२९

अथ वक्ष्यामि द्यायास्त्रिष्टुभः प्रवरं विधिम्।
ऋषिच्छन्दोदेवताभिरङ्गन्यासक्रमैः सह ॥ २९.१ ॥

मारीचः काश्यपो ज्ञेय ऋषिश्छन्दः स्वयं स्मृतम्।
देवता जातवेदोऽग्निरुच्यन्तेऽङ्गान्यतः परम् ॥ २९.२ ॥

नवभिः सप्तभिः षड्भिः सप्तभिश्च तथाष्टभिः।
सप्तभिर्मूलमन्त्रेण कुर्यादङ्गानि षट् क्रमात् ॥ २९.३ ॥

अङ्गुष्ठगुल्फजङ्घासु जानूरुकटिगुह्यके।
सनाभिहृदयोरोजपार्श्वयुक्पृष्ठकेषु च ॥ २९.४ ॥

स्कन्धयोरुभयोर्मध्ये बाहुमूलोपबाहुषु।
प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च ॥ २९.५ ॥

मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु।
न्यसेन्मन्त्राक्षरान्मन्त्री क्रमाद्वा व्युत्क्रमात्तनौ ॥ २९.६ ॥

शिखाललाटदृक्कर्णयुगोष्ठरसनासु च।

सकर्णबाहुहृत्कुक्षिकटिगुह्योरुजानुषु।
जङ्घाचरणयोर्न्यस्येत्पदानि त्रिष्टुभः क्रमात् ॥ २९.७ ॥

भास्वद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे

ष्वस्त्रासाख्यत्रिशूलानरिगणभयदां तर्जनीं चादधाना।

चर्माण्युद्धूर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभि
र्दद्यात्कार्शानवीष्टांस्त्रिणयनलसिता कापि कात्यायनी वः ॥ २९.८ ॥

इति विन्यस्तदेहस्तु कुर्याज्जप्यादिकाः क्रियाः।
दीक्षा प्रवर्त्यते पूर्वं यथावद्देशिकोत्तमैः ॥ २९.९ ॥

ततोऽस्त्रक्लृप्तिः संप्रोक्ता स्यात्प्रयोगविधिस्ततः।
दीक्षकाख्याक्षराण्यादौ शक्त्यावेष्ट्य ततो बहिः ॥ २९.१० ॥

यन्त्रं षड्गुणितं कृत्वा दुर्वर्णलसिताश्रकम्।
बहिरष्टदलं पद्मं प्रोक्तलक्षणलक्षितम् ॥ २९.११ ॥

अत्र पीठं यजेन्मन्त्री क्रमात्सनवशक्तिकम्।
जया च विजया भद्रा भद्रकाली सुदुर्मुखी ॥ २९.१२ ॥

व्याघ्रसिंहमुखीदुर्गात्रिष्टुभो नव शक्तयः।
तत्रादाय घटं दिव्यक्वाथमूत्रपयोम्भसाम् ॥ २९.१३ ॥

एकेन पूरयित्वास्मिन्नावाह्य च विभावसुम्।
अङ्गावृतेर्बहिग्न्र्यादिपादाष्टकविनिःसृताः ॥ २९.१४ ॥

मूर्तीरभ्यर्चयेदग्नेर्जातवेदादिकाः क्रमात्।
पृथिव्यम्ब्वनलेरानप्यात्मनेपदसंयुतान् ॥ २९.१५ ॥

अर्चयेद्दिक्षु कोणेषु निवृत्त्यादीर्यथाक्रमम्।
दिक्ष्वेकादशसंख्याः स्युर्जागताद्यर्णशक्तयः ॥ २९.१६ ॥

लोकपालांश्च तद्धेतीर्विधिनेति समर्चयेत्।
जागता तापिनी वेदगर्भा दाहनरूपिणी ॥ २९.१७ ॥

सेन्दुखण्डा सुम्भहन्त्री सनभश्चारिणी तथा।
वागीश्वरी मदवहा सोमरूपा मनोजवा ॥ २९.१८ ॥

मरुद्वेगा रात्रिसंज्ञा तीव्रकोपा यशोवती।
तोयात्मिका तथा नित्या दयावत्यपि हारिणी ॥ २९.१९ ॥

तिरस्क्रिया वेदमाता तथान्या दमनप्रिया।
समाराध्या नन्दिनी च परा रिपुविमर्दिनी ॥ २९.२० ॥

षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्रिसंज्ञका।
निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ॥ २९.२१ ॥

वेदना वह्निगर्भा च सिंहवाहाह्वया तथा।
धुर्या दुर्विषहा चैव रिरंसा तापहारिणी ॥ २९.२२ ॥

त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः।
अभिषिच्य पुनः शिष्यं कुम्भादीन्गुरुराहरेत् ॥ २९.२३ ॥

ईदृशं यन्त्रमारुह्य जपेच्छिष्यः सुयन्त्रितः।
मन्त्राक्षरसहस्रं तु सिद्ध्यर्थं गुरुसंनिधौ ॥ २९.२४ ॥

सर्वजापेषु संज्ञेया गायत्र्या द्विगुणो जपः।
कर्तव्यो वाञ्छितार्थाप्त्यै रक्षायै कार्यसिद्धये ॥ २९.२५ ॥

तिलराज्यनलक्षीरवृक्षेध्महविराज्यकैः।
सर्पिःसिक्तैः क्रमाद्धोमः साधयेदीप्सितं नृणाम् ॥ २९.२६ ॥

चत्वारि चत्वारिंशच्च चतुःशतसमन्वितम्।
चतुःसहस्रसंयुक्तं प्रोक्तैरेतैर्हुतक्रिया ॥ २९.२७ ॥

एवं संसिद्धमन्त्रस्य स्युरस्त्राद्याः क्रिया मताः।
चत्वारि चत्वारिंशच्च वर्णानामस्त्रमिष्यते ॥ २९.२८ ॥

विलोमपाठो वर्णानामस्त्रमाहुर्मनीषिणः।
पादाष्टकमिदं विद्यात्ततोऽष्टाङ्गो मनुः स्वयम् ॥ २९.२९ ॥

जप्तुकामो मनुं त्वेनं पादांस्तु प्रतिलोमतः।
पठेत्तथा हि मन्त्रोऽयं क्षाल्यते दुष्टदूषितः ॥ २९.३० ॥

आद्याः पञ्चाक्षरपदास्त्रयः सप्ताक्षरः परः।

पञ्चमश्चाथ षष्ठश्च द्वौ तु पादौ ष़डक्षरौ।
पञ्चाक्षरौ तदन्त्यौ च तेषां भावो निगद्यते ॥ २९.३१ ॥

ग्न्याद्यं ज्ञानेन्द्रियं कामं द्वितीयं पाञ्चभौतिकम्।
तृतीयं धातवः सप्त चतुर्थं वर्णसप्तकम् ॥ २९.३२ ॥

षडूर्मयः पञ्चमं स्यात्षष्ठः षट्कौशिको मतः।
सप्तमश्चाष्टमः पादः शब्दाद्यं वचनादिकम् ॥ २९.३३ ॥

साङ्गः सत्प्रतिपत्तिकः सगुरुपद्वन्द्वप्रमाणक्रमा

ज्जाप्येत्यादिषडन्तकोऽन्तविगतो वर्णप्रतीपस्तथा।

गुर्वादेशविधानतश्च विविधध्यानक्रियो मन्त्रिणा
तत्तत्कार्यसमाप्तयेऽखिलविपद्ध्वान्तौघभानूदयः ॥ २९.३४ ॥

अनुलोमजपेऽङ्गानामपि पाठोऽनुलोमतः।
प्रतिलोमानि तानि स्युः प्रतिलोमविधौ तथा ॥ २९.३५ ॥

अन्तः पादप्रतीपे हि तथा तानि भवन्ति हि।
वर्णप्रतीपे च तथा मात्राण्यप्रतिलोमके ॥ २९.३६ ॥

प्रतिपत्तिविशेषांश्च तत्र तत्र विचक्षणः।
गुर्वादेशविधानेन प्रविदध्यान्न चान्यथा ॥ २९.३७ ॥

जपः पुरोक्तसंख्यः स्याद्धुतक्लृप्तिस्तथा भवेत्।
क्षीरद्रुमसमिद्राजितिलहव्यघृतैः क्रमात् ॥ २९.३८ ॥

अथ वा पञ्चगव्योत्थचरुणा हुतमुच्यते।
प्रत्यङ्मुखेन कर्तव्यं प्रायो जपहुतादिकम् ॥ २९.३९ ॥

तत्र स्युर्मन्त्रवर्णेभ्यस्तावत्यो वह्निदेवताः।
प्रत्येकमावृतास्तास्तु पञ्चकेन नतभ्रुवाम् ॥ २९.४० ॥

तत्पञ्चकं च प्रत्येकमावृतं पञ्चभिः पृथक्।
प्रत्येकं पञ्चकानां तु षो़डशावृतिरिष्यते ॥ २९.४१ ॥

प्रत्येकं षोडशानां तु कोटयः परिचारिकाः।
इत्येकाक्षरजात्पूर्वमेकस्मात्षोडशात्मकात् ॥ २९.४२ ॥

एतावत्यस्तु जातास्तद्विस्तरं पुनरूहयेत्।
तत्र त्विन्द्रियजाः प्रोक्ता देवतास्तूर्ध्वदृष्टयः ॥ २९.४३ ॥

तिर्यञ्चो भौतिकाः प्रोक्ता धातूत्थास्तूभया नराः।
उर्मिजास्तूर्ध्ववदनास्तिर्यञ्चश्चाथ कोशजाः ॥ २९.४४ ॥

क्लीबा मुखद्वयोपेता गोचरोत्थाः स्त्रियो मताः।
अधोमुखाश्च तिर्यञ्च इत्युक्तो मूर्तिसंग्रहः ॥ २९.४५ ॥

आभिः सर्वाभिरपि च शिखाभिर्जातवेदसः।
व्याप्यते परराष्ट्रेषु वृक्षगुल्मतृणादिकम् ॥ २९.४६ ॥

आरम्भे मानुपाणि स्युर्नक्षत्राण्याभिचारके।
कर्माण्यासुरभानि स्युर्दैवानि स्युस्तथा हृतौ ॥ २९.४७ ॥

अन्त्याश्वीन्द्वर्कादिति

गुरुहरिमित्रानिलाह्वया देवाः।

पूर्वोत्तरत्रयी यम
हरविधयो मानुषाः परेऽसुरभाः ॥ २९.४८ ॥

नन्दास्वारभ्य रिक्तासु प्रयोज्यात्मनि संहरेत्।

भद्रासु संग्रहं कुर्याज्जयासु च विशेषतः।
आरेणारभ्य मन्देन प्रयोज्यादित्यवारके ॥ २९.४९ ॥

संहरेत्संग्रहं कुर्याद्वारे त्वाचार्ययोः सुधीः।
चरोर्विसृज्योभयकैराहरेदभ्यसेत्स्थिरैः ॥ २९.५० ॥

दिनास्त्रं दिनकृद्युक्तं वारग्रहसमन्वितम्।
कृत्तिकादि च कृत्यान्तं कृत्यास्त्रं जातवेदसः ॥ २९.५१ ॥

नक्षत्रात्मा हुताशः स्यात्तिथ्यात्मेन्दुरुदाहृतः।
ताभ्यां करोति दिनकृद्विसर्गादानकर्मणी ॥ २९.५२ ॥

रक्षानिग्रहकर्मणोरनु पराग्वक्त्राः प्रधानाकृति

प्रख्या मन्त्रविधानविच्च दिशि दिश्येकादशैकादश।

संस्थाप्य क्रमशोऽक्षरोदितरुचीः शक्तीर्जपेद्वा मनुं
सम्यग्वा जुहुयादनुप्रतिगतं सिद्ध्यै समाराधयेत् ॥ २९.५३ ॥

पीतायोमुष्टिगदा

हस्ता महिषाज्यसंयुतपुलाकैः।

वैभीतारिष्टसमि
त्कोद्रवकैः स्तम्भयेच्च हुतविधिना ॥ २९.५४ ॥

सुसिता पाशाङ्कुशयु

ग्विगलद्वारिप्रवाहसंभिन्ना।

वेतससमिदाहुत्या
मधुरयुजा मङ्क्षु वर्षयेद्दुर्गा ॥ २९.५५ ॥

रक्ता पाशाङ्कुशिनी

निशि फलिनीकेसरोद्भवैः कुसुमैः।

चन्दनरससंसिक्तै
र्होमाद्दुर्गा वशीकरोति जगत् ॥ २९.५६ ॥

लवणैस्त्रिमधुरसिक्तै

स्तत्कृतया वा जुहोतु पुत्तल्या।

उडुतरुकाष्ठैर्नक्तं
सप्ताहान्नृपतिमपि वशीकुरुते ॥ २९.५७ ॥

सकपालशूलपाशा

ङ्कुशहस्तारुणतरा तथा दुर्गा।

आकर्षयते लावण
पुत्तल्या त्रिमधुराक्तया होमात् ॥ २९.५८ ॥

ध्यात्वा धूम्रां मुसल

त्रिशिखकरामस्थिभिश्च तीक्ष्णाक्तैः।

कार्पासानां निम्ब
च्छदमेषघृतैर्हुताच्च विद्वेषः ॥ २९.५९ ॥

धूम्रा तर्जनिशूला

हितहस्ता विषदलैः समहिषाज्यैः ॥

होमाच्च मरिचसर्षप
चरुभिरजारुधिरसेचितैरटयेत् ॥ २९.६० ॥

शिखिशूलकराग्निनिभा

सर्षपतैलाक्तमत्तबीजैश्च।

मरिचैर्वा राजियुतै
र्होमादहितान्विमोहयेद्दुर्गा ॥ २९.६१ ॥

कृष्णा शूलासिकरा

रिपुदिनवृक्षोद्भवैः समित्प्रवरैः।

व्रणकृद्धृतसंसिक्तै
र्होमान्मासेन मारयेद्दुर्गा ॥ २९.६२ ॥

नक्षत्रवृक्षसमिधो

मरिचानि च तीक्ष्णहिङ्गुशकलानि।

मारणकर्मणि विहिता
न्यरुष्करस्नेहसिक्तानि ॥ २९.६३ ॥

नक्षत्रवृक्षसमिधां

विलिखितसाध्याभिधानकर्मवताम्।

सचतुश्चत्वारिंश
त्तत्त्वयुजां होमकर्म मरणकरम् ॥ २९.६४ ॥

मरिचं क्षौद्रसमेतं

प्रत्यक्पुष्पीपरागसंभिन्नम्।

उष्णाम्भःपरिलुलितं
प्रसेचयेदृक्षवृक्षपुत्तल्याः ॥ २९.६५ ॥

हृदये वदने च रिपोः

संमुखतः संप्रतिष्ठितोरायाः।

जूर्त्यभिभूतोऽरिः स्या
त्तत्क्वथनात्पक्षमात्रकान्म्रियते ॥ २९.६६ ॥

सैव प्रतिकृतिरसकृ

त्प्रतिष्ठितसमीरणा च विशदधिया।

तीक्ष्णस्नेहालिप्ता
विलोमजापेन तापनीयाग्नौ ॥ २९.६७ ॥

विधिना ज्वरपीडा स्या

दपघनहोमेन हानिरङ्गस्य।

सर्वाहुत्या मरणं
प्राप्नोति रिपुर्न तत्र संदेहः ॥ २९.६८ ॥

प्राक्प्रोक्तान्भूतवर्णान्दश दश युगशो बिन्दुयुक्तान्नमोन्ता

न्योनेर्मध्याश्रमध्येष्वपि पुनरथ संस्थाप्य भूताभवर्णान्।

वर्णैस्तैः साकमग्नेर्मनुमपि कुलिशाद्यैः स्वचिह्नैः समेतं
कुर्यात्कर्माणि सम्यक्पटुविशदमतिः स्तम्भनाद्यानि मन्त्री ॥ २९.६९ ॥

ऊदोद्गादिलळाः को

र्नसौ चतुर्थार्णका वसौ वाराम्।

दृष्ट्यैद्वितीयरक्षा
वह्नेरद्वन्द्वयोनिकादियषाः ॥ २९.७० ॥

मरुतः कपोलबिन्दुक

पञ्चमवर्णाः शहौ तथा व्योम्नः।

मनुषु परेष्वपि मन्त्री
कर्माणि करोतु तत्र संसिद्ध्यै ॥ २९.७१ ॥

उन्मत्तक्ष्वेलनेत्रद्रुमभवसमिधां सप्तसाहस्रिकान्तं

प्रत्येकं राजितैलालुलितमथ हुनेन्माहिषाज्यप्लुतं वा।

कृष्णाष्टम्याद्यमेवं सुनियतचरितः सप्तरात्रं निशायां
निःसंदेहोऽस्य शत्रुस्त्यजति किल निजं देहमाविष्टमोहः ॥ २९.७२ ॥

सामुद्रे च सहिङ्गुजीरकविषे साध्यर्क्षवृक्षाकृतिं

कृत्वा यो वदनाञ्जले घटकटाहादिश्रिते क्वाथयेत्।

सप्ताहं ज्वलनं जपन्विषतरोर्यष्ट्या शिरस्ताडनं
कुर्वन्सप्तदिनान्तरैर्यमपुरक्रीडापरः स्यादरिः ॥ २९.७३ ॥

अर्कस्यन्दनबद्धपन्नगमुखग्रस्ताङ्घ्रिमाशाम्बरं

न्यग्वक्त्रं तिलजाप्लुतं विषहरं दीप्तं करैर्भास्वतः।

वायुप्रेरितवह्निमण्डलमहाज्वालाकुलास्यादिकं
ध्यायन्वैरिणमुत्क्षिपेज्जलममुं मन्त्रं जपेन्मृत्यवे ॥ २९.७४ ॥

आर्द्रांशुकोऽग्निमनुना त्वथ सप्तरात्रं

सिद्धार्थतैललुलितैर्मरिचैर्जुहोतु।

आरभ्य विष्टिदिवसेऽरिनरः प्रलाप
मूर्छान्वितेन विषयीक्रियते ज्वरेण ॥ २९.७५ ॥

तालस्य पत्रे भुजपत्रके वा

मध्ये लिखेत्साध्यनराभिधानम्।

अथाभितो मन्त्रमिमं विलोमं
विलिख्य भूमौ विनिखन्य तत्र ॥ २९.७६ ॥

आधाय वैश्वानरमादरेण

समर्च्य सम्यङ्मरिचैर्जुहोतु।

तीव्रो ज्वरस्तस्य भवेत्पुनस्त
त्तोये क्षिपेद्वश्यतमः स भूयात् ॥ २९.७७ ॥

सिंहस्थाशरनिकरैः कृशानुवक्त्रै

र्धावन्तं रिपुमनुधावमानमेनाम्।

संचिन्त्य क्षिपतु जलं दिनेशबिम्बे
जप्त्वामुं मनुमपि चाटनाय शीघ्रम् ॥ २९.७८ ॥

कृत्वा स्थण्डिलमङ्गणे भगवतीं न्यासक्रमैरर्चये

द्गन्धाद्यैः पुनरन्धसा च विकिरेन्मन्त्री निशायां बलिम्।

जप्त्वा मन्त्रममुं च रोगसहिताः कृत्यानिकृत्या कृतां
स्तांस्तान्भूतपिशाचवैरिविहितान्दुःखानसौ नाशयेत् ॥ २९.७९ ॥

विधिवदभिज्वाल्यानल

मन्वहमाराध्य गन्धपुष्पाद्यैः।

संध्याजपाच्च मनुरय
माकाङ्क्षितसकलसिद्धिकल्पतरुः ॥ २९.८० ॥

कुसुमरसलुलितलोणै

र्वारुणवदनो जुहोतु संध्यासु।

मन्त्रार्णसंख्यमग्ने
रैक्येन द्रावयेदरीनचिरात् ॥ २९.८१ ॥

शुद्धैश्च तण्डुलैरपि

हविर्विनिष्पाद्य पञ्चगव्यमपि।

सघृतेन तेन जुहुया
दष्टसहस्रं समेतसंपातम् ॥ २९.८२ ॥

प्राशितसंपातस्य

स्याद्रक्षा सर्वथैव साध्यस्य।

प्राङ्गणमन्दिरयोरपि
निखनेद्द्वारे च शिष्टसंपातम् ॥ २९.८३ ॥

कृत्या नश्यति तस्मिं

न्वीक्षन्ते न ग्रहादयो भीत्या।

कर्तारमेव कुपिता
कृत्या सर्वात्मना च नाशयति ॥ २९.८४ ॥

ब्रह्मद्रुमफलकान्ते

मन्त्रितमः सप्तसप्तकोष्ठयुते।

कोणोदराणि हित्वा
मायाबीजं सकर्ममध्यगते ॥ २९.८५ ॥

विलिखेत्क्रमेण मन्त्रा

क्षरांश्च शिष्टेषु तेषु कोष्ठेषु।

तत्र मरुतः प्रतिष्ठां
विधाय विनिधाय वह्निमपि जुहुयात् ॥ २९.८६ ॥

आज्येनाष्टसहस्रं

फलकोपरि सम्यगात्तसंपातम्।

विप्रतिपत्तिधरायां
निखनेन्नश्यन्त्युपद्रवाः सद्यः ॥ २९.८७ ॥

सिकताचरुगव्याश्मक

मृदां प्रतिष्ठा विधीयते सिद्ध्यै।

प्रस्थाढकघटमाना
ग्रहपुरविषयाभिगुप्तये सिकताः ॥ २९.८८ ॥

मध्याष्टाशान्तासु च

कुण्डानामारचय्य नवकमपि।

विधिना निवपेत्क्रमशः
सिंहधनुश्छागयायिनि दिनेशे ॥ २९.८९ ॥

तिथिषु तु कालाष्टम्यां

तेषु विशाखाग्निमूलभागेषु।

वारेषु मन्दवाक्पति
वर्जं सर्वे तथा प्रशस्यन्ते ॥ २९.९० ॥

हस्तश्रवणमखासु

प्राजापत्येषु कर्म कुर्वीत।

द्वादशसहस्रसंख्यं
प्रजपेद्गायत्रमपि यथाप्रोक्तम् ॥ २९.९१ ॥

मध्ये च मूलमनुना

तदायुधैरष्टदिक्षु चक्राद्यैः।

सकपालान्तैः पृथगपि
संस्थापनकर्म निगदितं विधिवत् ॥ २९.९२ ॥

तास्ताश्च देवता अपि

परिपूज्य यथाक्रमेण मन्त्रितमः।

कुर्याद्बलिं दिनग्रह
करणेभ्यो लोकपालराशिभ्यः ॥ २९.९३ ॥

सिकताः षोडशकुडुवं

ब्रह्मद्रुमभाजने तु गव्याक्तम्।

निवपति यदि विधिना तं
देशं ग्रामं करोति चतुरब्दात् ॥ २९.९४ ॥

अर्केऽजस्थेऽब्धिगायामपरिमितजलायां समादाय शुद्धाः

संम्यक्संशोषयित्वातपमनु सिकताः शूर्पकोणैर्विशोध्य।

संसिद्धे पञ्चगव्ये सुमतिरथ विनिक्षिप्य ताः कुम्भसंस्था
मन्त्राग्नौ मन्त्रजापी द्विजतरुसमिधा भर्जयेत्कार्यहेतोः ॥ २९.९५ ॥

एवं मृदुपलचरवः

संस्थाप्यन्ते सपञ्चगव्यास्ते।

वसुधाविप्रतिपत्ति
क्षयं च पुष्टिं च कुर्वते क्रमशः ॥ २९.९६ ॥

व्रीहिभिरन्नैः क्षीरैः

समिद्भिरथ दुग्धवीरुधामाज्यैः।

मधुरत्रयमधुरतरै
र्महतीमृद्धिं करोति हुतविधिना ॥ २९.९७ ॥

यद्यद्वाञ्छति पुरुष

स्तत्तदमुष्य प्रभावतः साध्यम्।

सग्रहनक्षत्राद्यां
सगिरिपुरग्रामकाननां वसुधाम् ॥ २९.९८ ॥

साहिझषोपलमुदधिं

दहति ह मतिमानयत्नमेतेनः।

एवं प्रोत्थापयति च

मन्त्रेणानेन निशितधीर्मन्त्री ॥

पुंसा केन कियद्वा
मन्त्रस्याचक्षतेऽस्य सामर्थ्यम् ॥ २९.९९ ॥

तस्मादेनं मनुवरमभीष्टाप्तये संयतात्मा

जप्यान्नित्यं सहुतविधिरप्यादरादर्चयीत।

भक्त्या कुर्यात्सुमतिरभिषेकादिकं कर्मजातं
कर्तुं वान्यत्प्रवणमतिरत्रैव भक्तः सदा स्यात् ॥ २९.१०० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे एकोनत्रिंशः पटलः ॥