अथ यन्त्रविरचनाभि
र्मन्त्रविशेषान्बहुप्रकारयुतान्।
कथयिष्ये मन्त्रविदा
मैहिकपारत्रिकाप्तये सुधियाम् ॥ ३२.१ ॥
त्रिगुणितसंज्ञे माया
लंकृतकोणे तयाभिवीते च।
या या विशेषक्लृप्ति
स्तां तामपि संग्रहेण समभिदधे ॥ ३२.२ ॥
कोणोल्लसितसुधाक्षर
गलदमृतस्फुरितवह्निपरिवीतान्।
बिन्दोर्मध्यगबीज
स्थितान्सुधाधारया परिस्रुतया ॥ ३२.३ ॥
पूर्णसुषुम्नारन्ध्रां
साध्यतनुं संस्मरञ्शिरसि बध्यात्।
तेनारोगी पुरुषः
प्रज्ञावान्दीर्घमायुराप्नोति ॥ ३२.४ ॥
शीतांशुमण्डलस्थं
कूर्मचतुर्थात्तकोणलसितमिदम्।
शीतप्रलिप्तजप्तं
कधृतं च शिरोरुजाज्वरार्तिहरम् ॥ ३२.५ ॥
तद्यन्त्रयुगं विलिखे
दभिविलिखितसाध्यसाधकाख्ययुतम्।
साध्यमधस्तात्कृत्वा
बद्ध्वात्र स्वपतु साधको नित्यम् ॥ ३२.६ ॥
विधिनानेन तु सम्य
क्साध्योऽस्य वशे भवेदयत्नेन।
तत्तु खनित्वागारे
तत्रान्नं सिद्धमत्तु वश्यकरम् ॥ ३२.७ ॥
साध्याख्यां शक्तिवह्नौ नरहरिमपि रन्ध्रत्रये च त्रिशक्तौ
कर्मालिख्याथ लोष्टे सततगमपि संस्थाप्य जप्त्वा स्वशक्त्या।
आगारे स्थापयित्वा नरमुदकनिधेश्चित्रपत्रे लिखित्वा
दीपाग्नौ तापयित्वा स्त्रियममलधियः सम्यगाकर्षयेयुः ॥ ३२.८ ॥
त्रिगुणितविहिता विधयः
षड्गुणिते च प्रयोजनीयाः स्युः।
रक्षाकर्मणि विहितं
तत्प्रायः प्रचुरमन्त्रयुक्ततया ॥ ३२.९ ॥
पाशाष्टाक्षरवीतशक्ति दहनप्रोल्लासिसाध्याह्वयं
शक्तिश्रीस्मरसंवृतं कुयुगरन्ध्राबद्धचिन्तामणि।
इत्थं षड्गुणितं विलिख्य जपितं मन्त्री दधानोऽसकृ
द्राज्ञां वामदृशां प्रियो भवति संग्रामे पुरे वा चिरम् ॥ ३२.१० ॥
चिन्तारत्नाश्रिताश्रित्रियुगमथ नृसिंहावृतान्तःस्थबीजं
प्रादुःसाध्याभिधानं बहिरपि लिपिभिः प्रानुलोमानुवीतम्।
क्ष्माबिम्बद्वन्द्वरन्ध्रप्रचलितचतुरर्णं ग्रहोन्मादभूत
व्याधिघ्नं यन्त्रमस्मिन्कृतकलशविधिर्गर्भरक्षाधिकारी ॥ ३२.११ ॥
द्वादशगुणिते शूले
नृसिंहबीजं नरेन्द्रपुरवीतम्।
पीतालिप्तं पुरलघु
धूपितमन्तःप्रबद्धकर्मयुतम् ॥ ३२.१२ ॥
चतसृषु दिक्षु निखन्या
त्सीमायां द्वारतोरणाधो वा।
देशाभिगुप्तिरेषा
गुप्ततमा सूरिभिः पुरा प्रोक्ता ॥ ३२.१३ ॥
अलदलनिशाकुशीतै
र्मसृणे पट्टे विलिख्य यन्त्रमिदम्।
धेरस्थापनकर्म
प्रतिजप्तं प्राङ्गणे खनेन्मन्त्री ॥ ३२.१४ ॥
तत्र विशन्ति न चोरा
ग्रहकृत्या स्यान्निकेतरक्षा च।
अश्माभिपातवारण
मभिवृद्धिं संपदां करोत्यचिरात् ॥ ३२.१५ ॥
तद्वद्धटार्गलाख्यं
यन्त्रं नीले विलिख्य पट्टवरे।
मेचकसाध्यप्रतिकृति
हृदये गुलिकां विधाय निक्षिप्य ॥ ३२.१६ ॥
त्रिमधुरपूर्णे पात्रे
विन्यस्याभ्यर्च्य गन्धपुष्पाद्यैः।
बलिमपि विकिरेद्रात्रिषु
सप्ताहादानयेद्वधूमिष्टाम् ॥ ३२.१७ ॥
तामेवाथ प्रतिकृति
मग्नौ किंचित्प्रतापयेत्प्रजपन्।
शक्तिं पाशाङ्कुशमनु
साध्याह्वयदर्भितां समाहितधीः ॥ ३२.१८ ॥
विधिनामुना त्रिरात्रा
द्गर्वितधियमपि सुराङ्गनां मन्त्री।
आकर्षेन्निजवाञ्छा
प्रदायिनीं मदनबाणविह्वलिताम् ॥ ३२.१९ ॥
यन्त्रं तदेव लाक्षा
ताम्रावीतं निधाय कलशजले।
जप्त्वा भानुसहस्रक
मभिषिञ्चेद्रजतकाञ्चनाभ्यां च ॥ ३२.२० ॥
तद्वद्विधाय कलशे
तद्यन्त्रं धारयेत्पुनर्नित्यम्।
वाञ्छितसिद्धिं लभते
भक्त्या प्रणमन्ति देवता अपि तम् ॥ ३२.२१ ॥
यन्त्रं तदेव विधिव
द्भित्तावालिख्य पूजयेद्दिनशः।
चोरारिभूतनागा
अपि तं देशं न वीक्षितुं शक्ताः ॥ ३२.२२ ॥
आलिख्य वीरपट्टे
यन्त्रमिदं मस्तकार्पितं कृत्वा।
युध्यन्प्रत्यर्थिनमपि
हत्वा यात्यव्रणाङ्कितो योद्धा ॥ ३२.२३ ॥
मदजलविलिखितमेत
द्यन्त्रं जप्तं च मस्तके न्यस्तम्।
करिणीमपि मदयेद्द्रा
क्चण्डतरे का कथा करेणुवरे ॥ ३२.२४ ॥
बहुनेति भाषितेन कि
मेभ्यो मुख्यं न किमपि यन्त्रेभ्यः।
तस्मादमूनि सद्भि
र्धार्याणि च विश्ववश्यमिच्छद्भिः ॥ ३२.२५ ॥
गजमृगमदकाश्मीरै
र्मन्त्रितमः सुरभिरोचनायुक्तैः।
विलिखेदलक्तकरसा
लुलितैर्यन्त्राणि सकलकार्यार्थी ॥ ३२.२६ ॥
राज्या पटुसंयुतया
सपाशशक्त्यङ्कुशेन मन्त्रेण।
स्वाद्वक्तयाभिजुह्व
न्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ ३२.२७ ॥
हृल्लेखाग्निस्थसाध्याह्वयमपि बहिरांक्रोंवृतं वह्निगेह
द्वन्द्वाश्रिस्वस्तिकाढ्यं प्रतिलिखतु दले यन्त्रजं नागवल्ल्याः।
जप्त्वा शक्तिं तु पाशाङ्कुशलिपिसहितां तापयेद्दीपवह्नौ
नक्तं भक्त्यानताङ्गी स्मरशरविवशा प्रेमलोलाभियाति ॥ ३२.२८ ॥
शक्तिस्थं निजनाभिवह्निभवनद्वन्द्वोदरे मान्मथं
बीजं साध्यविदर्भया परिवृतं शक्त्या बहिः पार्थिवम्।
तत्कोणे स्मरमन्यपुष्टनयनप्रोत्थैः पुनः कर्णिकै
स्ताम्बूलैर्लिखिताभिजप्तमदयेद्योषिन्मनोमोहनम् ॥ ३२.२९ ॥
शक्त्यन्तःस्थितसाध्यनाम परितो बीजैश्चतुर्भिः समा
बद्धं शक्तिमनोभवाङ्कुशलिपिप्रोंभिः समावेष्टितम्।
शाल्युत्थे प्रतिलिख्य पिष्टविकृतौ प्राणान्प्रतिष्ठाप्य च
त्रिस्वादौ परिभर्ज्य तत्समदतः साध्यो वशे तिष्ठति ॥ ३२.३० ॥
डान्तं शिखीलवयुतं दहनांशसाध्यं
मायांशसाधकमथाभिवृतं कलाभिः।
मध्योल्ल्सद्द्विमुखशूलमिदं तु भर्तु
र्यन्त्राह्वयं नरनताङ्गिवशंकरं स्यात् ॥ ३२.३१ ॥
मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तया
साध्यस्याङ्घ्रिरजोयुजा मृदुमृदा क्लृप्तस्य शक्तिं हृदि।
रूपस्याभिविलिख्य तद्विवरके साध्यं तदीरान्प्रति
ष्ठाप्याजल्प्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत् ॥ ३२.३२ ॥
वामाक्ष्याः प्रतिलिख्य नाम निशया वामोरुदेशे निशा
मध्ये वामकरेण संशितमतिः संछादयंस्तन्मनाः।
पूर्वं रुद्रपदं ततश्च दयितेयोगीश्वरीबिन्दुम
न्मन्त्रं जप्यति चेदनङ्गविवशां सद्यः प्रियामानयेत् ॥ ३२.३३ ॥
मायाहृदोरथान्ते
ब्रह्मश्रीराजितेऽक्षरान्प्रोक्त्वा।
राजयुतपूजितेऽर्णा
न्स जये विजये च गौरि गान्धारि ॥ ३२.३४ ॥
त्रिभुवनवशंकरीति च
सर्वलोकान्तिके वशंकरि च।
सर्वस्त्रीपुरुषवशं
करि सुदुघे वाक्षरान्प्रवीप्स्य ततः ॥ ३२.३५ ॥
मायाद्द्विठान्तिको मनु
रेकाधिकषष्टिवर्णकः प्रोक्तः।
ऋषिरस्याजोऽतिनिचृ
च्छन्दो गौरी च देवता प्रोक्ता ॥ ३२.३६ ॥
सचतुर्दशभिर्दशभि
स्तथाष्टभिश्चाष्टभिस्तथा दशभिः।
एकादशभिर्मन्त्रा
क्षरैः क्रमादुच्यते षडङ्गविधिः ॥ ३२.३७ ॥
असकलशशिराजन्मौलिराबद्धपाशा
ङ्कुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी।
अमरनिकरवन्द्या त्रीक्षणा शोणलेपां
शुककुसुमयुता स्यात्संपदे पार्वती वः ॥ ३२.३८ ॥
अयुतं प्रजपेज्जुहुया
द्धृताप्लुतैः पायसैर्दशांशेन।
आराधयेत्तदङ्गै
र्मातृभिराशाधिपैश्च निशितमनाः ॥ ३२.३९ ॥
तिलतण्डुलकैर्लोणै
स्त्रिमधुरसिक्तैः फलैश्च मधुरतरैः।
साज्यैररुणकुवलयै
स्त्रिदिनं हवनक्रिया सुवश्यकरी ॥ ३२.४० ॥
नित्यं चादित्यगतां
देवीं प्रतिपद्य तन्मुखो जप्यात्।
अष्टोत्तरशतमह्ना
मादौ भुवनं वशीकरोत्यचिरात् ॥ ३२.४१ ॥
वर्णादर्वाङ्मन्त्री
प्रयोजयेत्साध्यनामकर्मयुतम्।
प्रजपेद्वा हवनविधौ
वाच्छितसिद्धिप्रदस्तथा मन्त्रः ॥ ३२.४२ ॥
सतारराजमुख्यन्ते राजाधिमुखिवर्णकान्।
संभाष्य वश्यमुखि च स्वां श्रीमारार्णकान्वदेत् ॥ ३२.४३ ॥
वीप्स्य देविमहादेविपदं देवादिदेवि च।
प्रोक्त्वा सर्वजनस्येति मुखं मम वशं वदेत् ॥ ३२.४४ ॥
कुरु कुर्विति ठद्वन्द्वान्तिकं मन्त्रं समुद्धरेत्।
सप्ताधिकैः सदशभिस्तथा त्रिंशद्भिरक्षरैः ॥ ३२.४५ ॥
दशभिः सप्तभिश्चैव चतुर्भिः करणाक्षरैः।
पञ्चभिः सप्तदशभिर्वर्णैरङ्गक्रिया मता ॥ ३२.४६ ॥
ब्रह्माश्रीमन्त्रसंप्रोक्ता प्रतिपत्तिरमुष्य च।
मन्त्रस्य जपक्लृप्तिस्तु तथा होमविधिर्मतः ॥ ३२.४७ ॥
मन्त्री सर्वजनस्थाने कुर्यात्साध्याह्वयान्मनोः।
प्रजपे हवने वाथ तथा तर्पणकर्मणि ॥ ३२.४८ ॥
देवीध्माष्टशतं प्रसूनवदथ त्रिस्वादुयुक्तं हुने
त्सप्ताहं भसितेन तेन विहितं पुण्ड्रादिकं वश्यकृत्।
आज्यैस्तत्कृतहोमपातितसमाजप्तं घृतं प्राशये
त्साध्यं निष्परिहारकं च तदिदं वश्यं भवेद्देहिनाम् ॥ ३२.४९ ॥
शक्तिं साध्यर्क्षवृक्षप्रतिकृति हृदि संलिख्य संस्थाप्य जीवं
जप्त्वा खन्याङ्कणेऽस्मिन्विधिवदनलमाधाय पुष्पैर्जपायाः।
देवीमन्त्रेण रात्रौ दशपरशतसंख्यैस्तु काचन्दनाक्तै
र्हुत्वा तां सप्तरात्रं सरिति निखनतादुत्तमं वश्यकर्म ॥ ३२.५० ॥
अन्नं मय्यह्यन्नं
मे देह्यन्नाधिपतये ममेत्युक्त्वा।
अन्नं प्रदापयेति च
ठद्वयुगान्तोऽन्नदायको मन्त्रः ॥ ३२.५१ ॥
करणेन्द्रियरसधातु
द्वयवर्णैरङ्गमन्त्रपत्रपदैः।
द्व्ययुतजपावधिरेष
द्विसहस्रहुतं च सर्पिरन्नाभ्याम् ॥ ३२.५२ ॥
दुग्धाब्धौ रूप्यवप्रावृतकनकमयद्द्वीपवर्ये सुराढ्ये
कल्पद्रूद्यानकाधो मणिमयलसिते वित्तसस्याप्रभागे।
आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौ
मन्त्री संचिन्तयानो जपतु दिनमुखे संपदेऽन्नस्य मन्त्रम् ॥ ३२.५३ ॥
नत्यादिभगवत्यन्ते माहेश्वरिपदं वदेत्।
अन्नपूर्णेऽग्निजायान्तो मन्त्रोऽन्नप्रदसंज्ञकः ॥ ३२.५४ ॥
मायाविहितषडङ्गो
दिनमुखजप्यश्च षोडशसहस्रम्।
प्रोक्तो जपावसाने
सघृतैरन्नैर्दशांशको होमः ॥ ३२.५५ ॥
रुद्रताण्डवविलोकनलोलां
भद्रवक्त्रनयनां भवकान्ताम्।
अन्नदाननिरतां जननीं तां
चिन्तयञ्जपतु चित्रदुकूलाम् ॥ ३२.५६ ॥
वैश्रवणः पक्वाशः
पिङ्गलनिधिपौ तथैव वित्तेशः।
सकुबेरस्वाहान्ताः
सव्याहृतयः समीरिता मन्त्राः ॥ ३२.५७ ॥
वित्तेशस्यान्तराले दशवटसमिधः सर्पिषाक्ता विविक्ता
होतव्या द्रव्यसिद्ध्यै कनकघटकरण्डात्तदोस्तुन्दिलोऽसौ।
हेमाभो रत्नदीप्तो दरकमलनिधिद्योतितो हेमपीठे
ध्येयो न्यग्रोधमूले हुतभुजि विदुषा वैश्वदेवावसाने ॥ ३२.५८ ॥
मन्त्रैरेतैर्घृतयुत
पायसहोमोऽपि मन्त्रिणां विहितः।
लक्ष्म्यै सघृतैश्च तिलै
र्बिल्वसमिद्धो मतस्तदेव फलम् ॥ ३२.५९ ॥
भयाहारेन्दुयुक्सैव विदण्डाहस्पताक्षराः।
बालिस्थयोनिर्नत्यन्तो वसुवर्णो मनुर्मतः ॥ ३२.६० ॥
वर्णसाहस्रजाप्यश्च तावच्छतहुतो मतः।
होमः सर्पिष्मतान्नेन बीजेनाङ्गक्रिया मता ॥ ३२.६१ ॥
रत्नस्वर्णांशुकादीन्निजकरकमलाद्दक्षिणादाकिरन्तं
वासोराशौ निधायापरममरगुरुं पीतवस्त्रादिभूषम्।
ध्यायन्नासीनमप्यापणभुवि शतसंख्यं सविंशत्कमेवं
भीतापुष्पैर्घृताक्तैर्त्रिदिनमथ हुनेत्स्वर्णवस्त्रादिसिद्ध्यै ॥ ३२.६२ ॥
वययोरन्तरास्त्रं मे देहि शुक्राक्षराद्द्विठः।
मन्त्रोऽयुतजपः सर्पिः सहस्रहवनक्रियः ॥ ३२.६३ ॥
शुक्रास्ये शुक्लपुष्पैर्हुतभुजि गुणशः सप्तशोऽप्येकविंश
द्वारं होतव्यमेषोऽप्यतिसितकुसुमालेपनो वामदोष्णा।
वासोरत्नादिकार्तस्वरमपि सततं साधकाय प्रयच्छ
न्ध्यातो व्याख्यानमुद्राकलितपरकरस्त्वापणालिन्दसंस्थः ॥ ३२.६४ ॥
राजेरस्थोऽहिपो दण्डी वेदान्तेऽसौ विदण्डकः।
सायान्ते नतिरप्यष्टवर्णो वैयासिको मनुः ॥ ३२.६५ ॥
मुनिव्रातावीतं मुदितधियमम्भोदरुचिर
द्युतिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम्।
परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं
समासीनं व्यासं स्मरत निरतं पुण्यचरितम् ॥ ३२.६६ ॥
विकृतिसहस्रजपोऽयं
दशांशतः पायसाज्यहवनविधिः।
निरुपमकविताप्रज्ञा
व्याख्याश्रीसंपदावहो मन्त्रः ॥ ३२.६७ ॥
करचरणपार्श्वमूल
द्युलोंहरेबिन्दुदुंसरसनार्णाः।
अलिकाद्या वर्मास्त्र
द्विठान्तिको मनुरयं ध्रुवादिः स्यात् ॥ ३२.६८ ॥
अयुतं प्रजपेच्च षट्सहस्रा
वधि मन्त्रे जुहुयाद्दशांशमानम्।
तिलसर्षपतण्डुलैः सशाली
हविराज्यैः सुसमेधिते कृशानौ ॥ ३२.६९ ॥
उत्तुङ्गादिः प्रचेता अपि दहनसमीरौ धराव्योमसंज्ञे
प्राक्प्रत्यग्दक्षसौम्यास्वध उपरि च दिक्षु प्रबन्धप्रभाः स्युः।
तन्मध्यस्थान्विपक्षादिकहरिरुरुदन्तीन्द्रनागान्सचोरा
न्हन्त्येतैर्मन्त्रिमुख्यो मनुविहितबलव्याकुलान्सद्य एव ॥ ३२.७० ॥
निजरिपुमचलाद्यैस्तैः ससंबाधवीतं
मनुविदथ हलोभ्यां रुद्धनिश्वासवेगे।
तदुपरिगतबीजैः साधुसंस्यूतवक्त्रं
दहतु सकवचास्त्रद्वीन्दुभिः स्वेच्छयैनम् ॥ ३२.७१ ॥
योनिर्वियत्सुनेत्रं
परमे वर्णांस्तथास्थिगं मेदः।
रक्तस्थदृग्द्विठान्त
स्ताराद्योऽयं मनुर्दशार्णयुतः ॥ ३२.७२ ॥
अयुतं जपेन्मनुमिमं
सहस्रवारं हुनेत्तथाज्येन।
ध्यातापि गिरिसुतेयं
जगतीं विश्वां वशीकरोत्यनिशम् ॥ ३२.७३ ॥
अश्वारूढा कराग्रे नवकनकमयीं नेत्रयष्टिं दधाना
दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वसाध्याम्।
देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा
दद्यादाद्यानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः ॥ ३२.७४ ॥
विद्ययानुदिनहृद्ययानया
होमकर्मवरहेमदायि तत्।
कामितां सपदि वामलोचना
मानयेदपि च मारपीडिताम् ॥ ३२.७५ ॥
हवनक्रिया सपदि वश्यकरी
मधुरावसेकपटुना पटुना।
सदृशो न कश्चन जगत्यपरो
मनुनामुनानयनकर्मविधौ ॥ ३२.७६ ॥
वाणी स्यात्ताररूपा शिरसि गिरिसुता शक्तिरूपा ललाटे
रव्यग्न्यक्ष्णोस्तथामौ विधुरपि वदनावेष्टने टान्तरूपः।
श्रीर्जिह्वायां स्वरूपा स्वभिमतकरिरूपौ स्वहौ दीर्घयुक्ता
वेवं न्यासे मुखश्रीविभवसुखयशःकान्तिमेधाकरः स्यात् ॥ ३२.७७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे द्वात्रिंशः पटलः ॥