विश्वास-प्रस्तुतिः
अथाखिलार्थानुततैव शक्ति
र्युक्ता चतुर्विंशतितत्त्वभेदैः।
गायत्रिसंज्ञापि च तद्विशेषा
नथ प्रयोगान्कथयामि साङ्गान् ॥ २८.१ ॥
मूलम्
अथाखिलार्थानुततैव शक्ति
र्युक्ता चतुर्विंशतितत्त्वभेदैः।
गायत्रिसंज्ञापि च तद्विशेषा
नथ प्रयोगान्कथयामि साङ्गान् ॥ २८.१ ॥
विश्वास-प्रस्तुतिः
ताराह्वयो व्याहृतयश्च सप्त
गायत्रिमन्त्रः शिरसा समेतः।
अन्वर्थकं मन्त्रमिमं तु वेद
सारं पुनर्वेदविदो वदन्ति ॥ २८.२ ॥
मूलम्
ताराह्वयो व्याहृतयश्च सप्त
गायत्रिमन्त्रः शिरसा समेतः।
अन्वर्थकं मन्त्रमिमं तु वेद
सारं पुनर्वेदविदो वदन्ति ॥ २८.२ ॥
विश्वास-प्रस्तुतिः
जप्यः स्यादिह परलोकसिद्धिकामै
र्मन्त्रोऽयं महिततरैर्द्विजैर्यथावत्।
भूदेवा नरपतयस्तृतीयवर्णाः
संप्रोक्ता द्विजवचनेन तत्र भूयः ॥ २८.३ ॥
मूलम्
जप्यः स्यादिह परलोकसिद्धिकामै
र्मन्त्रोऽयं महिततरैर्द्विजैर्यथावत्।
भूदेवा नरपतयस्तृतीयवर्णाः
संप्रोक्ता द्विजवचनेन तत्र भूयः ॥ २८.३ ॥
विश्वास-प्रस्तुतिः
तेषां शुद्धकुलद्वयोत्थमहसामारभ्य तन्तुक्रियां
तारव्याहृतिसंयुता सहशिरा गायत्र्युपास्या परा।
संध्योपासनया जपेन च तथा स्वाध्यायभेदैरपि
प्राणायामविधानतः सुमतिभिर्ध्यानेन नित्यं द्विजैः ॥ २८.४ ॥

आदौ तारः प्रकृतिविकृतिप्रोत्थितोऽसौ च मूला
धारादारादलिविरुतिराविश्य सौषुम्नमार्गम्।
आद्यैः शान्तावधिभिरनुगो मात्रया सप्तभेदैः
शुद्धो मूर्धावधि परिगतः शाश्वतोऽन्तर्बहिश्च ॥ २८.५ ॥
मूलम्
आदौ तारः प्रकृतिविकृतिप्रोत्थितोऽसौ च मूला
धारादारादलिविरुतिराविश्य सौषुम्नमार्गम्।
आद्यैः शान्तावधिभिरनुगो मात्रया सप्तभेदैः
शुद्धो मूर्धावधि परिगतः शाश्वतोऽन्तर्बहिश्च ॥ २८.५ ॥
विश्वास-प्रस्तुतिः
प्रकाशितादौ प्रणवप्रपञ्चता
निगद्यते व्याहृतिसप्तकं पुनः।
सभूर्भुवः स्वश्च महर्जनस्तपः
समन्वितं सत्यमिति क्रमेण च ॥ २८.६ ॥
मूलम्
प्रकाशितादौ प्रणवप्रपञ्चता
निगद्यते व्याहृतिसप्तकं पुनः।
सभूर्भुवः स्वश्च महर्जनस्तपः
समन्वितं सत्यमिति क्रमेण च ॥ २८.६ ॥
विश्वास-प्रस्तुतिः - २८.७
भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्तते।
तत्पदं सदिति प्रोक्तं सन्मात्रत्वात्तु भूरतः ॥ २८.७ ॥
मूलम् - २८.७
भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्तते।
तत्पदं सदिति प्रोक्तं सन्मात्रत्वात्तु भूरतः ॥ २८.७ ॥
विश्वास-प्रस्तुतिः - २८.८
भूतत्वात्कारणत्वाच्च भुवःशब्दस्य संगतिः।
सर्वस्वीकरणात्स्वात्मतया च स्वरितीरितम् ॥ २८.८ ॥
मूलम् - २८.८
भूतत्वात्कारणत्वाच्च भुवःशब्दस्य संगतिः।
सर्वस्वीकरणात्स्वात्मतया च स्वरितीरितम् ॥ २८.८ ॥
विश्वास-प्रस्तुतिः - २८.९
महस्त्वाच्च महत्त्वाच्च महःशब्दः समीरितः।
तदेव सर्वजनता तस्मात्तु व्याहृतिर्जनः ॥ २८.९ ॥
मूलम् - २८.९
महस्त्वाच्च महत्त्वाच्च महःशब्दः समीरितः।
तदेव सर्वजनता तस्मात्तु व्याहृतिर्जनः ॥ २८.९ ॥
विश्वास-प्रस्तुतिः - २८.१०
तपो ज्ञानतया चैव तथा तापतया स्मृतम्।
सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ॥ २८.१० ॥
मूलम् - २८.१०
तपो ज्ञानतया चैव तथा तापतया स्मृतम्।
सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ॥ २८.१० ॥
विश्वास-प्रस्तुतिः - २८.११
प्रणवस्य व्याहृतीनाम्
अतः संबन्ध उच्यते।
अकारो भूर् उकारस्तु
भुवो मार्णः स्वर् ईरितः ॥ २८.११ ॥
मूलम् - २८.११
प्रणवस्य व्याहृतीनामतः संबन्ध उच्यते।
अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥ २८.११ ॥
विश्वास-प्रस्तुतिः - २८.१२
बिन्दुर् महस् तथा नादो
जनः शक्तिस् तपः स्मृतम्।
शान्तं सत्यम् इति प्रोक्तं
यत् तत् परतरं पदम् ॥ २८.१२ ॥
मूलम् - २८.१२
बिन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम्।
शान्तं सत्यमिति प्रोक्तं यत्तत्परतरं पदम् ॥ २८.१२ ॥
विश्वास-प्रस्तुतिः - २८.१३
प्रणवस्य व्याहृतीनां
गायत्र्य्-ऐक्यम् अथोच्यते।
अत्रापि तत्पदं पूर्वं
प्रोक्तं तद्-अनुवर्ण्यते ॥ २८.१३ ॥
मूलम् - २८.१३
प्रणवस्य व्याहृतीनां गायत्र्यैक्यमथोच्यते।
अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवर्ण्यते ॥ २८.१३ ॥
विश्वास-प्रस्तुतिः - २८.१४
तद्-द्वितीयैक-वचनम्
अनेनाखिल-वस्तुनः।
सृष्ट्य्-आदि-कारणं तेजो
रूपम् आदित्य-मण्डले ॥ २८.१४ ॥
मूलम् - २८.१४
तद्द्वितीयैकवचनमनेनाखिलवस्तुनः।
सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले ॥ २८.१४ ॥
विश्वास-प्रस्तुतिः - २८.१५
अभिध्येयं परानन्दं
परं ब्रह्माभिधीयते।
यत् तत् सवितुर् इत्य् उक्तं
षष्ठ्य्-एक-वचनात्मकम् ॥ २८.१५ ॥
मूलम् - २८.१५
अभिध्येयं परानन्दं परं ब्रह्माभिधीयते।
यत्तत्सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् ॥ २८.१५ ॥
विश्वास-प्रस्तुतिः - २८.१६
धातोर् इह समुत्पन्नं
प्राणिप्रसववाचकात्।
सर्वासां प्राणिजातीनाम्
इति प्रसवितुः सदा ॥ २८.१६ ॥
मूलम् - २८.१६
धातोरिह समुत्पन्नं प्राणिप्रसववाचकात्।
सर्वासां प्राणिजातीनामिति प्रसवितुः सदा ॥ २८.१६ ॥
विश्वास-प्रस्तुतिः - २८.१७
वरेण्यं वरणीयत्वात्
सेवनीयतया तथा।
भजनीयतया सर्वैः
प्रार्थनीयतया स्मृतम् ॥ २८.१७ ॥
मूलम् - २८.१७
वरेण्यं वरणीयत्वात्सेवनीयतया तथा।
भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥ २८.१७ ॥
विश्वास-प्रस्तुतिः - २८.१८
पूर्वस्याष्टाक्षरस्यैवं
व्याहृतिर् भूर् इति स्मृता।
पापस्य भञ्जनाद् भर्गो
भक्त-स्निग्धतया तथा ॥ २८.१८ ॥
मूलम् - २८.१८
पूर्वस्याष्टाक्षरस्यैवं व्याहृतिर्भूरिति स्मृता।
पापस्य भञ्जनाद्भर्गो भक्तस्निग्धतया तथा ॥ २८.१८ ॥
विश्वास-प्रस्तुतिः - २८.१९
देवस्य वृष्टिदानादि-
गुण-युक्तस्य नित्यशः।
प्रभूतेन प्रकाशेन
दीप्यमानस्य वै तथा ॥ २८.१९ ॥
मूलम् - २८.१९
देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः।
प्रभूतेन प्रकाशेन दीप्यमानस्य वै तथा ॥ २८.१९ ॥
विश्वास-प्रस्तुतिः - २८.२०
ध्यैचिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः।
निगमाद्येन दिव्येन विद्यारूपेण चक्षुषा ॥ २८.२० ॥
मूलम् - २८.२०
ध्यैचिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः।
निगमाद्येन दिव्येन विद्यारूपेण चक्षुषा ॥ २८.२० ॥
विश्वास-प्रस्तुतिः - २८.२१
दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः।
हीनतारहितं तेजो यस्य स्यात्स हिरण्मयः ॥ २८.२१ ॥
मूलम् - २८.२१
दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः।
हीनतारहितं तेजो यस्य स्यात्स हिरण्मयः ॥ २८.२१ ॥
विश्वास-प्रस्तुतिः - २८.२२
यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव तु।
द्वितीयाष्टाक्षरस्यैवं व्याहृतिर्भुव ईरिता ॥ २८.२२ ॥
मूलम् - २८.२२
यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव तु।
द्वितीयाष्टाक्षरस्यैवं व्याहृतिर्भुव ईरिता ॥ २८.२२ ॥
विश्वास-प्रस्तुतिः - २८.२३
धियो बुद्धीर्मनोरस्य च्छान्दसत्वाद्य ईरितः।
कृतश्च लिङ्गव्यत्यासः सूत्रात्सुप्तिङुपग्रहात् ॥ २८.२३ ॥
मूलम् - २८.२३
धियो बुद्धीर्मनोरस्य च्छान्दसत्वाद्य ईरितः।
कृतश्च लिङ्गव्यत्यासः सूत्रात्सुप्तिङुपग्रहात् ॥ २८.२३ ॥
विश्वास-प्रस्तुतिः - २८.२४
यत्तु तेजो निरुपमं सर्वदेवमयात्मकम्।
भजतां पापनाशस्य हेतुभूतमिहोच्यते ॥ २८.२४ ॥
मूलम् - २८.२४
यत्तु तेजो निरुपमं सर्वदेवमयात्मकम्।
भजतां पापनाशस्य हेतुभूतमिहोच्यते ॥ २८.२४ ॥
विश्वास-प्रस्तुतिः - २८.२५
न इति प्रोक्त आदेशः षष्ठ्यासौ युष्मदस्मदोः।
तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥ २८.२५ ॥
मूलम् - २८.२५
न इति प्रोक्त आदेशः षष्ठ्यासौ युष्मदस्मदोः।
तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥ २८.२५ ॥
विश्वास-प्रस्तुतिः - २८.२६
तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता।
एवं दश पदान्यस्यास्त्रयश्चाष्टाक्षराः स्मृताः ॥ २८.२६ ॥
मूलम् - २८.२६
तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता।
एवं दश पदान्यस्यास्त्रयश्चाष्टाक्षराः स्मृताः ॥ २८.२६ ॥
विश्वास-प्रस्तुतिः - २८.२७
षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः।
इत्थंभूतं यदेतस्य देवस्य सवितुर्विभोः ॥ २८.२७ ॥
मूलम् - २८.२७
षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः।
इत्थंभूतं यदेतस्य देवस्य सवितुर्विभोः ॥ २८.२७ ॥
विश्वास-प्रस्तुतिः - २८.२८
वरेण्यं भजतां पापविनाशनकरं परम्।
भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥ २८.२८ ॥
मूलम् - २८.२८
वरेण्यं भजतां पापविनाशनकरं परम्।
भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥ २८.२८ ॥
विश्वास-प्रस्तुतिः - २८.२९
उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते।
आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ २८.२९ ॥
मूलम् - २८.२९
उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते।
आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ २८.२९ ॥
विश्वास-प्रस्तुतिः - २८.३०
तदात्मकं जगत्सर्वं रसस्तेजोद्वयं युतम्।
अमृतं तदनाशित्वाद्ब्रह्मत्वाद्ब्रह्म उच्यते ॥ २८.३० ॥
मूलम् - २८.३०
तदात्मकं जगत्सर्वं रसस्तेजोद्वयं युतम्।
अमृतं तदनाशित्वाद्ब्रह्मत्वाद्ब्रह्म उच्यते ॥ २८.३० ॥
विश्वास-प्रस्तुतिः - २८.३१
यदानन्दात्मकं ब्रह्म सत्त्यज्ञानादिलक्षणम्।
तद्भूर्भुवःस्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥ २८.३१ ॥
मूलम् - २८.३१
यदानन्दात्मकं ब्रह्म सत्त्यज्ञानादिलक्षणम्।
तद्भूर्भुवःस्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥ २८.३१ ॥
विश्वास-प्रस्तुतिः - २८.३२
एतत्तु वेदसारस्य शिरस्त्वाच्छिर उच्यते।
लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥ २८.३२ ॥
मूलम् - २८.३२
एतत्तु वेदसारस्य शिरस्त्वाच्छिर उच्यते।
लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥ २८.३२ ॥
विश्वास-प्रस्तुतिः - २८.३३
फलार्थी तदवाप्नोति मुमुक्षुर्मोक्षमृच्छति।
उपव्युषस्येवोत्थाय कृतशौचविधिर्द्विजः ॥ २८.३३ ॥
मूलम् - २८.३३
फलार्थी तदवाप्नोति मुमुक्षुर्मोक्षमृच्छति।
उपव्युषस्येवोत्थाय कृतशौचविधिर्द्विजः ॥ २८.३३ ॥
विश्वास-प्रस्तुतिः - २८.३४
दन्तानां धावनं चैव जिह्वानिर्लेखनादिकम्।
कृत्वा स्नात्वा समाचम्य मन्त्रपूतेन वारिणा ॥ २८.३४ ॥
मूलम् - २८.३४
दन्तानां धावनं चैव जिह्वानिर्लेखनादिकम्।
कृत्वा स्नात्वा समाचम्य मन्त्रपूतेन वारिणा ॥ २८.३४ ॥
विश्वास-प्रस्तुतिः - २८.३५
आपो हि ष्ठा मयेत्यादिऋग्भिस्तिसृभिरेव च।
अभ्युक्ष्य शुद्धदेहः सन्नपः पीत्वा समाहितः ॥ २८.३५ ॥
मूलम् - २८.३५
आपो हि ष्ठा मयेत्यादिऋग्भिस्तिसृभिरेव च।
अभ्युक्ष्य शुद्धदेहः सन्नपः पीत्वा समाहितः ॥ २८.३५ ॥
विश्वास-प्रस्तुतिः - २८.३६
सूर्यश्चेत्यनुवाकेन पुनराचम्य पूर्ववत्।
अभ्युक्ष्य शुद्धदेहः सन्गृहीत्वाञ्जलिना जलम् ॥ २८.३६ ॥
मूलम् - २८.३६
सूर्यश्चेत्यनुवाकेन पुनराचम्य पूर्ववत्।
अभ्युक्ष्य शुद्धदेहः सन्गृहीत्वाञ्जलिना जलम् ॥ २८.३६ ॥
विश्वास-प्रस्तुतिः - २८.३७
आदित्याभिमुखो भूत्वा तद्गतात्मोर्ध्वलोचनः।
वेदसारं परं ज्योतिर्मूलभूतं परात्परम् ॥ २८.३७ ॥
मूलम् - २८.३७
आदित्याभिमुखो भूत्वा तद्गतात्मोर्ध्वलोचनः।
वेदसारं परं ज्योतिर्मूलभूतं परात्परम् ॥ २८.३७ ॥
विश्वास-प्रस्तुतिः - २८.३८
हृत्स्थं सर्वस्य लोकस्य मण्डलान्तर्व्यवस्थितम्।
चिन्तयन्परमात्मानमप ऊर्ध्वं विनिक्षिपेत् ॥ २८.३८ ॥
मूलम् - २८.३८
हृत्स्थं सर्वस्य लोकस्य मण्डलान्तर्व्यवस्थितम्।
चिन्तयन्परमात्मानमप ऊर्ध्वं विनिक्षिपेत् ॥ २८.३८ ॥
विश्वास-प्रस्तुतिः - २८.३९
एनस्ताः प्रतिनिघ्नन्ति जगदाप्याययन्ति च।
ततः प्रदक्षिणीकृत्य पुनराचम्य संयतः ॥ २८.३९ ॥
मूलम् - २८.३९
एनस्ताः प्रतिनिघ्नन्ति जगदाप्याययन्ति च।
ततः प्रदक्षिणीकृत्य पुनराचम्य संयतः ॥ २८.३९ ॥
विश्वास-प्रस्तुतिः - २८.४०
क्रमात्तारादिमन्त्राणामृष्यादीन्विन्यसेत्सुधीः।
तत्र तु प्रणवस्यादावृषिरुक्तः प्रजापतिः ॥ २८.४० ॥
मूलम् - २८.४०
क्रमात्तारादिमन्त्राणामृष्यादीन्विन्यसेत्सुधीः।
तत्र तु प्रणवस्यादावृषिरुक्तः प्रजापतिः ॥ २८.४० ॥
विश्वास-प्रस्तुतिः - २८.४१
छन्दश्च देवी गायत्री परमात्मा च देवता।
जमदग्निभरद्वाजभृगुगौतमकाश्यपाः ॥ २८.४१ ॥
मूलम् - २८.४१
छन्दश्च देवी गायत्री परमात्मा च देवता।
जमदग्निभरद्वाजभृगुगौतमकाश्यपाः ॥ २८.४१ ॥
विश्वास-प्रस्तुतिः - २८.४२
विश्वामित्रवसिष्ठाख्यावृषयो व्याहृतीरिताः।
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ २८.४२ ॥
मूलम् - २८.४२
विश्वामित्रवसिष्ठाख्यावृषयो व्याहृतीरिताः।
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ २८.४२ ॥
विश्वास-प्रस्तुतिः - २८.४३
त्रिष्टुब्जगत्यौ च्छन्दांसि कथ्यन्ते देवता अपि।
सप्तार्चिरनिलः सूर्यो वाक्पतिर्वरुणो वृषा ॥ २८.४३ ॥
मूलम् - २८.४३
त्रिष्टुब्जगत्यौ च्छन्दांसि कथ्यन्ते देवता अपि।
सप्तार्चिरनिलः सूर्यो वाक्पतिर्वरुणो वृषा ॥ २८.४३ ॥
विश्वास-प्रस्तुतिः - २८.४४
विश्वेदेवा इति प्रोक्ताः सप्त व्याहृतिदेवताः।
हृन्मुखांसोरुयुग्मेषु सोदरेषु क्रमान्न्यसेत् ॥ २८.४४ ॥
मूलम् - २८.४४
विश्वेदेवा इति प्रोक्ताः सप्त व्याहृतिदेवताः।
हृन्मुखांसोरुयुग्मेषु सोदरेषु क्रमान्न्यसेत् ॥ २८.४४ ॥
विश्वास-प्रस्तुतिः - २८.४५
विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दः स्वयं स्मृतम्।
सविता देवता चास्य ब्रह्मा शिर ऋषिः स्मृतः ॥ २८.४५ ॥
मूलम् - २८.४५
विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दः स्वयं स्मृतम्।
सविता देवता चास्य ब्रह्मा शिर ऋषिः स्मृतः ॥ २८.४५ ॥
विश्वास-प्रस्तुतिः - २८.४६
छन्दश्च देवी गायत्री परमात्मा च देवता।
स्थानेषु पूर्वमुक्तेषु सताराव्याहृतीर्न्यसेत् ॥ २८.४६ ॥
मूलम् - २८.४६
छन्दश्च देवी गायत्री परमात्मा च देवता।
स्थानेषु पूर्वमुक्तेषु सताराव्याहृतीर्न्यसेत् ॥ २८.४६ ॥
विश्वास-प्रस्तुतिः - २८.४७
गायत्रीं शिरसा विद्वाञ्जपेत्ित्रः स्यादुपासना।
हृदयेऽधस्तथोर्ध्वं च महादिक्ष्वपि संयतः ॥ २८.४७ ॥
मूलम् - २८.४७
गायत्रीं शिरसा विद्वाञ्जपेत्ित्रः स्यादुपासना।
हृदयेऽधस्तथोर्ध्वं च महादिक्ष्वपि संयतः ॥ २८.४७ ॥
विश्वास-प्रस्तुतिः - २८.४८
व्यापयेद्व्याहृतीः सम्यग्गायत्रीं च शिरोयुताम्।
सार्थसंस्मृति संजप्यात्ित्ररिदं जपलक्षणम् ॥ २८.४८ ॥
मूलम् - २८.४८
व्यापयेद्व्याहृतीः सम्यग्गायत्रीं च शिरोयुताम्।
सार्थसंस्मृति संजप्यात्ित्ररिदं जपलक्षणम् ॥ २८.४८ ॥
विश्वास-प्रस्तुतिः - २८.४९
आत्मन्यधश्चोपरितो दिग्भ्यस्ताः समुपानयेत्।
गायत्रीं पूर्ववज्जप्यात्स्वाध्यायविधिरीदृशः ॥ २८.४९ ॥
मूलम् - २८.४९
आत्मन्यधश्चोपरितो दिग्भ्यस्ताः समुपानयेत्।
गायत्रीं पूर्ववज्जप्यात्स्वाध्यायविधिरीदृशः ॥ २८.४९ ॥
विश्वास-प्रस्तुतिः - २८.५०
एतत्त्रयं त्रिशः कुर्यादृजुकायस्त्वनन्यधीः।
निरुच्छ्वासः स विज्ञेयः प्राणायामो मनीषि२८.५०भिः(?)२८.५० ॥ २८.५० ॥
मूलम् - २८.५०
एतत्त्रयं त्रिशः कुर्यादृजुकायस्त्वनन्यधीः।
निरुच्छ्वासः स विज्ञेयः प्राणायामो मनीषि२८.५०भिः(?)२८.५० ॥ २८.५० ॥
विश्वास-प्रस्तुतिः - २८.५१
ध्यानस्य केवलस्यास्य व्याख्याने दर्शितः क्रमः।
त्रिव्याहृत्यादिमभ्यस्येद्गायत्रीं संध्ययोः सुधीः ॥ २८.५१ ॥
मूलम् - २८.५१
ध्यानस्य केवलस्यास्य व्याख्याने दर्शितः क्रमः।
त्रिव्याहृत्यादिमभ्यस्येद्गायत्रीं संध्ययोः सुधीः ॥ २८.५१ ॥
विश्वास-प्रस्तुतिः - २८.५२
शतं वाथ सहस्रं वा मन्त्रार्थगतमानसः।
पूर्वं प्रपञ्चयागोक्तान्गाणपत्यजपादिकान् ॥ २८.५२ ॥
मूलम् - २८.५२
शतं वाथ सहस्रं वा मन्त्रार्थगतमानसः।
पूर्वं प्रपञ्चयागोक्तान्गाणपत्यजपादिकान् ॥ २८.५२ ॥
विश्वास-प्रस्तुतिः - २८.५३
लिपिन्यासादिकान्साङ्गान्महन्न्यासादिसंयुतान्।
सनिजर्ष्यादिकान्सर्वान्विदध्याद्विधिवद्बुधः ॥ २८.५३ ॥
मूलम् - २८.५३
लिपिन्यासादिकान्साङ्गान्महन्न्यासादिसंयुतान्।
सनिजर्ष्यादिकान्सर्वान्विदध्याद्विधिवद्बुधः ॥ २८.५३ ॥
विश्वास-प्रस्तुतिः - २८.५४
पादसंधिचतुष्कान्धुनाभिहृद्गलयोर्द्वयी।
संध्यास्यनासागण्डाक्षिकर्णभ्रूमस्तकेष्वपि ॥ २८.५४ ॥
मूलम् - २८.५४
पादसंधिचतुष्कान्धुनाभिहृद्गलयोर्द्वयी।
संध्यास्यनासागण्डाक्षिकर्णभ्रूमस्तकेष्वपि ॥ २८.५४ ॥
विश्वास-प्रस्तुतिः - २८.५५
वारुणैन्दवयाम्यप्रागूर्ध्वकेषु मुखेषु च।
क्रमेण वर्णान्विन्यस्येद्गायत्र्या मन्त्रवित्तमः ॥ २८.५५ ॥
मूलम् - २८.५५
वारुणैन्दवयाम्यप्रागूर्ध्वकेषु मुखेषु च।
क्रमेण वर्णान्विन्यस्येद्गायत्र्या मन्त्रवित्तमः ॥ २८.५५ ॥
विश्वास-प्रस्तुतिः - २८.५६
शिरोभ्रूमध्यनयनवक्त्रकण्ठेषु वै क्रमात्।
हृन्नाभिगुह्यजान्वाख्यपादेष्वपि पदान्न्यसेत् ॥ २८.५६ ॥
मूलम् - २८.५६
शिरोभ्रूमध्यनयनवक्त्रकण्ठेषु वै क्रमात्।
हृन्नाभिगुह्यजान्वाख्यपादेष्वपि पदान्न्यसेत् ॥ २८.५६ ॥
विश्वास-प्रस्तुतिः - २८.५७
सब्रह्मविष्णुरुद्रैश्च सेश्वरैः ससदाशिवैः।
ससर्वात्माह्वयैः कुर्यादङ्गन्यासं समाहितः ॥ २८.५७ ॥
मूलम् - २८.५७
सब्रह्मविष्णुरुद्रैश्च सेश्वरैः ससदाशिवैः।
ससर्वात्माह्वयैः कुर्यादङ्गन्यासं समाहितः ॥ २८.५७ ॥
विश्वास-प्रस्तुतिः - २८.५८
एवं कृत्वा तु सिद्ध्यर्थं गायत्रीं दीक्षितो जपेत्।
अथ त्रिगुणिते प्रोक्ते विचित्रे मण्डलोत्तमे ॥ २८.५८ ॥
मूलम् - २८.५८
एवं कृत्वा तु सिद्ध्यर्थं गायत्रीं दीक्षितो जपेत्।
अथ त्रिगुणिते प्रोक्ते विचित्रे मण्डलोत्तमे ॥ २८.५८ ॥
विश्वास-प्रस्तुतिः - २८.५९
शक्तिभिः प्राक्समुक्ताभिः सौरं पीठं समर्चयेत्।
तत्र निक्षिप्य कलशं यथापूर्वोपचारतः ॥ २८.५९ ॥
मूलम् - २८.५९
शक्तिभिः प्राक्समुक्ताभिः सौरं पीठं समर्चयेत्।
तत्र निक्षिप्य कलशं यथापूर्वोपचारतः ॥ २८.५९ ॥
विश्वास-प्रस्तुतिः - २८.६०
गव्यैर्वा पञ्चभिः क्वाथजलैर्वा पूरयेत्ततः।
तस्मिन्नावाह्य कलशे शक्तिमित्थं विचिन्तयेत् ॥ २८.६० ॥
मूलम् - २८.६०
गव्यैर्वा पञ्चभिः क्वाथजलैर्वा पूरयेत्ततः।
तस्मिन्नावाह्य कलशे शक्तिमित्थं विचिन्तयेत् ॥ २८.६० ॥
मन्दाराह्वयरोचनाञ्जनजपाख्याभैर्मुखैरिन्दुम
द्रत्नोद्यन्मकुटांशुभिस्ततचतुर्विंशार्णचित्रा तनुः।
अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाङ्कुशे
ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥ २८.६१ ॥
संचिन्त्य भर्तारमिति प्रभाणां
त्रिशक्तिमूर्तीः प्रथमं समर्च्य।
आदित्यशक्त्याख्यचतुष्टयेन
यजेद्द्वितीयावरणे दिनेशम् ॥ २८.६२ ॥
विश्वास-प्रस्तुतिः - २८.६३
प्रह्लादिनीं प्रभां नित्यां सविश्वंभरसंज्ञकाम्।
विलासिनीप्रभावत्यौ जयां शान्तां क्रमाद्यजेत् ॥ २८.६३ ॥
मूलम् - २८.६३
प्रह्लादिनीं प्रभां नित्यां सविश्वंभरसंज्ञकाम्।
विलासिनीप्रभावत्यौ जयां शान्तां क्रमाद्यजेत् ॥ २८.६३ ॥
विश्वास-प्रस्तुतिः - २८.६४
तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम्।
पद्मालयां परां शोभां भद्ररूपां तथा यजेत् ॥ २८.६४ ॥
मूलम् - २८.६४
तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम्।
पद्मालयां परां शोभां भद्ररूपां तथा यजेत् ॥ २८.६४ ॥
विश्वास-प्रस्तुतिः - २८.६५
मातृभिश्चारुणाभिश्च षष्ठ्यथो सप्तमीग्रहैः।
आदित्यपार्षदन्तैरप्यष्टमीन्द्रादिभिः सुरैः ॥ २८.६५ ॥
मूलम् - २८.६५
मातृभिश्चारुणाभिश्च षष्ठ्यथो सप्तमीग्रहैः।
आदित्यपार्षदन्तैरप्यष्टमीन्द्रादिभिः सुरैः ॥ २८.६५ ॥
विश्वास-प्रस्तुतिः - २८.६६
आवृतिः कथिता चेति विधानं परमीदृशम्।
गन्धादिभिर्निवेद्यान्तैर्दिनेशं सम्यगर्चयेत् ॥ २८.६६ ॥
मूलम् - २८.६६
आवृतिः कथिता चेति विधानं परमीदृशम्।
गन्धादिभिर्निवेद्यान्तैर्दिनेशं सम्यगर्चयेत् ॥ २८.६६ ॥
अथ पुनरमुमभिषिञ्चे
त्संयतचित्तं च देशिकः शिष्यम्।
कृतहुतविधिमपि विधिव
द्विहितबलिं दत्तदक्षिणं गुरवे ॥ २८.६७ ॥
भूयस्त्वक्षरलक्षं
गायत्रीं संयतात्मको जप्त्वा।
जुहुयात्पायसतिलघृत
दूर्वाभिर्दुग्धतरुसमिद्भिरपि ॥ २८.६८ ॥
एकैकं त्रिसहस्रं
मन्त्री समभीष्टसिद्धये मुक्त्यै।
अक्षरसहस्रसंख्यं
मुख्यतरैः केवलैस्तिलैर्जुहुयात् ॥ २८.६९ ॥
दुरितोच्छेदनविधये
मन्त्री दीर्घायुषे च विशदमतिः।
आयुष्कामो जुहुया
त्पायसहविराज्यकेवलाज्यैश्च ॥ २८.७० ॥
दूर्वाभिः सतिलाभिः
सर्वैस्त्रिसहस्रसंख्यकं मन्त्री।
अथ तु त्रिमधुरसिक्तै
ररुणैर्जुहुयात्सरोरुहैरयुतम् ॥ २८.७१ ॥
नष्टश्रीरपि भूयो
भवति मनोज्ञश्च मन्दिरं लक्ष्म्याः।
अन्नाद्यर्थ्यन्नैरपि
पालाशैर्ब्रह्मवर्चसे जुहुयात्।
सर्वैरेतैर्जुहुया
त्सर्वफलाप्त्यै द्विजेश्वरो मतिमान् ॥ २८.७२ ॥
इति परमरहस्यं वेदसारस्य सारं
गदितमजसुशुद्धैर्योगिभिर्ध्यानगम्यम्।
अमुमथ जपहोमध्यानकाले य एवं
भजति स तु विशुद्धः कर्मभिर्मुक्तिमेति ॥ २८.७३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे अष्टाविंशः पटलः ॥