२७

अथ सजपहुताद्यो वक्ष्यते साधुचिन्ता

मणिरभिमतकामप्राप्तिकल्पद्रुमोऽयम्।

अनलकषमरेफप्राणसद्यान्तवाम
श्रुतिहिमधरखड्गैर्मण्डितो मन्त्रराजः ॥ २७.१ ॥

ऋषिरपि काश्यप उक्त

श्छन्दोऽनुष्टुप्च देवतोमेशः।

यान्तैः षड्भिर्वर्णै
रङ्गं वा देवतार्धनारीशः ॥ २७.२ ॥

अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि

स्त्रिदशगणनताङ्घ्रिस्त्रीक्षणः स्त्रीविलासी।

भुजगपरशुशूलान्खड्गवह्नी कपालं
शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥ २७.३ ॥

हावभावललितार्धनारिकं

भीषणार्धमपि वा महेश्वरम्।

पाशसोत्पलकपालशूलिनं
चिन्तयेज्जपविधौ विभूतये ॥ २७.४ ॥

अथ वा षोडशशूल

व्यग्रभुजा त्रिणयनाभिनद्धाङ्गी।

अरुणांशुकानुलेपन
वर्णाभरणा च भगवती ध्येया ॥ २७.५ ॥

विहितार्चनाविधिरथानुदिनं

प्रजपेद्दशायुतमितं मतिमान्।

अयुतं हुनेत्ित्रमधुरार्द्रतरै
स्तिलतण्डुलैस्तदवसानविधौ ॥ २७.६ ॥

शैवोक्तपीठेऽङ्गपदैर्यथाव

द्वृक्षेचदुर्गुर्नगशैर्मुखाद्यैः।

समातृभिर्दिक्पतिभिर्महेशं
पञ्चोपहारैर्विधिनार्चयीत ॥ २७.७ ॥

आरभ्यादिज्वलनं

दिक्संस्थैरष्टभिर्मनोरर्णैः।

आराधयेच्च मातृभि
रिति संप्रोक्तः प्रयोगविधिरपरः ॥ २७.८ ॥

कात्पूर्वं हसलिपिसंयुतं जपादौ

जप्तृ़णां प्रवरमितीह केचिदाहुः।

प्रासादाद्ययुतजपेन मङ्क्षु कुर्या
दावेशादिकमपि नीरुजां च मन्त्री ॥ २७.९ ॥

शिरसोऽवतरन्निशेशबिम्ब

स्थितमज्भिर्वृतमागलत्सुधार्द्रम्।

अपमृत्युहरं विषज्वराप
स्मृतिविभ्रान्तिशिरोरुजापहं च ॥ २७.१० ॥

निजवर्णविकीर्णकोणवैश्वा

नरगेहद्वितयावृतत्रिकोणे।

विगतस्वरवीतमुत्तमाङ्गे
स्मृतमेतत्क्षपयेत्क्षणाद्ग्रहार्तिम् ॥ २७.११ ॥

वह्नेर्बिम्बे वह्निवत्प्रज्वलन्तं

न्यस्त्वा बीजं मस्तके ग्रस्तजन्तोः।

ध्यात्वावेशं कारयेद्बन्धुजीवं
तज्जप्तं वा सम्यगाघ्राणनेन ॥ २७.१२ ॥

शुक्लादिः शुक्लभाः पौष्टिकशमनविधौ कृष्टिवश्येषु रक्तो

रक्तादिः क्षोभसंस्तोभनविधिषु हकारादिको हेमवर्णः।

धूम्रोऽङ्गामर्दनोच्चाटनविधिषु समीरादिकोऽदादिरुक्तः
पीताभः स्तम्भनादौ मनुरतिविमलो भुक्तिभाजामदादिः ॥ २७.१३ ॥

कृष्णाभः प्राणगेहस्थितमथ नयने ध्यातमान्ध्यं विधत्ते

बाधिर्यं कर्णरन्ध्रेऽर्दितमपि वदने कुक्षिगं शूलमाशु।

मर्मस्थाने समीरं सपदि शिरसि वा दुःसहं शीर्षरोगं
वाग्रोधं कण्ठनालेऽवनिवृतमथ तन्मण्डले पीतमेतत् ॥ २७.१४ ॥

प्रालेयत्विषि च स्वरावृतमिदं नेत्रे स्मृतं तद्रुजं

योनौ वामदृशोऽस्रविस्रुतिमथो कुक्षौ च शूलं जपेत्।

विस्फोटे सविषे ज्वरे तृषि तथा रक्तामये विभ्रमे
दाहे शीर्षगदे स्मरेद्विधिमिमं संतृप्तये मन्त्रवित् ॥ २७.१५ ॥

साध्याया हृदयकुशेशयोदरस्थं

प्राणाख्यं दृढमवबध्य बीजवर्णैः।

तेजस्तच्छिरसि विधुं विधाय वाते
नाकर्षेदपि निजवाञ्छयैव मन्त्री ॥ २७.१६ ॥

पारिभद्रसुमनोदलभद्रं

वह्निबिम्बगतमक्षरमेतत्।

संस्मरेच्छिरसि यस्य स वश्यो
जायते न खलु तत्र विचारः ॥ २७.१७ ॥

निजनामगर्भमथ बीजमिदं

प्रविचिन्त्य योनिसुषिरे सुदृशः।

वशयेत्क्षणाच्छिततया मनसः
स्रवयेच्च शुक्लमथ वा रुधिरम् ॥ २७.१८ ॥

निजशिवशिरःश्रितं त

द्बिम्बं स्मृत्वा प्रवेशयेद्योनौ।

यस्यास्तत्संपर्का
त्तां च क्षरयेत्क्षणेन वशयेच्च ॥ २७.१९ ॥

पररेफगर्भधृतसाध्यपदं

त्रिकगं हुताशयुतषट्कवृतम्।

विगतस्वरावृतमगारभुवि
स्थितमेतदाशु वशयेद्रमणान् ॥ २७.२० ॥

मधुरत्रयसंयुतेन शाली

रजसा पुत्तलिकां विधाय तेन।

मनुना जुहुयात्तया विभज्य
त्रिदिनं यस्य कृते वशो भवेत्सः ॥ २७.२१ ॥

विषपावकोद्यदभिधानगदं

ठगतं कुकोणयुतलाङ्गलिकम्।

अहिपत्रक्लृप्तपरिजप्तमिदं
शिरसो रुजं प्रशमयेददनात् ॥ २७.२२ ॥

कण्ठे केनावनद्धार्पितदहनयुजा मज्जया मेन वामं

दक्षं संवेष्ट्य वक्षोरुहमनलसमीरौभिरंसद्वयं च।

वक्त्रे नाभौ च दीर्घं सुमतिरथ विनिक्षिप्य बिन्दुं निशेशं
वक्षस्याधाय बद्ध्वा चिरमिव विहरेत्कन्दुकैरात्मसाध्यैः ॥ २७.२३ ॥

कृत्वा वह्नेः पुरमनु मनुं बन्धुजीवेन तस्मि

न्नाधायाग्निं विधिवदभिसंपूज्य चाज्यैः शताख्यम्।

त्रैलोहाख्ये प्रतिविहितसंपातमष्टोत्तरं त
द्धुत्वा जप्तं दुरितविषवेतालभूतादिहारि ॥ २७.२४ ॥

साध्याख्यागर्भमेनं लिख दहनपुरे कर्णिकायां षडश्रं

बाह्येऽश्रिष्वङ्गमन्त्रान्दलमनु परितो बीजवर्णान्विभज्य।

भूयोऽचः कादियादींस्त्रिषु वृतिषु कुगेहाश्रके नारसिंहं
तस्मिन्कार्यो यथावत्कलशविधिरयं सर्वरक्षाकरः स्यात् ॥ २७.२५ ॥

टान्ते लिख्यात्कलाभिर्वृतमनुमनलावासयुग्मेन वह्नि

द्योतत्कोणेन बाह्ये तदनु सवितृबिम्बेन काद्यार्णभाजा।

तद्बाह्ये क्ष्मापुराभ्यां लिखितनृहरियुक्ताश्रकाभ्यां तदेत
द्यन्त्रं रक्षाकरं स्याद्ग्रहगदविषमक्ष्वेलजूर्त्यादिरोगे ॥ २७.२६ ॥

बिम्बद्वन्द्वे कृशानोर्विलिखतु मणिमेनं ससाध्यं तदश्रि

ष्वग्न्यादीन्व्यञ्जनार्णान्स्वरयुगलमथो संधिषट्के यथावत्।

तारावीतं च बाह्ये कुगृहपरिवृतं गोमयाब्रोचनाभ्यां
लाक्षाबद्धं निबध्याज्जपमहितमिदं साधु साध्योत्तमाङ्गे ॥ २७.२७ ॥

लक्ष्म्यायुःपुष्टिकरं

परं च सौभाग्यवश्यकृत्सततम्।

चोरव्यालमहोरग
भूतापस्मारहारि यन्त्रमिदम् ॥ २७.२८ ॥

साध्याख्याकर्मयुक्तं दहनपुरयुगे मन्त्रमेनं तदश्रि

ष्वग्निज्वालाश्च बाह्ये विषतरुविटपे साग्रशाखे लिखित्वा।

जप्त्वाष्टोर्ध्वं सहस्रं नृहरिकृतधिया स्वापयेत्तत्र शत्रु
व्याघ्रादिक्रोडचोरादिभिरपि च पिशाचादयो न व्रजन्ति ॥ २७.२९ ॥

ससिद्धसुरपूजितः सकलवर्गसंसाधको

ग्रहज्वररुजापहो विषविसर्पदोषापहः।

किमत्र बहुनार्थिनामभिमतार्थचिन्तामणिः
समुक्त इह संग्रहान्मनुवरस्तु चिन्तामणिः ॥ २७.३० ॥

षष्ठस्वरो हुतवहस्तययोस्तुरीया

वाद्यस्वरो मनुरयं कथितः फडन्तः।

अस्य त्रिको निगदितो मनुरप्यनुष्टु
प्छन्दश्च चण्डसहितो मनुदेवतेशः ॥ २७.३१ ॥

सप्तज्वलज्वालिनिभिस्तटेन च हतेन च।
सर्वज्वालिनिसंयुक्तैः फडन्तैरङ्गमाचरेत् ॥ २७.३२ ॥

अव्यात्कपर्दकलितेन्दुकरः करात्त

शूलाक्षसूत्रककमण्डलुटङ्क ईशः।

रक्ताभवर्णवसनोऽरुणपङ्कजस्थो
नेत्रत्रयोल्लसितवक्त्रसरोरुहो वः ॥ २७.३३ ॥

कृतसंदीक्षो मन्त्री

जप्याल्लक्षत्रयं च मन्त्रमिमम्।

जुहुयात्ित्रमधुरसिक्तैः
सतिलैरपि तण्डुलैर्दशांशेन ॥ २७.३४ ॥

व्याघातसमिद्भिर्वा

मनुजापी तावतीभिरथ जुहुयात्।

पूर्वोक्तार्चापीठे
गन्धाद्यैरर्चयेच्च चण्डेशम् ॥ २७.३५ ॥

चण्डचण्डाय चेत्युक्त्वा प्रवदेद्विद्महेपदम्।
चण्डेश्वराय च प्रोक्त्वा धीमहीपदमुच्चरेत् ॥ २७.३६ ॥

तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात्।
एषा तु चण्डगायत्री जपात्सांनिध्यकारिणी ॥ २७.३७ ॥

अङ्गैः समातृभिर्मन्त्री लोकेशैः संप्रपूजयेत्।
कूर्मो विष्णुयुतो दण्डी बीजमस्योच्यते बुधैः ॥ २७.३८ ॥

वदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम्।
अर्चनादिष्विमं मन्त्रं यथावत्संप्रयोजयेत् ॥ २७.३९ ॥

एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके।
वाञ्छितादधिकं लभ्येत्काञ्चनं नात्र संशयः ॥ २७.४० ॥

त्र्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम्।
ऐहिकामुष्मिकीं सिद्धिं यथा हि लभते नरः ॥ २७.४१ ॥

कृत्वा पिष्टेन शल्याः प्रतिकृतिमनलं चापि काष्ठैश्चिताना

माधायारभ्य पुंसस्त्रिमधुरलुलिता दक्षिणाङ्गुष्ठदेशात्।

छित्त्वा च्छित्त्वाष्टयुक्तं शतमथ जुहुयाद्योषितां वामपादा
द्विप्रादीनां चतुर्णां वशकरमनिशं मन्त्रमेतद्धुतान्तम् ॥ २७.४२ ॥

अनुदिनमष्टशतं यो

जुहुयात्पुष्पैरनेन मन्त्रेण।

सप्तदिनैः स तु लभते
वासस्तद्वर्णसंकाशम् ॥ २७.४३ ॥

अहरहरष्टशतं यो

मन्त्रेणानेन तर्पयेदीशम्।

तस्य तु मासचतुष्का
दर्वाक्संजायते महालक्ष्मीः ॥ २७.४४ ॥

साध्यर्क्षाङ्घ्रिपचर्मणां सुमसृणां पिष्टैश्च लोणैः समं

कृत्वा पुत्तलिकां प्रतिष्ठितचलां जप्त्वा च रात्रौ हुनेत्।

सप्ताहं पुरुषोऽङ्गना यदि चिरं वश्यं त्ववश्यं भवे
दस्मिञ्जन्मनि नात्र चोद्यविषयो देहान्तरे संशयः ॥ २७.४५ ॥

इति चण्डमन्त्रविहितं विधिव

द्विधिमादरेण य इमं भजते।

स तु वाञ्छितं पदमिहाप्य पुनः
शिवरूपतामपि परत्र लभेत् ॥ २७.४६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे सप्तविंशः पटलः ॥