+प्रपञ्च-सारः

कर्तृत्वम्

  • शङ्कराचार्यो नास्ति कर्तास्येत्य् अनेके विद्वांसः - अभिप्रायवैपरीत्यम्, च भाषादोषान् अवलोक्य (“मन्त्रान्”)। ननु वदति गीताभाष्ये “यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः। प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः।।17.4।।” इति स्थाने - “यजन्ते =पूजयन्ति सात्त्विकाः सत्त्वनिष्ठाः देवान्। यक्षरक्षांसि राजसाः। प्रेतान् भूतगणांश्च = सप्तमातृकादींश्च अन्ये यजन्ते तामसाः जनाः।। एवं कार्यतो निर्णीताः सत्त्वादिनिष्ठाः शास्त्रविध्युत्सर्गे। "
    • ननु मधुसूदनसरस्वती चापि - " ये च प्रेतान् विप्रादयः स्वधर्मात्प्रच्युता देहपातादूर्ध्वं वायवीयं देहमापन्ना उल्कामुखकटपूतनादिसंज्ञाः प्रेता भवन्तीति मनूक्तान्पिशाचविशेषान्वा भूतगणांश्च सप्तमातृकादींश्च तामसान् ये यजन्ते तेऽन्ये तामसा ज्ञेयाः। "