अथाभिवक्ष्ये महितस्य मन्त्र
स्यानुष्टुभः संग्रहतो विधानम्।
ऋष्यादिकैरङ्गपदैर्यथाव
द्दीक्षाजपार्चाहवनैः क्रमेण ॥ ३०.१ ॥
ऋषिरभिहितो वसिष्ठ
श्छन्दोऽनुष्टुप्च देवता रुद्रः।
त्र्यम्बकपदादिका स्या
न्मनुनैव षडङ्गक्लृप्तिरथ कथिता ॥ ३०.२ ॥
त्रिभिस्तु वर्णैर्हृदयं शिरश्च
चतुर्भिरष्टाभिरथो शिखा च।
उक्तं नवार्णैः कवचं तथाक्षि
पञ्चार्णकं त्र्यक्षरमस्त्रमाहुः ॥ ३०.३ ॥
प्राक्प्रत्यग्याम्यसौम्ये शिरसि च वदनोरोगलांसेषु नाभौ
हृद्देशे पृष्ठकुक्ष्योरथ शिवगुदयोरूरुमूलान्तयोश्च।
जान्वोस्तद्दृत्तयुग्मस्तनतटयुगपार्श्वेषु पत्पाणिनासा
शीर्षेष्वप्यूर्ध्वतोऽर्णैर्न्यसतु पुनरधस्तोऽपि मन्त्री
तथोर्ध्वम् ॥ ३०.४ ॥
चरणाग्रसंधिषु गुदा
धारोदरहृदयकंधरेषु पुनः।
बाह्वोः संध्यग्रास्य
घ्राणद्वयदृक्श्रुतिभ्रुशीर्षेषु ॥ ३०.५ ॥
वर्णान्न्यस्य शिरोभ्रू
दृग्वक्त्रकगलहृदुदरगुह्यषु।
ऊर्वोर्जान्वोः पदयोः
पदैश्च मनुवित्क्रमेण विन्यस्येत् ॥ ३०.६ ॥
वसिष्ठादिक्रमेणैव अङ्गन्यासं समाचरेत्।
वसिष्ठस्त्र्यम्बकश्चैव त्रिणेत्रश्च तथैव च।
अनुष्टुप्छन्दसे चेति जातियुक्तेन मन्त्रवित् ॥ ३०.७ ॥
अच्छस्वच्छारविन्दस्थितिरुभयकराङ्कस्थितं पूर्णकुम्भं
द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ।
द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ
देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ॥ ३०.८ ॥
प्रासादोक्ते पीठे
गव्यैर्वा दुग्धतरुकषायैर्वा।
संपूर्य कलशमस्मि
न्महेशमावाह्य पूजयेद्भक्त्या ॥ ३०.९ ॥
अङ्गैराद्यार्काद्यैः
पुनरावृतिरष्टभिर्द्वितीया स्यात्।
मन्त्रार्णशक्तिभिः स्युः
पुनश्चतस्रो दिशापवज्राद्यैः ॥ ३०.१० ॥
अर्केन्दुधरणितोया
नलेरवियदात्मसंज्ञकास्ते च।
आनुष्टुभमित्यष्टा
वरणं प्रोक्तं विधानवरमेवम् ॥ ३०.११ ॥
रमा राका प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा।
विश्वा विद्या सुधा प्रह्वा सारा संध्या शिवा निशा ॥ ३०.१२ ॥
आर्द्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिर्द्युतिर्मतिः।
परोमा पावनी पद्मा शान्ता मेधा जयामला ॥ ३०.१३ ॥
द्वात्रिंशदिति निर्दिष्टाः शक्तयोऽनुष्टुभः क्रमात्।
शिवानुभावतो नित्यं जगदाप्याययन्ति याः ॥ ३०.१४ ॥
इति परिपूज्य महेशं
कलशजलैः समभिषेचयेच्छिष्यम्।
कनकांशुकरत्नाद्यै
र्गुरुमपि परिपूज्य मनुमतः सिद्धम् ॥ ३०.१५ ॥
प्रजपेल्लक्षायत्या
द्रव्यैर्जुहुयाज्जपावसाने च।
बिल्वपलाशौ खदिरो
वटतिलसिद्धार्थदौग्धदुग्धानि ॥ ३०.१६ ॥
दधिदूर्वेति दशैता
न्याज्यसमेतानि होमवस्तूनि।
एकैकशः सहस्रं
दशभिर्हुत्वा प्रतर्प्य विप्रांश्च ॥ ३०.१७ ॥
भवति नरः सिद्धमनु
र्मन्त्रेण च सर्वकर्मकर्ता स्यात्।
बिल्वैरयुतं हुत्वा
महतीं लक्ष्मीमवाप्नुयाद्विप्रः ॥ ३०.१८ ॥
तावद्भिर्द्विजवृक्षै
र्द्विजः श्रियं पुष्कलामवाप्नोति।
खदिरसमिदयुतहोमा
त्तेजोबलपुष्टिमाप्नुयादिष्टाम् ॥ ३०.१९ ॥
न्यग्रोधायुतहोमा
द्धनधान्यसमृद्धिमेति नचिरेण।
अयुतं तिलैः प्रजुह्व
न्नपमृत्योः पाप्मनो विमुक्तः स्यात् ॥ ३०.२० ॥
सिद्धार्थायुतहोमो
वैरिणमपमृत्युमपि विनाशयति।
पायसहुतेन परमां
रमामथायुर्यशो लभेन्मर्त्यः ॥ ३०.२१ ॥
दुग्धहुतात्कान्तिः स्या
त्परकृत्या नश्यति श्रियं लभते।
दधिदोमतोऽन्नवान्स्या
त्संवननकरं च तं वदन्ति बुधाः ॥ ३०.२२ ॥
दूर्वायुतेन जुहुया
द्रोगान्निर्वास्य सर्वमपमृत्युम्।
गर्वितधीरब्दानां
विप्रवरः सर्वथा शतं जीवेत् ॥ ३०.२३ ॥
निजजन्मदिने पयोन्धसा वा
शतवीर्यत्रितयैः पयोघृताक्तैः।
जुहुयाच्च शतं सविंशतिं यः
स लभेदायुररोगतां चिराय ॥ ३०.२४ ॥
काष्मर्यदारुसमिधां त्रिशतं सहस्रं
सर्पिःपयोन्नसहितं त्रितयं जुहोतु।
विप्रान्प्रतर्प्य च गुरून्परिपूज्य सम्य
ग्दीर्घं विमुक्तगदमायुरवाप्तुकामः ॥ ३०.२५ ॥
स्नात्वार्काभिमुखोऽम्भसि स्थित इमं मन्त्रं सहस्रं जपे
दायुष्यं प्रतिपर्व दुग्धहविषा होमो महाश्रीप्रदः।
लाजाभिर्निजवाञ्छिताय हवनात्कन्याशु संदीयते
स्वाद्वक्तस्तनजद्रुमैश्च हवनात्सर्वान्वशे स्थापयेत् ॥ ३०.२६ ॥
गायत्रिवर्णपरिपूर्णतनुस्तु भानु
स्त्रिष्टुब्विशिष्टमहिमा महितः कृशानुः।
आनुष्टुभाक्षरसमग्ररुचिः शशाङ्को
दद्युः समुद्यतममी परिवाञ्छितं वः ॥ ३०.२७ ॥
एभिस्त्रिभिर्मनुवरैस्तु शताक्षराख्यो
मन्त्रोऽभिकाङ्घितफलाप्तिदकामधेनुः।
प्रोक्तो हिताय जगतां मुनिभिः कृपार्द्र
चित्तैर्यथोक्तमथ संग्रहतो वदामि ॥ ३०.२८ ॥
ऋष्याद्याः पूर्वोक्ता
स्त्रिदशाः स्युर्हृत्त्रयोदशभिरर्णैः।
शिर एकादशभिश्च
द्वाविंशद्भिस्तथा शिखाकवचम् ॥ ३०.२९ ॥
नयनं पञ्चदशार्णैः
ससप्तभिर्दशभिरस्त्रमङ्गविधिः।
विन्यासं च मनूनां
मन्त्रज्ञः पूर्ववत्क्रमात्कुर्यात् ॥ ३०.३० ॥
स्मर्तव्याखिललोकवर्ति सततं यज्जङ्गमस्थावरं
व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत्सिद्धितः।
यद्वा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते
तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ॥ ३०.३१ ॥
लक्षायतो जपविधिः
शताक्षरस्याथ होमविधिरुक्तः।
अयुतावधिको द्रव्यं
दौग्धान्नं सर्पिषा समायुक्तम् ॥ ३०.३२ ॥
सौरे पीठे पूज्या
पूर्वोक्ताङ्गैः समावृतिः प्रथमा।
प्रह्लादिन्याद्याभि
स्तिस्रः प्रोक्ताः क्रमात्समावृतयः ॥ ३०.३३ ॥
पञ्चम्यावृतिरुक्ता
त्रैष्टुभवज्जागतादिभिस्तदनु।
स्याच्चरमादिभिरावृति
चतुष्कमुक्तं दशम्यथेन्द्राद्यैः ॥ ३०.३४ ॥
इति शताक्षरमन्त्रसमर्चना
निगदितेह दशवरणा बुधैः।
प्रजपतामभिकाङ्क्षितसिद्धये
निखिलसंसृतिमोक्षपदाप्तये ॥ ३०.३५ ॥
दुग्धाक्तैर्जुहुयात्सहस्रममृताकाण्डैस्तु दीर्घायुषे
दूर्वाणां त्रितयैस्तथा घृतपयःसिक्तैर्घृतेनैव वा।
लक्ष्म्यै कोकनदैश्च शोणरुचिभिस्त्रिस्वादुयुक्तैस्तथा
रक्तैरुत्पलकैस्तदह्नि विकचैर्बैल्वप्रसूनैरपि ॥ ३०.३६ ॥
अनुदिनमघशान्त्यै संयतात्मा सहस्रं
प्रतिजुहुतु तिलैर्वा मन्त्रविन्मासमेकम्।
अपि दिनकरसंख्यं भोजयीत द्विजाती
न्विविधरसविशिष्टैर्भक्तितो भोज्यजातैः ॥ ३०.३७ ॥
शतं शतं प्रातरतन्द्रितोद्यतो
जपेद्द्विजो मन्त्रमिमं शताक्षरम्।
अरोगजुष्टं बहुलेन्दिरायुतं
शतं स जीवेच्छरदां सुखेन सः ॥ ३०.३८ ॥
सर्वान्कामानवाप्नोति मन्त्रमेनं जपेत्तु यः।
सर्वं साधयते मन्त्री अस्त्रशस्त्रादिलक्षणम् ॥ ३०.३९ ॥
प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्री च।
जप्त्वा शताक्षरी स्यादिहपरलोकप्रसिद्धये दिनशः ॥ ३०.४० ॥
मनुममुमघशान्त्यै पत्पदाद्यं प्रजप्या
द्गदगणरहितायाप्यायुषेऽनुष्टुबाद्यम्।
विमलमतिररातिध्वंसने त्रिष्टुबाद्यं
दिनमनु दिनवक्त्रे वत्सरं संयतात्मा ॥ ३०.४१ ॥
शताक्षरमनोरयं क्रम उदीरितः संग्रहा
द्भजेदमुमतन्द्रितो दिनश एव मन्त्री रहः।
अभीष्टफलसिद्धये सुयशसे च दीर्घायुषे
ऽप्यशेषजनरञ्जनाय चिरमिन्दिरावाप्तये ॥ ३०.४२ ॥
संवादसूक्तविहितं
विधानमथ साङ्गदेवतारूपम्।
वक्ष्यामि साधकाना
मनुदिनमभिवाञ्छितप्रदानकरम् ॥ ३०.४३ ॥
ऋषिरपि संवननोऽस्या
नुष्टुप्च त्रिष्टुबुच्यते च्छन्दः।
संवादाद्यः प्रोक्तः
संज्ञानाद्यश्च देवता वह्निः ॥ ३०.४४ ॥
ब्रह्माख्यो हृदयमनुः शिरश्च विष्णू
रुद्रः स्यादिह तु शिखेश्वरश्च वर्म।
नेत्रे द्वे भवति सदाशिवस्तथास्त्रं
सर्वात्मेत्यथ कथितं षडङ्गमेवम् ॥ ३०.४५ ॥
धवलनलिनराजच्चन्द्रमध्ये निषण्णं
करविलसितपाशं साङ्कुशं साभयं च।
सवरदममलेन्दुक्षीरगौरं त्रिणेत्रं
प्रणमत सुरवक्त्रं मङ्क्षु संवादयन्त्रम् ॥ ३०.४६ ॥
सहस्रकाणां दशभिश्चतुर्भिर
प्यथो सहस्रैश्च चतुर्भिरन्वितम्।
जपेन्मनुं सम्यगथाभिदीक्षितः
पयोन्धसान्ते जुहुयाद्दशांशकम् ॥ ३०.४७ ॥
यजेत्पुराङ्गैश्च तदर्चनाविधौ
पुनर्द्वितीयावरणेऽग्निमूर्तिभिः।
अनन्तरं च त्रिदिवेश्वरादिभिः
क्रमेण वह्निं विधिनेति पूजयेत् ॥ ३०.४८ ॥
संवादसूक्ते विधिनेत्यनेन
संसाधिते कर्म करोतु मन्त्री।
चतुःशतं चापि दशोत्तरेण
चतुश्चतुष्कं प्रजपेद्धुनेद्वा ॥ ३०.४९ ॥
पायसेन मधुरत्रयभाजा
विप्रराजतरुजैः कुसुमैर्वा।
सर्पिषा स्तनजवृक्षसमिद्भि
र्वाञ्छितार्थविधये प्रजुहोतु ॥ ३०.५० ॥
जुहुयात्कलाचतुष्कैः
प्रत्यृचमायोज्य कादिवर्गचतुष्कैः।
तद्वच्च पयशलाद्यै
र्वर्गैः संयोज्य पूर्ववन्मतिमान् ॥ ३०.५१ ॥
तद्वदृचं प्रतियोज्य
त्रिष्टुप्पादांश्च पूर्वसंख्येन।
जुहुयात्सर्पिःसिक्तं
पायसमचिरेण कार्यसमवाप्त्यै ॥ ३०.५२ ॥
प्रतिपादमथर्क्पादं
प्रतियोज्य जुहोतु पूर्ववन्मतिमान्।
तेनाभीष्टावाप्ति
र्नचिरेण नरस्य हस्तगा भवति ॥ ३०.५३ ॥
अक्षरपादात्ित्रष्टु
ब्युक्तैः सूक्तैस्तु पूर्वसंख्येन।
जुहुयात्समाजरूपं
संवादयितुं प्रतर्पयेद्वाग्भिः ॥ ३०.५४ ॥
उद्दिश्य यद्यदिह मन्त्रितमो जुहोति
सूक्तैरमा निगदितैस्त्रिविधैश्च मन्त्रैः।
व्यस्तैर्यथाविभवतो विधिवत्समस्तै
स्तत्तस्य सिध्यति समग्रमयत्नमेव ॥ ३०.५५ ॥
ऋग्वारुणी ध्रुवा स्वाद्या या सा त्रिष्टुब्निगद्यते।
ऋषिर्वसिष्ठस्त्रिष्टुप्च च्छन्दो वारीशदवता ॥ ३०.५६ ॥
अष्टभिः सप्तभिः षड्भिः पुनस्तावद्भिरक्षरैः।
षडङ्गानि विधेयानि तन्मन्त्रसमुदीरितैः ॥ ३०.५७ ॥
अङ्गुल्यग्रससंधिपायुशिवसंज्ञाधारनाभिष्वथो
कुक्षौ पृष्ठहृदोरुरोजगलदोःसंध्यग्रवक्त्रेषु च।
गण्डघ्राणविलोचनश्रवणयुग्भ्रूमध्यमध्येषु के
सर्वाङ्गेषु तथा न्यसेद्विशदधीर्वर्णैः समर्थैः क्रमात् ॥ ३०.५८ ॥
अच्छांशुकाभरणमाल्यविलेपनाढ्यः
पाशाङ्कुशाभयवरोद्यतदोः सरोजः।
स्वच्छारविन्दवसतिः सुसितः प्रसन्नो
भूयाद्विभूतिविधये वरुणश्चिरं वः ॥ ३०.५९ ॥
अङ्गैरष्टभिरहिपै
र्दिशाधिपैः समभिपूज्य वारीशम्।
कलशैः पुनरभिषिञ्चे
त्परमगुरुर्मन्त्रजापिनं शिष्यम् ॥ ३०.६० ॥
वसुभिः प्रसाद्य देशिक
मथ शिष्यो मनुमिमं जपेल्लक्षम्।
जुहुयाच्च दुग्धपक्वै
रन्नैरयुतं घृताप्लुतैर्मतिमान् ॥ ३०.६१ ॥
ऋगियमृणमोचनी स्या
ज्जपैर्हुतैस्तर्पणैश्च मन्त्रविदः।
संप्राप्तदुर्गतेरपि
सद्यो हृद्यां च संवहेल्लक्ष्मीम् ॥ ३०.६२ ॥
इक्षोः सितैश्च शकलै
र्घृतसंसिक्तैश्चतुर्दिनं जुहुयात्।
सकलोपद्रवशान्त्यै
तथर्णमुक्त्यै च संपदे सुचिरम् ॥ ३०.६३ ॥
वैतससमिदयुतहुता
द्वृष्टिमकालेऽपि वितनुते वरुणः।
गव्यक्षीरसमेता
त्ित्रदिनकृताद्दिनमुखेषु मुदितमनाः ॥ ३०.६४ ॥
शतभिषजि समुदितेऽर्के
चतुःशतं पायसं हुनेत्सघृतम्।
ऋणमोचनाय लक्ष्म्यै
जनसंवननाय शुक्रवारे वा ॥ ३०.६५ ॥
पाशाबद्धं वैरिण
मङ्कुशसंप्रोतमम्बुधेः पारे।
ध्यायन्परे क्षिपन्तं
वरुणं जुहुयाच्च वा तथा प्रजपेत् ॥ ३०.६६ ॥
पाशनिबद्धं वैरिण
मसिना च्छित्वाशु नाशयन्तममुम्।
ध्यायन्वेतससमिधा
गोमूत्रयुजा हुनेत्तदपहत्यै ॥ ३०.६७ ॥
दौग्धान्नैर्भृगुवारे
घृतसंसिक्तैः कृतश्च हवनविधिः।
ऋणमोक्षदश्च विविधो
पद्रवशमकृद्रमाकरः प्रोक्तः ॥ ३०.६८ ॥
पश्चिमसंध्यासमये
पश्चिमवदनोऽनलं समाराध्य।
ऋचमेनामभिजप्या
च्चतुःशतं सकलदुःखनाशाय ॥ ३०.६९ ॥
शालीघृतसंसिक्ताः
सरिदन्तरतो जुहोतु परसेनाम्।
संस्तम्भयितुं त्रिदिनं
सुमना मन्त्री चतुःशतावृत्त्या ॥ ३०.७० ॥ ।
प्रत्यङ्मुखोऽथ मन्त्री
प्रतर्पयेद्वा जलैः सुशुद्धतरैः।
यः सोऽप्युपद्रवाणां
रुन्धेन्निवहं श्रियं समृच्छति च ॥ ३०.७१ ॥
बहुना किमनेन मन्त्रिमुख्यो
मनुनाशु प्रतिसाधयेदभीष्टम्।
हवनक्रिययाथ तर्पणैर्वा
सजपैः पाशभृतो महामहिम्नः ॥ ३०.७२ ॥
अथ लवणमनुं वदामि साङ्गं
सजपं सप्रतिपत्तिकं सहोमम्।
विधिवद्विहितेन येन सर्वां
जगतीमात्मवशे करोति मन्त्री ॥ ३०.७३ ॥
लवणाम्भसि चेत्याद्या द्वितीया लवणे इति।
दहेति च तृतीया स्यात्सदग्ध्वेति चतुर्थ्यपि ॥ ३०.७४ ॥
ऋक्पञ्चमी तु या ते स्याद्यथा प्रोक्तमथर्वणि।
ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम् ॥ ३०.७५ ॥
चिट्यक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते।
पञ्चभिश्च त्रिभिरपि पञ्चभिः पञ्च चाक्षरैः ॥ ३०.७६ ॥
सपञ्चभिर्युगार्णेण जातियुक्तैः समाहितः।
अङ्गिराः स्यादृषिश्छन्दोऽनुष्टुबत्रैव देवता।
अग्निरात्री तथा दुर्गा भद्रकाली समीरिता ॥ ३०.७७ ॥
अरुणोऽरुणपङ्कजसंनिहितः
स्रुवशक्तिवराभययुक्तकरः।
अमितार्चिरजात्तगतिर्विलस
न्नयनत्रितयोऽवतु वो दहनः ॥ ३०.७८ ॥
नीलवरांशुककेशकलापा
नीलतनुर्निबिडस्तनभारा।
साङ्कुशपाशसशूलकपाला
यामवती भवतोऽवतु नित्यम् ॥ ३०.७९ ॥
करकमलविराजच्चक्रशङ्खातिशूला
परिलसितकिरीटा पातितानेकदैत्या।
त्रिणयनलसिताङ्गी तिग्मरश्मिप्रकाशा
पवनसखनिभाङ्गी पातु कात्यायनी वः ॥ ३०.८० ॥
सुरौद्रसितदंष्ट्रिका त्रिणयनोर्ध्वकेशोल्बणा
कपालपरशूल्लसड्डमरुका त्रिशूलाकुला।
घनाघननिभा रणद्रुचिरकिङ्किणीमालिका
भवद्विभवसिद्धये भवतु भद्रकाली चिरम् ॥ ३०.८१ ॥
खेटासिमुसलतोमर
कपालशक्तीः सपाशसृणि दधती।
दंष्ट्रोग्रा सिंहस्था
৷৷.रात्रिकालिका ध्येया ॥ ३०.८२ ॥
अयुतं नियतो मत्रमृक्पञ्चकसमन्वितम्।
प्रजपेत्ित्रसहस्रं वा सम्यगेनं समाहितः ॥ ३०.८३ ॥
दशांशेन हुनेत्सिद्ध्यै हविषा घृतसंयुजा।
एवं कृते प्रयोगार्हो मन्त्री भूयान्न चान्यथा ॥ ३०.८४ ॥
वह्निरात्री वरे स्यातां वश्याकर्षणकर्मणोः।
दुर्गाकाल्यौ तथा देव्यौ शस्ते मारणकर्मणि ॥ ३०.८५ ॥
आरभ्य कर्मकृन्मन्त्री तृतीयां कृष्णपक्षजाम्।
संदीक्षितो भवेत्पूते मन्दिरे मन्त्रजापवान् ॥ ३०.८६ ॥
निखन्यात्तत्र कुण्डं च दोर्मात्रं त्र्यश्रमेखलम्।
चतुष्कं सुन्दराकारं पुत्तलीनां च कारयेत् ॥ ३०.८७ ॥
एतां साध्यर्क्षवृक्षेण शालिपिष्टेन चापराम्।
चक्रीकरमृदा चान्यां मधूच्छिष्टेन चेतराम् ॥ ३०.८८ ॥
तासु हृद्देशलिखितसाध्याख्यासु समाहितः।
सम्यक्संस्थापयेत्प्राणान्साध्यादानीय साधकः ॥ ।३०.८९ ॥
उक्तानां दारवीं कुण्डे खनेन्मन्त्राभिमन्त्रिताम्।
विष्टरां विष्टरस्याधः पादस्थाने च मृन्मयीम् ॥ ३०.९० ॥
लम्बयेदम्बरे सिद्धमयीमूर्ध्वमधोमुखीम्।
पुनः कृष्णाष्टमीरात्रौ पूर्वयामे गते सति ॥ ३०.९१ ॥
रक्तमाल्याम्बरो मन्त्री कृतरक्तानुलेपनः।
सम्यक्कृतलिपिन्यासप्राणायामादिकः शुचिः ॥ ३०.९२ ॥
कुडुबं पोतलवणं सुश्लक्ष्णं परिचूर्णितम्।
दधिक्षौद्रघृतक्षीरैः प्रोक्षयित्वा सुशोधितम् ॥ ३०.९३ ॥
आलोड्य गुडमध्वाज्यैर्विस्पष्टावयवामथ।
तेन पुत्तलिकां मन्त्री चार्वङ्गीं कारयेत्सुधीः ॥ ३०.९४ ॥
तस्यां च स्थापयेत्प्राणान्गुर्वादेशविधानतः।
अष्टोर्ध्वशतसंख्यं वा तथाष्टोर्ध्वसहस्रकम् ॥ ३०.९५ ॥
ऋक्पञ्चकं पञ्चविंशत्संख्यं प्रतिकृतिं स्पृशन्।
जपित्वाङ्गीनि विन्यस्येत्स्वाङ्गप्रतिकृतावपि ॥ ३०.९६ ॥
सतारैश्चिटिमन्त्रार्णैश्चतुर्विंशतिसंख्यकैः।
शिरोललाटदृक्कर्णनासास्यचिबुकेष्वपि ॥ ३०.९७ ॥
सकण्ठहृदयोरोजकुक्षिनाभिकटीषु च।
मेढ्रपायूरुजान्वाख्यजङ्घाङ्घ्रिषु च विन्यसेत् ॥ ३०.९८ ॥
अधो गुह्यादभेदः स्यादूर्ध्वं भेदेऽन्विते सति।
आत्मन्येवं प्रविन्यस्य पुनः प्रतिकृतौ न्यसेत् ॥ ३०.९९ ॥
अङ्गुष्ठसंधिप्रपदजङ्घाजानूरुपायुषु।
सलिङ्गनाभिजठरहृदयेषु स्तनद्वये ॥ ३०.१०० ॥
कंधराचिबुकास्येषु घ्राणदृक्कर्णयुग्मके।
ललाटशिरसोर्न्यस्येत्प्रतिमायां च संहरेत् ॥ ३०.१०१ ॥
उपलिप्याथ कुण्डं तद्बहिर्गोमयवारिणा।
साध्यसंमुख आसीन आदध्याद्धव्यवाहनम् ॥ ३०.१०२ ॥
प्रज्वाल्य साध्योडुतरुकाष्टैरभ्यर्च्य दीप्तिमान्।
राजीकुशीतपुष्पाद्भिश्चषके रजतादिके ॥ ३०.१०३ ॥
देवतां प्रतिपाद्यार्घ्यं दत्त्वा कार्यार्थसिद्धये।
उपतिष्ठेद्धुतस्यादावन्ते मन्त्रैरितीरितैः ॥ ३०.१०४ ॥
त्वमाननममित्रघ्न निशायां हव्यवाहन।
हविषा मन्त्रदत्तेन तृप्तो भव मया सह ॥ ३०.१०५ ॥
जातवेदो महादेव तप्तजाम्बूनदप्रभ।
स्वाहपते विश्वमक्ष लवणं दह शत्रुहन् ॥ ३०.१०६ ॥
ईशे ईश्वरि शर्वाणि ग्रस्तं मुक्तं त्वया जगत्।
महादेवि नमस्तुभ्यं वरदे कामदा भव ॥ ३०.१०७ ॥
तमोमयि महादेवि महादेवस्य सुव्रते।
स्त्रिया मे पुरुषं गत्वा वशमानय देहि मे ॥ ३०.१०८ ॥
दुर्गे दुर्गादिरहिते दुर्गसंशोधनार्गले।
चक्रशङ्खधरे देवि दुष्टशत्रुभयंकरि ॥ ३०.१०९ ॥
नमस्ते दह शत्रुं मे वशमानय चण्डिके।
शाकंभरि महादेवि शरणं मे भवानघे ॥ ३०.११० ॥
भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि।
सपत्नान्मे दह दह पच शोषय तापय ॥ ३०.१११ ॥
शूलादिशक्तिवज्राद्यैरुत्कृत्योत्कृत्य मारय।
महादेवि महाकालि रक्षात्मानं कुमारिके ॥ ३०.११२ ॥
पुनः प्रतिकृतेरङ्गसप्तकं निशितायसा।
दक्षपादादिकं छित्वा पञ्चर्चं प्रजपेन्मनुम् ॥ ३०.११३ ॥
साध्यं संस्मृत्य शितधीर्जुहुयात्सप्तसंख्यया।
दक्षिणं चरणं पूर्वं ततो दक्षार्धकं पुनः ॥ ३०.११४ ॥
दक्षहस्तं तृतीयं स्याद्गलादूर्ध्वं चतुर्थकम्।
पञ्चमं वामहस्तं स्यात्षष्ठं वामार्धमेव च ॥ ३०.११५ ॥
सप्तमं वामपादं स्यादन्यापि स्याद्धुतक्रिया।
सप्त सप्त विभागो वा क्रमादङ्गेषु सप्तसु ॥ ३०.११६ ॥
एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिर्हुनेत्।
होमोऽन्यथा वा पूर्वं तु दक्षिणश्चरणो भवेत् ॥ ३०.११७ ॥
द्वितीयो दक्षिणकरस्तृतीयः शिर उच्यते।
वामबाहुश्चतुर्थस्तु मध्यादूर्ध्वं तु पञ्चकम् ॥ ३०.११८ ॥
अधोभागस्तु षष्ठः स्याद्वामभागस्तु सप्तकः।
हुत्वैवं पूर्वसंप्रोक्तैरुपस्थापकमन्त्रकैः ॥ ३०.११९ ॥
अर्चयित्वा दण्डदीर्घं प्रणमेद्धव्यवाहनम्।
सकर्षस्वर्णयुक्ताङ्गां शोणां दद्यात्सतर्णकाम् ॥ ३०.१२० ॥
दक्षिणां सप्तकर्षां तु दद्यान्मारणकर्मणि।
अंशुकं रुचकं धान्यं दत्त्वा संप्रीणयेद्गुरुम् ॥ ३०.१२१ ॥
एवं कृतेन मन्त्रीष्टं लभते होमकर्मणा।
अथ वा मारणाकाङ्क्षी साध्यवामाङ्घ्रिपांसुभिः ॥ ३०.१२२ ॥
सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः।
हिङ्गुत्रिकटुकोपेतैर्महिषीमूत्रपेषितैः ॥ ३०.१२३ ॥
वराहपारावतयोः पुरीषेण समन्वितैः।
एतैश्च संमिश्रयतु लोणं पूर्वोक्तसंख्यकम् ॥ ३०.१२४ ॥
पूर्ववत्पुत्तलीं तेन लोणचूर्णेन कारयेत्।
प्राणान्प्रतिष्ठापयेच्च तत्र पूर्वोक्तसंख्यकम् ॥ ३०.१२५ ॥
पूर्वोक्ताभिः पुत्तलीभिः कुण्डे दक्षिणदिङ्मुखे।
दुर्गां वा भद्रकालीं वा प्रतिपद्य यथेरिताम् ॥ ३०.१२६ ॥
उपस्थिते त्वर्धरात्रे सव्यपाणिस्थशस्त्रकः।
वामपादं समारभ्य जुहुयात्पूर्वसंख्यया ॥ ३०.१२७ ॥
समापयेद्दक्षपादं विकारेणायसो वशी।
त्रिसप्ताहप्रयोगेण मारयेद्रिपुमात्मनः ॥ ३०.१२८ ॥
तस्यां रात्र्यामुपोष्याथ परेऽहनि च साधकः।
प्राणायामादिभिरपि गायत्रीजपहोमकैः ॥ ३०.१२९ ॥
विमुक्तपापो भूत्वा तु स पुनर्विहरेत्सुखम्।
यां कल्पयन्त्यपामार्गराजीघृतहवींषि च ॥ ३०.१३० ॥
पृथगष्टोत्तरशतावृत्त्या हुत्वा बलिं हरेत्।
यो मे पुरस्तादित्यादिदशमन्त्रैर्बलिं हरेत् ॥ ३०.१३१ ॥
इति लवणमनोर्विधानमेवं
प्रणिगदितं विधिवत्प्रयोगभिन्नम्।
विधिममुमथ साधु संप्रयुञ्ज्या
द्व्रजति फलं निजवाञ्छितं चिराय ॥ ३०.१३२ ॥
अथ वा लवणैः परागभूतै
र्मधुराक्तैः पुनरष्टमीनिशाद्यम्।
जुहुयात्तु चतुर्दशीनिशान्तं
कुडुबोन्मानितमेभिरेव मन्त्रैः ॥ ३०.१३३ ॥
नारीनरान्वा नगरं नृपान्वा
ग्रामं जनान्वा मनसोऽनुकूलान्।
वशीकरोत्येव हुतक्रियेयं
चिराय नैवात्र विचारणीयम् ॥ ३०.१३४ ॥
वस्तुनोक्तेन क्रियतां साङ्गोपाङ्गेन पुत्तली।
तस्यां तु साध्यलिङ्गायां प्राणाद्यर्पणमाचरेत् ॥ ३०.१३५ ॥
निक्षिप्य हृदये किंचित्कीटान्तां संस्पृशन्पुनः।
प्राणार्पणेन यत्कार्यं क्षिप्रं कुर्याद्विचक्षणः ॥ ३०.१३६ ॥
अथास्य हृदये स्मृत्वा वर्तुलं वायुमण्डलम्।
कृष्णषड्बिन्दुगं वायुं वायुगर्भं विचिन्तयेत् ॥ ३०.१३७ ॥
तत्र भूतास्तु तन्मात्राशब्दाद्यं श्रवणादिकम्।
धातून्मनश्च बुद्धिं च संक्षिपेदप्यहंक्रियाम् ॥ ३०.१३८ ॥
तत्सर्वं तेन चण्डेन समीरेण समीरितम्।
अवामनासारन्ध्रेण स्वसमीपमुपानयेत् ॥ ३०.१३९ ॥
प्रवेशयेच्च पुत्तल्यां पुनस्तेनैव वर्त्मना।
प्राणप्रतिष्ठामन्त्रेण लब्धप्राणादिकां तथा ॥ ३०.१४० ॥
याद्यष्टकान्भ्रमरवद्धृदयाम्बुजस्थां
तत्केसरार्पितपरागपरिष्कृताङ्गान्।
संचिन्त्य साध्यहृदयेऽपि तथैव भूयः
साध्याम्बुजस्थानलिपिस्वकीयैः ॥ ३०.१४१ ॥
हृत्पद्ममध्यस्थिततन्तुजालै
रेकैकमेकोत्पतितैः क्रमेण।
निश्वासमात्रेण सुखं प्रविष्टा
स्तत्प्राणमार्गेण हरेद्द्विरेफान् ॥ ३०.१४२ ॥
वायव्याग्नेयैन्द्रवारीण्महेश
क्रव्यात्सोमप्रेतनाथाश्रितेषु।
किञ्जल्केषु प्राणभूतद्विरेफां
स्तत्संबन्धांस्तन्तुभिर्बिन्दुभूतैः ॥ ३०.१४३ ॥
अवामनासामार्गेणैवाकृष्याकृष्य पुत्तलीम्।
प्रवेशयेत्सुधीः प्राणान्प्राणाद्यर्पणयोगतः ॥ ३०.१४४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रिंशः पटलः ॥