अथ संतानसंसिद्धिसमाकुलितचेतसाम्।
तदुत्पत्तिकरं यागं प्रवक्ष्ये गृहमेधिनाम् ॥ ३३.१ ॥
न चापुत्रस्य लोकोऽस्ति पितरोऽधः पतन्ति च।
तस्मात्तु सकलोपायैर्यतेतापत्यसिद्धये ॥ ३३.२ ॥
देवर्षिपितृपूजासु निरतानामभक्तितः।
गुरुमातृपितृश्राद्धवञ्चकानां च नित्यशः ॥ ३३.३ ॥
अर्थिभ्योऽर्थमदातृ़णां विद्यमानेऽर्थसंचये।
अदत्त्वैवातिथिभ्योऽन्नं भोक्तृ़णां पापचेतसाम् ॥ ३३.४ ॥
हरिशंकरयोः पादपद्मार्चाविरतात्मनाम्।
स्वभार्यानिन्दकानां च लोकवेदविरोधिनाम् ॥ ३३.५ ॥
इत्यादिदोषदुष्टानां पापानां गृहमेधिनाम्।
दुष्प्रतिग्रहदोषाद्वा जायते त्वनपत्यता ॥ ३३.६ ॥
एवमादिकदोषापनोदनी सुतसिद्धिदा।
अशेषपापहन्त्री च वक्ष्यते यजनक्रिया ॥ ३३.७ ॥
पुत्राप्तये गृहस्थो
दीक्षाविधिना चतुर्दशीरात्रिम्।
सह पत्न्या गमयित्वा
कृत्वा पौर्वाह्णिकीः क्रियाः सर्वाः ॥ ३३.८ ॥
संयोज्य किंचन यथाविधि पञ्चगव्यं
संकोचकेन मनुना प्रतिमथ्य वार्णम्।
संमन्त्र्य चाष्टशतकं समवद्यभूत
मन्त्रैः पिबेत्स्वयमसावपि गर्भधात्री ॥ ३३.९ ॥
ततोऽग्निमाधाय चरुं च कृत्वा
संकल्प्य तद्दक्षिणमुत्तरं च।
भागं क्रमात्पैतृकदैविकं त
त्पित्र्यं तु पूर्वं जुहुयात्क्रमेण ॥ ३३.१० ॥
स्मृत्वा निजं पितरमप्यधरा निषण्णं
सांनाय्य पिण्डयुगलं घृतसंप्लुतं तत्।
हुत्वा स्रुवेण घृतसंपुटितं तथैव
मन्त्री पितामहमथ प्रपितामहं च ॥ ३३.११ ॥
व्याहृतीभिरथ पक्वहोमतः
सर्वतः प्रतिजुहोतु सर्पिषा।
मातृवर्गगुरुतत्पितृद्वयं
पूर्ववत्समवदिष्य साधकः ॥ ३३.१२ ॥
कलायुतैः षोडशमूर्तिमन्त्रै
र्व्यस्तैरथाष्टाक्षरजैश्च वर्णैः।
अष्टौ समस्तेन च तेन पञ्चा
क्षरेण चाष्टाक्षरवज्जुहोतु ॥ ३३.१३ ॥
पक्वाहुतीनामपि वर्णसंख्यं
चतुर्गुणं चापि घृताहुतीनाम्।
हुत्वावदानद्वितयं च पुंस्त्री
भेदप्रभिन्नं हविषा करोतु ॥ ३३.१४ ॥
पञ्चाक्षरेण पुरुषात्मकमन्यदन्य
वर्णेन चाष्टशतयुग्ममथ प्रजप्य।
संयोज्य तद्युगलमप्यभिमन्त्र्य विष्णु
र्योन्यादिकेन मनुना च कपर्दिसंख्यम् ॥ ३३.१५ ॥
पुरुषः पुरुषात्मकं प्रकृत्या
त्मकमन्याथ समाहितोपयुज्य।
अवदानयुगं क्रमान्मनस्वी
पुनराचम्य समर्चयेद्धुताशम् ॥ ३३.१६ ॥
गुरवेऽप्यथ दक्षिणां प्रदत्त्वा
नलमुद्वास्य च भोजयेद्द्विजातीन्।
प्रतिपर्वकमेवमेकवृद्ध्या
मतिमान् पकुरकं प्रपूरयीत ॥ ३३.१७ ॥
एकह्रासादन्यमब्दं द्विजाती
न्संभोज्यान्यं पूरयेदेकवृद्ध्या।
संपूर्यमाणादेवमेव त्रिकाब्दा
दर्वाक्पुत्रो जायते दैवशक्त्या ॥ ३३.१८ ॥
पितृदेवताप्रसादा
न्मेधायुःकान्तिसंयुतो विद्वान्।
लक्ष्मीतेजोयुक्तो
धर्मरुचिर्भवति संततेः कर्ता ॥ ३३.१९ ॥
समुनिसुरपितृभ्यो ब्रह्मचर्येण यज्ञै
स्त्रिविधमृणमपत्यैश्चैव संमोचयेद्यः।
श्रुतिवचनकृदस्मिन्वापि लोके परस्मि
न्निति स तु गृहमेधी पूज्यते साधुलोकैः ॥ ३३.२० ॥
वर्णादिको हलोमन्त्रः संकोचाख्यो ध्रुवादिकः।
मन्त्रः स्याद्भूतमनवः स्युश्च भूतात्मनात्मभिः ॥ ३३.२१ ॥
अथो हिताय जगतां प्रथितं शितचेतसाम्।
अद्य संक्षिप्य वक्ष्यामि लक्षणं गुरुशिष्ययोः ॥ ३३.२२ ॥
स्वच्छः स्वच्छन्दसहितोऽतुच्छधीः सक्तहृच्छयः।
देशकालादिविद्देशे देशे देशिक उच्यते ॥ ३३.२३ ॥
अग्रगण्यः समग्रज्ञो निग्रहानुग्रहक्षमः।
षड्वर्गविजयव्यग्रोऽनुग्रो विगतविग्रहः ॥ ३३.२४ ॥
शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः।
वेदवेदाङ्गविद्वादी वेदिताविदितागमः ॥ ३३.२५ ॥
इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः।
रतोऽविरतमर्चासु परं पुरमुरद्विषोः ॥ ३३.२६ ॥
शान्तो दान्तः शान्तमना नितान्तं कान्तविग्रहः।
स्वदुःखकरणेनापि परं परसुखोद्यतः ॥ ३३.२७ ॥
ऊहापोहविदव्यग्रो लोभमोहविवर्जितः।
अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः ॥ ३३.२८ ॥
निरंशसांशवित्सर्वसंशयच्छिदसंशयः।
नयविद्विनयोपेतो विनीतो न चिरात्मवान् ॥ ३३.२९ ॥
व्याधिरप्रापितव्याधिः समाधिविधिसंयुतः।
श्रुतिधीरोऽतिधीरश्च वीरो वाक्यविशारदः ॥ ३३.३० ॥
वर्गोपेतसमारम्भो गभीरो दम्भवर्जितः।
आदर्श इव विद्यानां न तु दर्शनदूषकः ॥ ३३.३१ ॥
असौ मृग्यश्च दृश्यश्च सेव्यश्चाभीष्टमिच्छता।
शिष्यस्तदावर्जनकृद्देहेन द्रविणेन च ॥ ३३.३२ ॥
तस्य पादारविन्दोत्थरजःपटलरूषणः।
स्नानमप्राप्य न प्राप्यं प्रायो बुद्धिमतेप्सितम् ॥ ३३.३३ ॥
नित्यशः कायवाक्चित्तैस्त्रिद्व्येकाब्दादिकावधि।
परिचर्यापरः शिष्यः स्यात्सुसंयतमानसः ॥ ३३.३४ ॥
तं तथाविधमालक्ष्य सदावितथवादिनम्।
मातृतः पितृतः शुद्धं बुद्धिमन्तमलोलुपम् ॥ ३३.३५ ॥
अस्तेयवृत्तिमास्तिक्ययुक्तं मुक्तिकृतोद्यमम्।
अकल्मषं मृषाहीनमहीनद्रव्यमानसम् ॥ ३३.३६ ॥
ब्रह्मचर्यपरं नित्यं परिचर्यापरं गुरोः।
अल्पाशनिद्रं पूजायामनल्पकृतकल्पनम् ॥ ३३.३७ ॥
अधीतवेदं स्वाधीनमनाधिं व्याधिवर्जितम्।
तरुणं करुणावासं परितोषकरं गुरोः ॥ ३३.३८ ॥
सुवेषमेषणातीतममलं विमलाशयम्।
सुप्रसन्नं प्रसन्नाङ्गं सदा संनिहितं गुरोः ॥ ३३.३९ ॥
परोपकारनिरतं विरतं परदूषणे।
मातृवद्गुरुपत्नीं च भ्रातृवत्तत्सुतानपि ॥ ३३.४० ॥
स्मरन्तमस्मराबाधं स्मितोपेतमविस्मितम्।
परिग्रहे परीक्ष्यैव शिष्यमेवंगुणं गुरुः ॥ ३३.४१ ॥
अलसं मलसंक्लिन्नं क्लिष्टं क्लिष्टान्ववायजम्।
दम्भान्वितमगम्भीरं चण्डं पण्डितमानिनम् ॥ ३३.४२ ॥
रागिणं रोगिणं भोगलालसं बालसंमतम्।
रौद्रं दरिद्रं निद्रालुमाद्यूनं क्षुद्रचेष्टितम् ॥ ३३.४३ ॥
नृशंसमन्धं बधिरं पङ्गुं व्यङ्गममङ्गलम्।
अतिदीर्घमतिह्रस्वमतिस्थूलकृशात्मकम् ॥ ३३.४४ ॥
आदित्सुं कुत्सितं वत्सं बीभत्सं मत्सरात्मकम्।
परदारपरं भीरुं दारुणं वैरिणं सताम् ॥ ३३.४५ ॥
लुब्धं त्वलब्धवैदग्ध्यं स्तब्धं लुब्धकबान्धवम्।
सुखिनं मुखरं दुर्गं दुर्मुखं मूकमानसम् ॥ ३३.४६ ॥
प्रत्यग्रमुग्रं व्यग्रेहमग्रगण्यं दुरात्मनाम्।
प्रष्टव्यकं तमःस्पृष्टं क्लिष्टमिष्टापहं नृणाम् ॥ ३३.४७ ॥
स्वार्थकृत्यं प्रसक्तार्थं निरर्थारम्भणं शठम्।
ईदृग्विधं गुरुः शिष्यं न गृह्णीयात्कथंचन ॥ ३३.४८ ॥
यदि गृह्णाति तद्दोषः प्रायो गुरुमपि स्पृशेत्।
मन्त्रिदोषो यथा राज्ञि पत्यौ जायाकृतो यथा ॥ ३३.४९ ॥
तथा शिष्यकृतो दोषो गुरुमेति न संशयः।
स्नेहाद्वा लोभतो वापि यो न गृह्णाति दीक्षया ॥ ३३.५० ॥
तस्मिन्गुरौ सशिष्ये तु देवताशाप आपतेत्।
मधुद्विषि महादेवे मातापित्रोर्महीभृति।
भक्तिर्या सा पदाम्भोजे कार्या निजगुरौ सदा ॥ ३३.५१ ॥
छायाज्ञापादुकोपानद्दण्डांश्च शयनासने।
यानं मनोगतं चान्यदन्तेवासी न लङ्घयेत् ॥ ३३.५२ ॥
व्याख्याविवादः स्वातन्त्र्यकामिता काम्यजृम्भिता।
निद्राकुतर्कक्रोधांश्च त्यजेद्गुरुगृहे सदा ॥ ३३.५३ ॥
अग्राम्यधर्मं विण्मूत्रसर्गनिष्ठीवनादिकम्।
परित्यजेत्परिज्ञाता वमिं च गुरुमन्दिरे ॥ ३३.५४ ॥
ग्राम्योक्तीरनृतं निन्दामृणं च वसुविक्रयम्।
परित्यजेद्गुरौ तस्य सपत्न्यैश्च समागमम् ॥ ३३.५५ ॥
इष्टं वानिष्टमादिष्टं गुरुणा यत्तु गुर्वपि।
त्वरया परया कुर्याद्धिया सम्यगजिह्मया ॥ ३३.५६ ॥
कर्मणा मनसा वाचा सदा भक्तियुजा गुरुम्।
निर्व्याजं पूजयेच्छिष्यो निजकार्यप्रसिद्धये ॥ ३३.५७ ॥
लोकोद्वेगकरी या च या च कर्मनिकृन्तनी।
स्थित्युच्छेदकरी या च तां गिरं नैव भाषयेत् ॥ ३३.५८ ॥
रम्यमप्युज्ज्वलमपि मनसोऽपि समीप्सितम्।
लोकविद्वेषणं वेषं न गृह्णीयात्कदाचन ॥ ३३.५९ ॥
इत्याचारपरः सम्यगाचार्यं यः समर्चयेत्।
कृतकृत्यः स वै शिष्यः परत्रेह च नन्दति ॥ ३३.६० ॥
देवानृषीनपि पितृ़नतिथींस्तथाग्निं
नित्योद्यतेन मनसा दिनशोऽर्चयेद्यः।
इष्टानवाप्य सकलानिह भोगजाता
न्प्रेत्य प्रयाति परमं पदमादिपुंसः ॥ ३३.६१ ॥
इत्थं मूलप्रकृत्यक्षरविकृतिलिपिव्रातजातग्रहर्क्ष
क्षेत्राद्याबद्धभूतेन्द्रियगुणरविचन्द्राग्निसंप्रोतरूपैः।
मन्त्रैस्तद्देवताभिर्मुनिभिरपि जपध्यानहोमार्चनाभि
स्तन्त्रेऽस्मिन्यन्त्रभेदैरपि कमलज ते दर्शितोऽयं प्रपञ्चः ॥ ३३.६२ ॥
यदाश्रया विप्रकृतिप्रभावतो
विभिन्नतारांशसमुत्थितौजसः।
जगन्ति पुष्णन्ति रवीन्दुवह्नयो
नमोऽस्तु तस्मै परिपूर्णतेजसे ॥ ३३.६३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रयस्त्रिंशः पटलः ॥
प्रपञ्चसारः संपूर्णः ॥