति तेषां मनीषा। प्रत्येकस्य भूतस्यापि निर्दिष्टं किञ्चन कर्तव्यमस्ति। नात्रापि क्रमातिक्रमः। न तोयं दहति, नाशुशुक्षणिः शिशिरयति, न सदागतिरचलस्तिष्ठति, नापि स्थिरा प्रचलति।

एवं चराचरजगतः स्थितिगतिषु भासमाना व्यवस्था वेदेषु “ऋत”संज्ञया व्यपदिष्टेति भाव्यम्।+++(4)+++ ऋतं नाम जगतोऽस्य नानाव्यापारव्यवहारेषु निलीनो निर्दिष्टोऽपरिहार्यो निष्प्रत्याम्नायः कारणकार्यानुबन्धः। उप्तमेव कृषिफलं, पक्वमेव भोजनम्। ईदृशः कार्यकारणसम्बन्धः—ईदृशमेव सान्तत्यम्—ऋतम्।

आत्मा

सर्वस्मिन्नपि वस्तुन्यात्मेति किञ्चिद्द्रव्यमन्तर्भूतमिति ननु वैदिकानां परमं मतम्। अत्मा त्व् अहमहमिति स्पन्दमानो जीवमूलविशेषः। अस्मिन्नात्मवस्तुनि सच्चिदानन्दा इति गुणास्त्रयः स्वयमेव समुल्लसन्ति। आत्मनो गुणा एते परमात्मनि च प्रभवन्ति।

ऋतं चित्स्फुरणम्

अत्र चिद् इति व्यपदिष्टा चैतन्य-शक्तिः समस्त-लोक-व्यवहाराणाम् आदिकारणम्। अस्य चिदंशस्य स्वतःस्फुरणमेव ऋतम्।+++(5)+++ अतो हि ऋतम् आत्मनः स्वनिर्मितं स्वतश्चलनम्।

ऋतस्यास्य संवित्-सम्भूता सत्य-प्रतीतिः। यत्तु सर्वकालेषु सर्वावस्थासु च निरपवादम् इवैकरूप्यं भजते तद् ऋतम्। तस्माद् एव नान्यप्रेरणापेक्षं, नान्यनिर्बन्धसापेक्षं, स्वतोवृत्त्या वर्तमानं शीलम् ऋतम्। तदेव किल नैजं सहजं वेति निगदितम्। एतदेव प्राणिनां समस्तव्यापारवर्तनमूलभूतम्। वृक्षाय बीजमिव प्राणिने ऋतम्। प्राणिनां गुणशक्तिसर्वस्वमपि ऋते निक्षिप्तमित्यलम्।

सत्यम्

एवं ऋतस्य सर्वकालविद्यमानत्वात् तत् सत्यम् इत्यपि निगद्यते। सत्यं नामास्तित्वसामर्थ्यवत्वम्। तन्नाम देशकालभेदपरिणामराहित्यम्। “अस्—भुवि” इति धात्वर्थानुसारं यस्य विद्यते सन्ततास्तित्वं तत्सत्यम्। यथास्तित्वमात्रमपि सत्यमिति व्यपदिश्यते, तथैव तस्य प्रामाणिकं वर्णनमपि तयैव संज्ञया व्यवह्रियते। यथास्थितं यथार्थत्वमपि भजते। अयमत्र निष्कर्षः—

ऋतस्य वाग्रूपं सत्यं, सत्यस्य क्रियारूपं धर्मः।+++(5)+++

धर्मः

धर्मो नाम यस्य कस्यापि वस्तुनो धारण-गुणो रक्षण-लक्षणं च।+++(5)+++ अतो हि धर्म एव तत्तद्वस्तुनः परमार्थं तत्-त्वम् (तत्+त्वम्)। वदने लालाजलचोदनं लवणस्य धर्मः, स्पृष्टस्य निखिलस्यापि दहनं धनञ्जयस्य धर्मः, तृणचरणं गवां धर्मः, मांसभक्षणं तु द्वीपिनो धर्मः, विपुलाङ्गचेष्टा मर्कटस्य धर्मः, गाम्भीर्यं कण्ठीरवस्य धर्मः। एवमेव मनुष्येष्वपि प्रत्येकस्य वंशस्य प्रत्येकः कश्चन लक्षणविशेषश् चकास्ति। प्रत्येकस्यापि नरस्य प्रत्येको विशेषधर्मः

अन्यप्राणिनामिव मनुष्याणां धर्मनिर्णयो न सुकरः। यतो हि मानवानां मतिः सकलप्राणिनां मनसोऽपेक्षया शक्तिमती स्वातन्त्र्याधिक्यवती च। सा तु स्वयमेव नैकानि रूपाणि धत्ते। तस्मात्तत्र धर्मसाङ्कर्यं सुतरां सुलभम्।+++(4)+++ अस्मात् साङ्कर्याद्विमोचनमेव मनुष्याणामाद्यकर्तव्यम्। इदमेव हि भगवद्गीतादिशास्त्रेषु निरूपितस्य स्वधर्मोपदेशस्य नेपथ्यम्।+++(5)+++

एवम् ऋतं, सत्यं, धर्म इति त्रीण्यपि तत्त्वानि परमार्थतः परस्परं सम्बद्धानि।+++(5)+++ भारतीयेषु धर्म इति शब्दस्तेन ध्वन्यमानभावश्च यावत् प्राचुर्यमधिवसति न तावदन्येषु राष्ट्रेषु प्रसृत इति दृष्टचरः। सनातनभारतीयानां जीवननीतिसर्वस्वसङ्ग्रहभूतः खल्वनन्यशब्दो धर्मः। अस्य धर्मस्य परमाधिष्ठानम् ऋतम्।+++(5)+++

ऋतं सत्यं तथा धर्मः — अर्थच्छायाः

४ ऋते अर्थच्छायाः

ऋततत्त्वे त्रिचतुरर्थच्छायाविच्छित्तयः सन्तीव भान्ति—

  • जगति विद्यमानः कश्चन क्रमो काचन व्यवस्था वा।
  • अवश्यम्भावी कर्म-फलसम्बन्धः, ऋणि-ऋणसम्बन्धश्च। यतो हि कारणे सति कार्यं भवितव्यमेव; यथा मूले सत्यङ्कुरास्तित्वम्। सति कर्मशेषे शुभाशुभप्राप्तिसम्भावनेव च।
  • स्वभावविकासः— सर्वेषु जीविषु सर्वेष्वपि च भूतेषु कश्चन गुणसञ्चयो गर्भीकृतः। स एव तस्य नैजो धर्मः। अनादिरसौ नैजधर्मस् तु जीवस्य जन्मान्तर-सरण्यां प्राप्त-परिणाम-विपरिणामो जागर्ति। अस्य वृद्धिः पादपस्येव नैसर्गिकी। वृक्षस्यैकस्य तद्-उत्पन्नस्य चान्यस्य गात्रे वा विटप-रूपे वा पत्र-सङ्ख्यास्व् अपि वा वैसदृश्याणि स्युः। किं च तयोः काष्ठमज्जानाम् अन्तारचनासु, फलपुष्पाणां रुचिरागेषु दृश्यते किलैकरूप्यम्। एवम् एव हि नराणां नैजम्। नैकेषु गौणांशेषु पार्थक्यं भजेत्, परं मुख्यांशे तन् न व्यभिचरति। नरस्य जीवनक्रमो वा धर्मस् तस्य हितकारी भवेद् यदि क्रमो ऽसौ तस्य जीवस्य नैजानुसारी भवेद् इति प्रथमः कल्पः। स्वभावविरुद्धो यः कोऽपि क्रमो वा नियमो न कदाचन प्रयोगसाध्यः। अत एव नैव सः प्रयोजनकरः। अनुसृत-कायावयव-रूपः कवच इव धर्मस् तु सर्वथा हितकृद् भवति। तथैव धर्मिणो योग्यतानुसारं क्लृप्तो धर्म-नियमः सुकरतया प्रयात्य् अनुष्ठेयताम्। एवम् ऋततत्त्वानुसारीणि खलु धर्मशास्त्राणि।
  • पुण्यकर्म — इज्याराधनादीनि तथा तत्साधनभूतानि द्रव्याणि पवित्राणि सर्वाण्यपि ऋतशब्देन व्यपदिष्टानीति परम्पराप्रसिद्धमेव।

५ ऋतार्थान्तराणि

“ऋत”शब्दस्य सन्त्यन्येऽपि चार्था यथा—

(१) यज्ञः, (२) उञ्छवृत्तिः (वनेषु वा केदारेषु स्वयं पतितानां धान्यानां सङ्ग्रहेण स्वाहारसिद्धिः), (३) जलम्, (४) सूर्यः, (५) विष्णुः, (६) रुद्रः, (७) ऋषिप्रभेदः।

परस्परनिष्पन्नाः खल्वर्था अमी। किं तु ऋत-शब्दस्य चिरन्तनार्थः स्वाभाविक-सङ्गतिर् अथवा सत्य-बीजम् इति, तथा च स्वाभाविक-सङ्गत्याः परिणामः कर्म-फल-नियमो वेति प्रतिभाति।

६ ऋतसत्य-सम्बन्धः

यद्यपि दैनन्दिनेषु सन्दर्भेषु नः सामान्यवाचि “सत्य”पदप्रयोगापेक्षया “ऋत”शब्दव्यवहारः क्वाचित्कतया भाति, तथापि “असत्य”पर्यायत्वेन “अनृतम्” इति पदं परं प्रचुरम्। ऋतेतरम् अनृतं ननु। श्रुतिषु ऋतं सत्यं चेति पदे परस्पर-संवाद-रूपेण — सति भिन्नार्थकत्वेऽपि परिपूरकत्वेन— युगपत्प्रयुक्ते। यथा—

“ऋतं वदिष्यामि सत्यं वदिष्यामि।”
“ऋतं तपः सत्यं तपः।”
“ऋतं सत्यं परं ब्रह्म।”
“ऋतं त्वा सत्येन परिषिञ्चामि।”

तर्हि ऋतसत्ययोर्मध्ये विद्यमानोऽर्थभेदः कः कीदृशो वा? अत्र भगवान् भाष्यकारः श्रीशङ्कराचार्य एवम् अभिप्रयति—

“ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितम् अर्थं … सत्यमिति स एव वाक्कायाभ्यां सम्पाद्यमानः …।”+++(5)+++

आचार्य-सायणस्य व्याख्यानम् ईदृशं श्रूयते—

“ऋतं मनसा यथार्थवस्तुचिन्तनम्। सत्यं वाचा यथार्थभाषणम्।”
“सत्यम् अबाध्यम्। सत्यत्वं च द्विविधं व्यावहारिकं पारमार्थिकं च। हिरण्य-गर्भ-रूपं व्यावहारिकं सत्यम्। तन्-निराकरणेन पारमार्थिकं सत्यम्। प्रतिपादयितुं ऋतं सत्यम् इति विशेष्यते। अत्यन्तं सत्यम् इत्यर्थः।”

पुनश्चान्यत्र सायणार्य एवं प्रस्तौति—

“विवक्षितस्य विद्यमानार्थस्यादौ मनसा पर्यालोचना ऋतं वदनम्। पश्चाद् वचसोच्चारणं सत्य-वदनमिति तयोर् विवेकः।” +++(5)+++

“ऋत”शब्दः प्रायेण सत्यशब्दादपि प्राचीनः। भगवत्पादशङ्करस्य काल एव “ऋत”पदापेक्षया “सत्य”पदप्रयोग एव प्रचुर इति, “असत्य”शब्दापेक्षया “अनृत”शब्दप्रयोग एव विपुल इति तर्कयितुं कारणमेवं प्रतिभाति— शारीरकभाष्ये तावदाचार्यशङ्करः

“सत्यानृते मिथुनीकृत्य”

इति वाक्यं प्रयुङ्क्ते। अत्रेदमवधेयं यद्यावन्मात्रं भिद्यते ऋतं सत्यात्, तावन्मात्रम् अनृतमसत्यात्। पूर्वोक्ते भाष्यवाक्ये भगवत्पादाः “सत्य”शब्दप्रतियोगित्वेन नासत्यशब्दं प्रयुञ्जाना “अनृत”पदमेव प्रयुञ्जते। अत्रोपनिषदेवं स्यात्— ऋतमिति सत्यस्य प्रथमावस्था। सत्यमिति ऋतस्य द्वितीयावस्था। अतो हि “अनृत”मिति शब्दे न केवलं सत्यस्याभावः परं सत्यमूलस्याप्यभाव इति — तन्नाम नितरामसत्यमिति—ध्वन्यते।

सत्यं नाम ऋतस्य व्यवहारार्हता। अनृतं तु सत्यस्य संपूर्णशून्यता।+++(5)+++

पुनश्च भगवत्पादशङ्करैः कठोपनिषद्भाष्ये “ऋतं पिबन्तौ सुकृतस्य लोके” इति मन्त्रभागव्याख्यावसरे “ऋतं सत्यं, अवश्यम्भावित्वात् कर्मफलं पिबन्तौ” इति व्यलेखि।

सायणाचार्यस्तु “ऋतेन मित्रावरुणौ” इति ऋग्वेदमन्त्रस्य विवृतौ “ऋतेनावश्यम्भावितया सत्येन फलेन … ऋतमित्युदकनाम सत्यं वा यज्ञं वा इति यास्कः” इति पठति। पुनश् च “ऋतेन या वृतौ ऋधावृतस्य” इति मन्त्रस्य टीकायां “ऋतेन सत्यवचनेन यजमानानुग्रहकारणम्। ऋतावृधौ । ऋतम् अवश्यम्भावितया सत्यं कर्मफलम्। तस्य वर्धकौ।” इति भणति। अन्यच् च “गोपामृतस्य दीदिविम्” इति मन्त्रस्य विवरणे “ऋतस्य सत्यस्यावश्यम्भाविनः कर्मफलस्य। दीदिविं पौनःपुन्येन भृतं वा द्योतकम्।” इति कथयति।

एवं “ऋत”स्य मूलार्थे न केवलं “सत्य”मिति व्यपदेशः परं कर्मफलवैषयिकः ऋणबन्धनविधिरिति ध्वन्यते। स्वाभाविकः सम्भवस्तथा च तेन हेतुना स्वाभाविकरूपेण फल्यमिति—तन्नाम नैजवस्तु तथा तद्वस्तुनः कार्यं, नैजकृत्यं च तद्भूतं फलमिति—शृङ्खलिकारूपमेव ऋतमिति तात्पर्यम्। अस्माच्छृङ्खलाबन्धाद्विमोचनं दुर्निवार्यमिति हेतुना ऋतं नाम निरुल्लङ्घ्यो नियमः। अतो हि तद्व्रतम्। अत एव सोऽयं धर्मः। एवं परस्परपरिणामपरम्परायां ऋतमेव धर्म इति सिद्धान्तः।

७ ऋतुः, ऋजुः, ऋणम्

अप्यस्ति प्रकरणेऽस्मिन् विवेचनीया शब्दत्रयी। (१) ऋतुः, (२) ऋजुः, (३) ऋणम्। एषां निर्वचनमेवम्—

(१) “ऋतु”शब्दः - “ॠ-गतिप्रापणयोः” इति धातुना निष्पन्नः। यथाकालं यथाक्लृप्तं यश्चलति स ऋतुः।

(२) “ऋजु”शब्दः - “ऋज-गतिस्थानार्जनोपार्जनेषु” इति धातुना निष्पन्नः। सहजगुणानुसारं वर्तनमित्यस्य तात्पर्यम्। इदमेव ऋजुतेति, आर्जवमिति चाभिधीयते। तन्नाम करणत्रये निष्कापट्यं निर्वक्रता च।

(३) “ऋण”शब्दोऽपि “ऋत”शब्द इव “ॠ-गतिप्रापणयोः” इति धातुना निष्पन्नः। ऋणशब्दं माधवीयाधातुवृत्तिः “कालानन्तरदेयविनिमयोपलक्षणार्थम्” इति विवृणोति। मानवेषु परस्परवर्तनेन यद्यन्नैसर्गिकरूपेण फलाफलसम्बन्धित्वाद्भवति तदृणम्। जीव-लोकयोरन्योन्यसम्पर्कात्स्वाभाविक इव य उदेति परिणामपरम्परा सा ऋणमिति कथ्यते।

ऋजुतायाः समानर्थकत्वेन ऋतशब्दः प्रयुज्यते। बहिःप्रभावरहिते सुतरामकृत्रिमे मनसि यद्वस्तु समादृत्य भावनं यत्समुदेति तत्सकलमपि ऋतम्। ईदृशस्य ऋतस्यानुगुणा चर्या ऋतुवृत्तिः। इयमेव ऋजुसरणिरित्यपि गीयते। सर्वमिदं स्वाभाविकतया सम्पन्नम्; अकृतकं, सरलं, नैजं च।

८ संज्ञा-द्वय-प्रयोजनम्

मनसि ऋतमिति विद्यमानं मुखे सत्यत्वेन निस्सार्यमाणं किमपि वैभिन्न्यमाप्नोति वा? यदि न तथा तर्हि कस्मादिव संज्ञाद्वैविध्यगौरवम्?

संज्ञयोरुभयोरङ्गीकृतित्वाद्वेदे तयोरर्थभेदोऽप्यनुमत इति गम्यते। परं तु स भेदः किमर्हति सार्थक्यम्? मनसा वचः किमु भिद्यते? हृदि संस्थितं तत्त्वं किं वदने विपर्यस्यते?

प्रायेणास्मन्मनसि विद्यमानः प्रतिबोधो निजवचसा न विरुद्ध्यते। बहिरङ्गं यद्भाषितं तदन्तरङ्गस्य प्रतिबोधस्य यथावत्प्रतिबिम्बत्वेनैव भाव्यम्। इदमेव हि यथार्थम् आहुः। अनेनैव हि धर्मः। परं त्व् अस्य विपरीता अपि सन्दर्भाः सम्भवन्ति नरजीविते। दशाधिकेषु सन्दर्भेषु सत्सु निजमनसो याथार्थ्यं न्यूनातिरेकं विना प्रायेण सप्ताधिकेष्वेव निरूपयितुं शक्यम्। शिष्टेषु सन्दर्भेषु प्रत्यूहैः सम्भाव्यमेव। तदा निजमनोगतं वाचा रूपयितुं प्राक् परीक्ष्य परिष्कार्यमिति लोकहितदृष्ट्या किल कर्तव्यं भवति। अत्र हेतुश् चतुर्धा—

  • (१) अन्यप्रमाणपरामर्शावश्यकता,
  • (२) भाषापाटवस्य न्यूनातिरेकता,
  • (३) लोकपरिणामचिन्तनकर्तव्यता,
  • (४) बहिःप्रमाणापेक्षता।

अस्मद्-भाषितं सर्वदा लोकव्यवहारहितकृद्भवेत्। इदं तु मूलसूत्रम्। अत एव वक्तरि काचिज्जागरूकता, काचन शोधनबुद्धिः, कापि स्नेहप्रवृत्तिः, सहानुभूतिः काचिदपि वाञ्छिताः।

(१) अन्य-प्रमाण-परामर्शावश्यकता

यः कोऽपि नरो निजमनसि यदालोचनमाविर्भूतमादौ तदेव यथार्थं परिपूर्णं चेति मनुयात्। यतो हि तस्यान्तःकरणे दोषद्वितयसम्भवो न निराकार्यः—

  • (अ) तस्य ज्ञानेन्द्रियाण्यपाटवानि रोगग्रस्तानि वा स्युः। नयनामयसन्त्रस्तस्य क्षीरमपि हारिद्रनीरायते। इदृशा भ्रान्तिप्रमादा मानवबुद्धिसहजा एव। दोषस्यास्य परिमार्जनाय सर्वैरपि स्वानुभवं परानुभवैः सह तुलयित्वा विम्रष्टुं ननु युक्तम्।
  • (आ) सर्वेष्वपि काश्चन पूर्ववासनाः केचन पूर्वाभिनिवेशाश्च हृदयान्तरङ्गे निलीय वर्तन्ते। एते हि रागद्वेषाः। इमे तावदन्तः स्थित्वैव निजदर्शनं कलुषयन्ति। निजबुद्धिगतिं विपथे नयन्ति। अनेनैव निश्चितसञ्चारो विनास्मद्-अवधानं वक्रताम् इयात्। मानसिकप्रमादोऽपि न वैरल्याय। एवमीदृशां वैपरीत्यानां निवारणाय स्वानुभवेन सह परवचःसत्यं तुलयित्वा परिशीलनं परमावश्यकम्। एवमुभयदृष्ट्यापि स्वानुभवं परानुभवेन सहोपमीय शोधनं कार्यम्। अनेन किल शोधनेन प्रथमोदितो निजाभिप्रायः किञ्चिदिव परिष्कारमर्हेत्।

(२) भाषा-पाटवस्य न्यूनातिरेकता

स्वभावेनैव परिमिता ननु वाचो बलम्। अस्मन्मनसि जातानां भावजातानां यथावद्रूपेण परेभ्यः प्रापणाय समुचिता पदसामग्री सन्दर्भेषु बहुषु नास्माकं वशंवदा भवति। चित्तचरितस्य नयसूक्ष्माणां निशितपरामर्शनेन नूनमिदमवगम्यते यद्भाषितं नाम किमपि रुक्षयानमिति। परं तु लोकरूढां वाचं विहाय नान्यदस्ति निजान्तरङ्गाभिव्यक्तिसाधनम्। अस्मद्वागभिव्यक्तिः श्रोतॄणां मनसि निजेङ्गितापेक्षया कामपि नतोन्नतिमवगतिपथे नयतीति दृष्टचरमेव। अत्र हेतवः प्रायेण मनोबुद्धीनामालस्यं, नैसर्गिकी विस्मृतिः, भाषापाण्डित्यमितम्पचता, वचनरचनाचातुरीदुर्विपाकश्चेत्यादयः। ईदृशान्युच्चावचानि सम्भाषणावसरे परमधिकतया सम्भवन्ति। अतो हि ऋतस्य सत्यङ्करणक्रमे यथावत्प्रतिबिम्बनं दुश्शकमिव प्रतिभाति। वाग्रूपे ननु सत्ये मनोगतर्तस्य स्थूलांशा एव प्रतीय सूक्ष्मांशसर्वस्वं तावन्न स्फुटतां भजेत्।

(३) लोक-परिणाम-चिन्तन-कर्तव्यता

वागस्मदीया जगतीहिताय भवेन्न कदाचनान्यथा। ऋतं वदिष्यामीति लोकसन्त्रासनं न धर्माय। कस्मिंश्चिदथ कुले घटितं स्यान्नाम किमप्यवचनीयं कृत्यम्। तत्परिज्ञानानुक्षण एव सत्यप्रचारो विधेय इत्यस्माभिः क्रियते चेज्जगति कोणाघातपुरस्सरं प्रजल्पनं तत्किं हिताय वा ऋताय? अस्मदिष्टजनवर्गे कस्मिंश्चिद्भर्तरि तस्य भार्यायाः सङ्गतिमथवा तस्यां पुनर्जायायां पत्युर्वार्तां क्वचिदहितरूपां निवेदयितुमापतति यदि सन्दर्भस्तर्हि तयोर्दम्पत्योरुचितकारी सुहृत्किं नु वा कुर्यात्? पुरोभागितया किं नु स कथयति निर्मर्यादं निजमनोगतम्? नैव। नूनं नागरकवृत्त्या परुषेतरक्रमेण शिष्टाचारानुरोधेन च वक्तव्यं वक्ति। स तु यथासाध्यं श्रोतृमनःकासारकर्दमीकरणं परिहरति। कस्मिन्नपि कदाचिद्दुःखवार्तानिवेदनभारः सञ्जायते यदि स तु कदम्ब-कोरक+++(=कुड्मल)+++-न्यायेन मन्दमन्दमिव तां दुर्वार्तां प्रकटयन्नन्ततः श्रोतुर्मनसि स्वयं तत्प्रत्यभिज्ञानाय साहाय्यं व्याहरति2

एवं मनःस्फुरितानां विचारजातानां कथनकाले सदैव काचित्सन्दर्भौचिती समनुसन्धेया। प्रत्यहं सर्वोऽपि वक्ता निजवचसां बाह्याभ्यन्तरसमन्वयचिकीर्षुर्भवेत्। न परित्याज्यमान्तरङ्गिकं न वा प्रकोपनीयं बाहिरङ्गिकम्। अन्तःप्रज्ञया प्रच्युतो न भवेद्बहिरपि शुश्रूषुगौरवं न जह्यात्। ऋत-लोकहित्योर्मध्ये सम्भाव्यमन्योन्यविरोधमपनीय कल्पयेदनिशमानुकूल्यम्। इदृशमन्तरङ्ग-बहिरङ्गसमन्वयसंसिद्धं हि ऋतं सत्यात्मना परिणमति।

(४) बहिः-प्रमाणापेक्षता

सम्पूर्णदर्शनार्थं परेषाम् अप्यभिमतानि सङ्ग्राह्याणि समालोच्यानि च। अन्येषामपि कथनीयानि प्रमाणतया यथार्हं सम्भवन्तीति नास्ति विप्रतिपत्तिः। यद्यपि तानि स्वाभिप्रायप्रतिकूलानि भवन्ति तथापि समालोच्यानि खलु। यतस्तत्रापि विद्यत एव प्रामाण्यभावः।

अहङ्काराभिभूतेषु जनेषु न मनागपि परेषां विषये प्रामाण्यबुद्धिर् जागर्ति।+++(4)+++ न ते परेषु प्रज्ञापाटवं पुरस्कुर्वन्ति, हितचिन्तनं सभाजयन्ति, विचारशीलतां समामनन्ति च। किं बहुना शिष्टाचारतयापि ते पराभिप्रायकणिकामपि न सहन्ते। ईदृशी परप्रामाण्योपेक्षा प्रत्यूहायते ऋताभिज्ञानसरणौ। अतो हि यत्नेनेयं परिहार्या।

९ तैत्तिरीयब्राह्मण-निरूपणम्

ऋत-सत्ययोरर्थभेदस्तैत्तिरीयब्राह्मणस्य वचनेनानेन स्पष्टीभवति।

“ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति। सत्यं त्वर्तेन परिषिञ्चामीति प्रातः। अग्निर्वा ऋतम्। असावादित्यः सत्यम्। अग्निमेव तदादित्येन सायं परिषिञ्चति। अग्निनादित्यं प्रातः सः।”

अत्र रजनीदिवसावेकस्यैव कालतत्त्वस्य द्वे मुखे। तावेकाकारेण गृहीत्वा सेवयेदिति तात्पर्यम्। तत्र सायन्तनसवने ध्येयं दैवतमग्निः। अयमेव ऋतस्वरूपी। प्रातःसवने ध्येयं दैवतं त्वादित्यः। अयं तु सत्यस्वरूपी। एवं पावकभास्करौ द्वावपि तेजोमयौ ऋतसत्यसङ्केतौ। किं त्वग्निः काष्ठादिषु विलीनः स्वात्मानं सर्वदा न प्रकटीकुरुते। सूर्यस्तु नैवं निगूढः। एवमेव ऋतं कदाचिदग्निरिव तिरोहितमास्ते।+++(5)+++ तदादौ मनोगतं हृदयस्थं यथार्थग्रहणं ननु। सत्यं तु सूर्य इव सर्वदा प्रकाशमानं मुखस्थं व्यवहारगतं च यथार्थप्रतिपादनम्। मूलरूपेण ऋतसत्ये द्वे अपि एकमेव। केवलमभिव्यञ्जनावधौ भिद्येते।

१० ऋत-सत्ययोः पार्श्वद्वयत्वम्

इह जगति सर्वमपि वस्तुजातं पार्श्वद्वय-समञ्चितम्। कानिचन पार्श्वत्रितयेन चतुष्टयेन वापि सन्दृब्धानि स्युः। किं च सर्वाण्यपि न्यूनातिन्यूनं पार्श्व-द्वय-परिक्लृप्तानीति निश्चप्रचम्। यथा मानवकायस्य पुरतो भागः पृष्ठतो भागश्च। वृक्षस्यापि दलेषु एवं विभागौ सम्भवतः। वस्त्रस्यापि च बाह्याभ्यन्तरविभागः स्फुटः। परमार्थतः पार्श्वद्वयम् अप्येकमेव। तथापि व्यवहारार्थं विभागः क्रियते। अयमेव न्यायः ऋत-सत्ययोर् अपि; तत्त्वत एते एकमेव। अतो हि नामलिङ्गानुशासने “सत्यं तथ्यं ऋतं सम्यगमूनि त्रिषु तद्वति” इति सामानाधिकरण्यमनयोर् उक्तम्। तस्मादृतसत्ये यथार्थतत्त्वस्य पार्श्वद्वितयमित्यङ्गीकार्यम्। अतः श्रुतिराह—

“अग्निर्वा ऋतम्। असावादित्यः सत्यम्।”

लोकजीवनस्य जीवातुभूतं द्रव्यं तापः। तापेन विना किञ्चिदपि न जीवति। तद्यथा—

“योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणान् आदायोदेति; असौ योऽस्तमेति स सर्वेषां …”

न केवलं जीविनः पृथिव्यां परं व्योम्नि भासमाना ग्रहनक्षत्रादयोऽपि सवितुस् तेजसा शक्तिमाप्नुवन्ति। इत्थं सर्वलोकसामान्यः सर्वसाक्षी भगवान् पूषा निखिलतेजसाम् आयतनम्। इयं तु ब्रह्माण्डमण्डलव्यवस्था। किं च पिण्डाण्डमण्डले समस्तजीविनामन्तर्गतश् चकास्ति जठराग्निः।+++(5)+++ अयं वैश्वानरोऽपि जगति तापस्वरूपी। असावपि सूर्य इव सर्व-सामान्यः। परं तु प्रत्येकस्य जीविनोऽपि विशिष्टस्तेषु समुद्भूतस्तानेव परिपाति। इत्थमादित्यः समष्टितापस्वरूपी; अग्निस्तु वैश्वानरत्वेन व्यष्टितापस्वरूपी। तेजसोरनयोः समायोगेन जगद्व्यापारः। तदिदं पूर्वोक्तस्य श्रुतिवाक्यस्य तात्पर्यम्।

“ऋतं त्वा सत्येन परिषिञ्चामि”

इति वा

“सत्यं त्वर्तेन परिषिञ्चामि”

इति वा श्रुति-कथनेन ऋत-सत्ययोः परस्पर-पर्यावरणत्व-पूर्वकं समैक्यं व्यपदिष्टमिति भावः।+++(4)+++

अयमत्र परमार्थः— अस्मद्-अन्तरङ्गे यद् यथेति प्रतीयते तद् बहिरङ्ग-प्रमाण-पुरस्सरं विमृश्य तन्-मनन-जातं सिद्धान्तम् अनुसराम इति।+++(4)+++ एवम् उभय-प्रमाण-परिशुद्धस्य समाचरणम् एव धर्मः।

११ ऋत-सत्य-श्रद्धाः

तैत्तिरीयोपनिषत्सु “ऋतं वदिश्यामि। सत्यं वदिष्यामि।” इति शान्ति-मन्त्रो विद्यते। ततः “तस्य श्रद्धैव शिरः। ऋतं दक्षिणं पक्षः। सत्यम् उत्तरः पक्षः। योग आत्मा।” इत्यपि मन्त्रः श्रूयते।

ऋतं नाम याथार्थ्यम् इति भावः। सत्यम् इत्य् अपि स एवार्थः। याथार्थ्यं नाम कस्यापि विचारस्य वस्तुनो वा यथावद्ग्रहणम्। एकस्यैवार्थस्य निर्देशनार्थम् ऋतं सत्यं चेति वाचक-द्वयप्रयुक्त्या किं वा साधितम्?

अत्र द्विविधमस्ति प्रयोजनम्। ऋतं नाम निजान्तरङ्गे बाह्यप्रेरणनिरपेक्षं स्वयं स्फुरितं याथार्थ्यम्। अस्य तात्पर्यं तावदन्तःस्फुरणं प्रत्यग्-दर्शनं च। इदमेव निजत्वेन नैजत्वेन च व्यपदिश्यते। किं च मानवजीवननिर्वाहार्थं नैतावता पर्याप्तिः। केषुचित्सन्दर्भेषु प्रत्यक्-स्फुरणस्य परमावश्यकता वर्तत एव। अन्यच्च नैकेषु विषयेषु निजाभ्यन्तर्दर्शनं नैव सम्भवति। कृत्स्नमिव बहिर्जगतः कस्यचिदपि कर्मणो वस्तुनो वा प्रत्यभिज्ञानमस्माकं नान्तरङ्गे प्रभवति। तत्र बहिर्-जगतः प्रमाणैः परप्रत्ययैरथवा निजज्ञानेन्द्रियप्रयत्नैः प्रज्ञा सम्पादनीया। एवं बाह्य-प्रपञ्चद्वारा यास्माभिः समासादिता प्रज्ञा सा सत्यस्वरूपिणी।+++(5)+++

अन्तःस्फुरणं बहिःस्फुरणं चेति द्वितयमपि सत्यस्य प्रमाणम्। तयोः परस्परसमर्थनेन वयं निश्शङ्कं व्यवहर्तुं प्रभवामः। एवम् ऋतमित्यन्तरनुभूतं याथार्थ्यं, सत्यमिति बहिःसाधितं याथार्थ्यम्। उभयमपि मानुषव्यवहारार्थमपरिहार्यम्।

यत्किञ्चिदपि कुर्वाणः स्वक्रियासार्थक्यं साधयितुं नरः प्रथमतया तस्मिन् कर्मणि श्रद्धावान् ननु भवेत्। तन्नाम, निजकर्मणा स्वपर-प्रयोजनम् अनुत्तमं यत्किञ्चिद् अपि स्याद् इति मनीषा परमावश्यका। विना ऽनया न मनागपि सिद्ध्यति सत्त्वौन्नत्यम्। अत एव महर्षिभिः श्रद्धा शिर इत्युपमिता—“तस्य श्रद्धैव शिरः”। सति शिरसि भुजयोरपि भवत्यस्तित्वम्। तयोरुपर्येव ननूत्तमाङ्गम्!+++(4)+++ अन्तर्बहिःस्फुरणे एव वामदक्षिणौ भुजौ। अन्तःस्फुरणात्मकं ऋतमेव दक्षिणः पक्षः। तत्पोषकत्वेन बहिःस्फुरणात्मकं सत्यं सव्यः पक्षः। एवं बाहुद्वयसमायोगेन परमार्थप्राप्तिः किल निष्प्रत्यूहा। इत्थं पक्षद्वितयसहकारेण स्थिरीकृता श्रद्धा। अनयैव नरजीवनसार्थक्यम्।

१२ कार्य-कारण-ब्रह्मणी धर्मश् च

अस्मद्-विदितस्य समस्तजगतो व्यक्ताव्यक्तस्य मूलमेकम् एवेति श्रुतीनां मतम्। तन्मूलं ब्रह्मेत्याह भगवान् वेदः। बृहि वृद्धाविति निष्पत्त्यनुसारं ब्रह्मैकमेव सर्वोच्चं सर्वव्यापकं सर्वाङ्गीणं तत्त्वम्। अत एव तत्केवलं चैतन्यं ज्ञानस्वरूपं चेति व्यपदिश्यते। जगन्मूलचैतन्यं कारणं ब्रह्म कर्मब्रह्मतया जगतोऽस्य निर्माणात्प्राक्तदेकमेवाद्वितीयमासीत्।

प्राक्सृष्टेः काल इति कः? कदा? स किंस्वरूपः? इति प्रश्नजातानां नास्त्य् उत्तरम्। तस्मादेव सृष्टिरियमनादिरनन्तेति शास्त्रनिश्चयः।+++(5)+++ अस्य सर्गस्यादिर् नाम नराणां काचित् कल्पना।+++(5)+++ यथा कथोपक्रमे कश्चन कालारम्भो ननु कल्प्यते कथनसौकर्यार्थम्। इह जगति विद्यमानस्य सर्वस्यापि वस्तुन आदिमध्यावसानानि बुद्ध्यन्त एवास्माभिः। इयम् एव पूर्ववासना जगत्सृष्टिविषयेऽपि तावदादिं मध्यमवसानं वा निरीक्ष्यते। सृष्ट्यादिर्नाम न कोऽपि पञ्चाङ्गनिश्चितो मुहूर्तः। सर्वम् इदं सम्भाव्यम् अभ्यूहनम्। एवं कार्य-ब्रह्मणो विचार-फलितम् इदं जगन्-निर्माणम्।+++(4)+++

अतो हि सर्वाण्य् अपि सर्ग-प्रभवाणि व्यवहरेयुर् अङ्गोपाङ्ग-प्रत्यङ्ग-रूपेण समाहित-मनसा खल्व् एकाङ्गस्य जगतः। इयं हि जगद्-व्यवस्था। एकस्माद् अनेके। अनेकेभ्यश् चैकम् इति तत्त्वम्। अस्य कृत्स्नस्य साधकरूपेण स्याद् धर्मः। इदं किल धर्म-तत्त्वं कारणत्वेनैकं कार्यत्वेनानेकम् इति रूपितं जगद्-व्यवस्थायाम्।+++(4)+++

१३ धर्मार्थच्छायाः

धर्मो नाम सत्-सम्पादनक्रिया।+++(4)+++ मनुष्यबुद्धिगोचरेषु सद्-वस्तुषु सर्वोत्कृष्टं खल्वात्मतत्त्वम्। आत्मनः पारमार्थ्यं तु परमात्मेति गीयते। अतो हि परम-सद्-रूपः परमात्मा परम-शाश्वतः परम-मङ्गलश् च। तस्मात्परमात्मानमुद्दिश्य विधीयमानं वर्तनजातमखिलमेव धर्मः।+++(4)+++

“ऋत”शब्द इव “धर्म”शब्देऽपि सन्ति नानार्थच्छायाः।

(१) आत्मगुणसम्पत्तिः— लोकेऽस्मिन् यस्य कस्यापि वस्तुनो यस्माद् इव कारणाद् गण्यता प्राप्ता, स कारणगुणस् तु धर्म इति निश्चीयते।+++(4)+++ योद्धुर् मण्डलाग्रस्य मूल्यं तद्धारा-नैशित्येन, न पुनस् तस्य मुष्टि-घटित-नवरत्न-मणिभिः।+++(4)+++ वैणिकस्य वीणामूल्यं तन्त्रीणां नादेनैव सम्पाद्यते, न तु तत् तुम्बी-दण्ड-मण्डित-सुवर्णालङ्कार-विशेषेण। मनुष्याणाम् अपि विषये युक्तिर् इयम् एव सङ्गच्छते। स्वस्मिन् विद्यमानेन सुगुणेन स्वाभिवृद्धिम् आसाद्य तत्-फलितं लोकजीवन-हिताय विनियोजनम् एव स्वधर्मः। अयं तु सकलेषु नरेषु निरपवादं लगति। तत्तदाश्रमिणस्तत्तद्धर्मपरायणाः स्युः। तत्तद्वृत्तिमन्तो जनास्तत्तद्वैदुष्यभूषिताः स्युः।+++(4)+++ एवं तत्त्दात्मगुणप्राचुर्यमेव धर्मः। इयं हि स्वधर्मप्रशस्तिः।+++(4)+++ एतद्-अर्थम् एव स्वातन्त्र्यं जीवति। जनो यः कोऽपि निजाभ्यन्तरं सत्त्वं तेजश्च नैजधर्मानुगुणं परप्रतिरोधेन विना संवर्ध्य, समुत्कर्ष-पथम् आनेतुं विद्यमानो महावकाश एव व्यक्तिस्वातन्त्र्यत्वेन व्यपदिष्टः। एवं स्वातन्त्र्यस्य नीतिमूलं धर्म-तत्त्वे निलीनम्।+++(4)+++

(२) अन्यगुणगौरवम् — आत्मविकासावसरे निजचर्यया परस्परव्रतभङ्गो यथा न भवति तथा सर्वोऽपि जनः संयमानुष्ठानपरो भवेदिति धर्मसम्भवः।+++(4)+++ एवं स्वधर्मनिष्ठया सह परधर्मगौरवं च वाञ्छितम्। निजव्यक्तियोग्यता परस्य कस्यापि तादृशीं योग्यतां यथा न ह्रसयति—प्रत्युत परिवर्धयति—तथैव सर्वः सर्वं समीक्षेत। यथा सङ्गीतके मृदङ्गनादो वीणामाधुरीं नापकर्षेद्, वेणुनिस्वनः कण्ठस्वरं गायनस्य च न विप्लावयेत्, तथा लोकेऽपि पारस्पारिकः प्रीतिव्यवहारः प्रवर्तयितव्यः। सोऽसौ नियम एव न्याय्यमिति नीतिरिति च प्रतिष्ठितः। अयमेव धर्मस्य सारभूतोंऽशः।+++(4)+++ प्रायेण लोकभाषासु “न्यायः,” “नीतिः,” “धर्मः” चेति पदत्रितयमैकार्थकत्वेन प्रयुक्तम्। तदिदं युक्तमेव। आत्मगुणविकासः परगुणविकासानुकूली किल भवेत्। तदैव तस्य सार्थक्यम्। यथात्मगुणविकासो धर्मस्यैकं मुखम्, आत्मगुणशोधनं संयमनं चापरं मुखम्।+++(4)+++ स्वातन्त्र्यम् इव न्याय्यं च धर्मस्यैकं रूपम्।

(३) पूर्वोक्त-विचार-द्वितये जीविनां नानात्वम् औपाधिकतया नन्वङ्गीकृतम्। अस्य नानात्वस्य परमान्तराले किमप्य् एकत्वं मणिमालिकान्तःसूत्रम् इव चकास्ति, येन मणीनाम् अन्योन्य-सम्बन्ध-संक्लृप्तिः सिद्ध्यति3

सूत्रात्मनोऽस्य स्मरणानुरोधेन विधीयमानो जीवनक्रमो हि धर्मः। जगदिदमीश्वरस्य। ईश्वरांशस् तु सर्वेषु भूतेषु वर्तत एव। अस्येश्वरस्य सार्वात्म्यत्वं यदनुदिनाभ्यासेन स्वानुभवीक्रियते तच्चात्मशिक्षणविधानं धर्माङ्गमेव। एवमिन्द्रियनिग्रहो विरक्तिर् भगवद्-ध्यानं स्वात्मचिन्तनं चेत्यादीनि ब्रह्मानुसन्धानसोपानानि धर्मस्य मुख्योद्देशतया सङ्कीर्तितानि।+++(4)+++

(४) सर्वस्यापि जीवस्य परमं लक्ष्यं कर्मक्षेत्रविस्तारपूर्वकं विश्वजीवनसात्करणं; तन्नाम स्वार्थह्रासपुरस्सरं लोकहितभावोज्जीवनम्। अस्मिन्पथि सहकारीणि सर्वाण्यपि सत्कर्माणि धर्मत्वम् अञ्चन्तीति निश्चप्रचम्। उपाधिभूतानां देहेन्द्रियाणामभिमानवशात्सङ्कुचितः खलु जीवात्मा क्रमशो विमुच्यमानः समनुसन्धीयाद् विश्वात्मभावम्। अत्र किल साधनायन्ते वितरणशीलता परोपकृतिर्भूतदया जीवसहानुभूत्यादयः। आत्मविस्तरणाभ्यासार्थं लोकसम्पर्क एव परमावकाशः। गृहं कुलं गोष्ठी समाजो राज्यं चेति सर्वाश्च साङ्घिकव्यवस्थाः क्रमेण नैस्स्वार्थ्यमभ्यसितुं, लोकसहानुभवमवाप्तुं च साधनभूता भवन्ति धर्मसंस्थाः। इत्थं लोकजीवनव्यवस्थापनं, लोकजीवनधारणं, लोकजीवनपरिपोषणं कृत्स्नं चापि धर्मत्वेन निगद्यते।+++(4)+++

अस्मदिष्ट-हितयोर्मध्ये, श्रेयःप्रेयसोर्मध्ये, तात्कालिकसुख-चिरन्तनशिवयोर्मध्ये, व्यष्टि-समष्टिहितयोमध्ये, भोग-संस्कारयोर्मध्ये यदा यदा हि सङ्घर्षः प्रतीयते तदा तदा विधिना येन सद्-भावनिकटी-करणं शक्यं तेनैव धर्मो दर्शनीयः।

धारणाद् धर्म इत्याहुः। ईदृशो जगज्-जीवधारक-शक्तिर् एव सद् इत्य् अभिधीयते। सन् नाम परब्रह्म-तत्त्वम्। अत एव सत्-प्राप्तये विहितमखिलमपि कर्म धर्म इत्यभिधीयते। एवमात्मा ऋतं सत्यं धर्मो नीतिर् न्याय्यं नियतिर् व्रतं श्रेय इति परस्परानुबद्धानि तत्त्वानि।

१४ ऋतस्य सत्यमार्गेण धर्मीकरणय् आशङ्काः

अत्रायं मथितार्थः— अस्मन्-मनसि साक्षात्-कृतं याथार्थ्यं, तन्-नाम ऋतं, सत्यत्वेन वाग्-रूपम् उपेत्य व्यवहरणावधौ कम् अपि व्यत्ययं भजते। अत्र स्वार्थप्रेरणया विना विद्यमानानि कारणानि भवन्त्य् एवम्—

  • (१) शुद्धसत्यस्य वा परिपूर्णसत्यस्य विषय एवास्मासु विद्यमानः सन्देहः। अन्यच्चास्मदन्तरङ्गे प्रकल्पितभ्रान्तिप्रमादादीनां परिज्ञानेन विना स्वयंसम्भूयमानस्खालित्यविषये विचिकित्सा।
  • (२) वचसामपर्याप्तिः। अत्र कोशव्याकरणादीनां नैसर्गिकी भाषिकन्यूनता, निजव्युत्पत्तिदारिद्र्यमनवधानं वा हेतुत्वेन गण्यन्ते।
  • (३) अस्मद्वचोविग्लापनेन कस्यापि हानिरुदीयादित्याशङ्का।
  • (४) अस्मदुक्त्या कस्यापि ग्लानिसम्भव इति विचिकित्सा।
  • (५) अधिकारभेदानुसारं किल सत्यप्रवचनं विधेयमिति चिन्तया प्रवर्तिते निजोपायवैविध्ये तारतम्यसन्दिग्धता4

एवं ऋतं सत्यमाध्यमेन धर्मीकरणक्रमे भवन्ति नैका आशङ्काः। ताभिः किल सत्यस्य बाह्य-रूप-निष्कर्षः क्रियते।

१५

प्रकृति-नियमानुरोधेन धर्म-नियमा इति स्थितिः। एतयोर् अस्त्य् एव व्यत्यास इति स्पष्टम्। नैसर्गिकाः सृष्टि-नियमा न खलु पर्याप्ता मानुषोत्कर्षाय। भूत-पञ्चकस्य नियमास् तु जडलोक-व्यावर्तित्वान् न जीवान्तरङ्गौन्नत्यै साह्यभूताः स्युः। एवमेव जीवजगत्यपि तिर्यग्जन्तुलोकस्य नियमाः केवलं चोदनामात्रत्वान्न मानवस्य विवेकोज्जीवनाय प्रभवन्ति। यतो हि तिर्यक्षु नितारामाहारनिद्राभयमैथुनानि विना, “जीवो जीवस्य जीवनम्” इति सूत्रेण विना न किञ्चिद्विद्यते महत्। +++(नैवम् इति विश्वासः।)+++ किं तु मानुषलोके काचिद्भिन्नैव सरणिः। युयुत्सुरपि भीतः कुरुक्षेत्रे परिपन्थिपरम्परां प्रसमीक्ष्य किमाह?

“दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति।।

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥”

अयं हि हृदयध्वनिः। ईदृशमन्तरङ्गपर्याकुलत्वं पशुमात्रातीतम्। +++(नैवम्।)+++ पशुर्यद्यपि निजवत्सं स्निह्यति तत्तु क्षणिकमेव। स्थायित्वेन तावन्निजयोगक्षेमकातर्यमेव जागर्ति। एवं प्रवृत्तिमात्रं तस्य जीवनम्। एतासां प्रवृत्तीनां मूलचोदनं तु स्वार्थ एव। अतो हि परोपकारप्रवृत्तिः प्रत्यगात्मप्रावीण्यं भगवद्विषयानुसन्धानं भाविहितयत्नश्चेति गुणा न पशुसामान्याः। विशिष्य स्वस्वरूपानुसन्धानत्वेन विधीयमानमध्यात्मचिन्तनं सर्वथा मानुषमात्रमाहात्म्यम्।+++(न हि।)+++ भगवती प्रकृतिरन्तःकरणमात्रव्यावर्तनेन मानवं तदितरजीवराशिभ्यो विशेषयति। अन्तःकरणं तु मनोबुद्धिचित्ताहङ्कारचतुष्टयसम्पुटम्। सुखदुःखानुभवाः प्रियाप्रियसूचनाश्च मनसः कार्याणि। वस्तुविज्ञानं स्मरणं चेति चित्तचरितम्। विवेचनं निश्चयीकरणं तु बुद्धिक्रिया। अहं ममेति सन्ततप्रतिबोधनं तावदहङ्कारस्य कर्म।+++(4)+++ तदिदमन्तःकरणं यद्यपि प्रकृतिकार्यं तथापि मानुषैकसौभाग्यं नान्यजीविसम्भाव्यम्। अतो हि धर्मनियमाः प्रकृतिनियमानुरधेन स्युरिति वक्तव्ये तत्र हृद्भावचिद्भावयोर्युक्तमस्ति स्थानमिति धारणा।

एवं मानवः प्रकृतिजातस्य परिणामोऽपि, तस्यैव भागः सन्नपि, केनापि किल विशिष्टेन लक्षणेन निखिलजीविनां मध्ये स्वीयसमुत्कर्षं साधयति। ईदृगात्मोद्धारसामर्थ्यं प्रकृत्यैव तस्मिन्निक्षिप्तम्।+++(4)+++ तस्य तु स्वोत्कर्षविधानं धर्मः। अत एव जन्मना प्रकृति-वशं-वदोऽपि कर्मणा प्रकृत्यतीततां समश्नुत इति मानुषो विशेषधर्मः।

पारावारे पतितः पाथसा तेनैव यथा प्लवमानः प्राप्नोति पारं, तथैव प्रकृतिनिबद्धो नरस्तया सह व्यवहरन्ननारतं तामेव तरति। एवं प्रकृतिसन्तरणसाधनमेव धर्मः।+++(4)+++


  1. भगवत्तत्त्वकुतूहलिनः प्रस्तुतलेखकस्य “देवरु”संज्ञितं कन्नडभाषानिबद्धं पुस्तकं पश्येयुः। ↩︎

  2. महाकवेर्भासस्य नाम्नि प्रथिते प्रतिमानाटके (३.१) दशरथस्योपरतिं भरताय सारथिरीदृशेनैव नयेन क्रमशः कथयतीति साहित्यरसिकानां सुविदितम्। अस्यां दिशि प्रकृतलेखकस्य “संस्कृति”संज्ञितायां कन्नडकृतौ “सत्यनिरूपणे नयविशेषः” (सत्यनिरूपणेयल्लि नयविशेष), “सत्यं च धर्मः” (सत्य मत्तु धर्म) इति प्रकरणे पर्यालोच्ये। ↩︎

  3. मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥ (भगवद्गीता, ७.७) ↩︎

  4. Some secrets may the poet tell,
    For the world loves new ways;
    To tell too deep ones is not well—
    It knows not what he tells.
    (Matthew Arnold — Obermann) ↩︎