प्राणप्रतिष्ठानमनोर्विधानं
प्रवक्ष्यते संप्रति सर्वसिद्ध्यै।
यस्मादृतेऽमी कथिताः प्रयोगाः
व्यर्था भवेयुर्गतजीवकल्पाः ॥ ३१.१ ॥
प्रोक्त्वा पूर्वममुष्यशब्दमथ च प्राणा इह प्राणका
स्तद्वज्जीव इह स्थितेति च तथा सर्वेन्द्रियाणीति च।
भूयो वाङ्मनसावुदीर्य तदनु प्राणा इहायान्त्विति।
स्वाहान्तं प्रजपेन्मनुं निशितधीः प्राणान्प्रतिष्ठापयेत् ॥ ३१.२ ॥
सृष्टिः सा जगतामनादिनिधना विश्वस्य चेष्टाकरी
प्राणाख्या प्रकृतिः क्रियामयवपुर्देवी परा देवता।
प्रत्येकं कादिवर्गैः प्रतिगतलिपिकैर्बिन्दुयुक्तैर्धराद्यैः
शब्दाद्यैः श्रोत्रमुख्यैर्वदनकरमुखैस्तत्क्रियाभिः क्रमेण ॥
बुद्ध्याद्यैश्चात्मनेऽन्तैरुपरि च विलसज्जातिभिः षड्भिरेवं
कुर्यादङ्गानि सम्यग्वरविशदमतिर्विश्वरूपत्वसिद्ध्यै ॥ ३१.३ ॥
नाभेर्देशादापदं पाशबीजं
हृद्देशादा नाभिदेशं च शक्तिम्।
आहृद्देशं मस्तकादङ्कुशाख्यं
न्यस्त्वा यादीन्धातुभिर्न्यस्य सप्त ॥ ३१.४ ॥
प्राणे जीवे चैव हंसश्च
यार्णन्यस्येन्मूलं व्यापकं मस्तकादिम्।
एवं न्यस्य प्राणशक्तिस्वरूपं
विद्यां ध्यायेदात्मरूपां च देवीम् ॥ ३१.५ ॥
रक्ताम्बोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः
पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्चबाणान्।
बिभ्राणा स्रक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः स्वरूपा ॥ ३१.६ ॥
ध्यात्वा देवीं प्रजपेदेवं लक्षं मनुं समाहितधीः।
आज्येनान्ते जुहुयाच्चरणा वा तद्दशांशतो मन्त्री ॥ ३१.७ ॥
शाक्ते पीठे देवीं षट्कोणस्थैः प्रजेशहरिरुद्रैः।
वाणीलक्ष्मीगिरिजासहितैरङ्गैश्च मातृलोकेशैः ॥ ३१.८ ॥
प्रयजेच्चतुर्भिरेवं परिवारैर्नित्यमेव निशितमनाः।
एवं संसिद्धमनुर्वश्याद्यान्यारभेत कर्माणि ॥ ३१.९ ॥
पाशाङ्कुशान्तरितशक्तिमनोः परस्ता
दुच्चार्य यादिवसुवर्णगणं सहंसम्।
पश्चादमुष्यपदमुच्चरतु प्रयोग
मन्त्रोऽयमित्थमुदितो ग्रहसंख्यया वा ॥ ३१.१० ॥
मृता वैवस्वता चैव जीवहा प्राणहा तथा।
आकृष्या ग्रथना चैव उन्मादा विष्फुलिङ्गिनी।
क्षेत्रज्ञा प्रतिहारी च प्राणमूर्त्यः सयादिकाः ॥ ३१.११ ॥
बद्ध्वा साध्या पाशबीजेन शक्त्या
गृह्णन्नाकृष्याङ्कुशेनाथ यादीन्।
दूतीश्चोक्त्वा साध्यनाम्नाथ धातू
नेवं मन्त्रो यावदात्मा सवीर्यः ॥ ३१.१२ ॥
सुप्ताशेषजने निशीथसमये साध्ये स्वपित्यादरा
दारुह्य स्ववशं विधाय हृदये साध्याकृतेः कीलकम्।
बद्ध्वा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर
स्याघातात्क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत्साधकः ॥ ३१.१३ ॥
वायव्याग्नेयैन्द्रवारीण्महेश
क्रव्यात्सोमप्रेतराण्मध्यकेषु।
स्थानेष्वेतेष्वष्ट यादीन्सहंसा
न्भृङ्गान्ध्यायेद्वीजबिन्दुप्रबद्धान् ॥ ३१.१४ ॥
स्वीये चैवं संस्मरेद्धृत्सरोजे
भृङ्गीरूपान्निर्गतान्श्वासमार्गैः।
साध्याब्जस्थांश्चञ्चरीकान्गृहीत्वा
स्वीयं स्थानं पूर्ववत्संप्रविष्टान् ॥ ३१.१५ ॥
बीजानि रक्तानि तु वश्यकर्म
ण्यम्भोधराभान्यभिचारकाले।
धूम्राणि विद्वेषविधौ समोहे
पीतानि संस्तम्भविधौ स्मरेच्च ॥ ३१.१६ ॥
अथ वा साध्यप्राणा
न्मण्डूकाकारधारिणो ध्यायेत्।
स्वीयान्भुजगाकारा
नमिचारादौ नृशंसकर्मविधौ ॥ ३१.१७ ॥
प्राणप्रतिष्ठाकर्मैवं विधायैकादशापरम्।
पुत्तल्यादौ खचित्ते वा तांस्तु संस्तम्भयेद्भुवा ॥ ३१.१८ ॥
आकृष्टानां साध्यदेहादसूनां
पुत्तल्यादावप्ययं स्यात्प्रकारः।
किं तु स्वीये हृत्सरोजे प्रवेशो
वश्याकृष्ट्योरेव नात्राभिचारे ॥ ३१.१९ ॥
पाशाद्यत्रिकयुक्तमूलहृदयभ्रूमध्यसूत्रायिता
साग्निः साध्यललाटरन्ध्रवगतोऽप्यामूलमाजग्मुषि।
योन्यां त्वात्महृदब्जमेवमनिशं भ्राम्यत्यसौ चिन्त्य तं
शक्तिर्जन्मशतान्यपीह वशयेत्साध्यं समाकर्षयेत् ॥ ३१.२० ॥
प्राणप्रतिष्ठाविधिरेवमुक्तः
साङ्गः सयोगो विनियोगयुक्तः।
अस्मिन्प्रवीणो गिरिकाननादी
न्प्रचालयेत्प्राणवतो विधाय ॥ ३१.२१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे एकत्रिंशः पटलः ॥