अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः।
जपतामिष्टसंसिद्धिविधानसुरपादपः ॥ ।२६.१ ॥
अत्रिः क्षिणा कालकर्णकामिकायुग्रयेक्षराः।
तुध्यामध्यगताः स्युर्भ्यं वटमूलनिवासिने ॥ २६.२ ॥
नैधातृनिरताङ्गाय नमो रुद्राय शंभवे।
तारशक्तिनिरुद्धोऽयं मन्त्रः षट्त्रिंशदक्षरः ॥ २६.३ ॥
शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम्।
दक्षिणामूर्तिरुद्रोऽस्य देवता समुदीरिता ॥ २६.४ ॥
तारशक्त्यादिकैर्ह्राङाद्यन्तैर्मन्त्राक्षरैः क्रमात्।
ऋत्वक्षिवसुवस्वग्निगुणवर्णैर्विभागशः ॥ २६.५ ॥
मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः।
कालिकश्रुतिदृग्गण्डद्वयनासास्यके दश ॥ २६.६ ॥
दोःसंधिकण्ठस्तनहृन्नाभिकट्यन्धुषु क्रमात्।
पत्संधिषु पुनर्द्वाभ्यां मन्त्रविद्व्यापकं न्यसेत् ॥
एवं न्यस्तशरीरोऽथ चिन्तयेन्मन्त्रदेवताम् ॥ २६.७ ॥
मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः।
आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिणेत्रो
दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो भावशुद्धिं भवो वः ॥ २६.८ ॥
प्राक्प्रोक्तविधानेन च
सम्यक्संपूज्य साधु कलशाद्यैः।
कृतसंदीक्षो मन्त्री
जप्यादेनं मनुं समाहितधीः ॥ २६.९ ॥
द्वात्रिंशदयुतमानं
जप्याच्च जुहोतु तद्दशांशमितैः।
दुग्धाप्लुतैस्तिलैर्वा
साज्येन पयोन्धसा द्वयेनापि ॥ २६.१० ॥
जप्त्वैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वा
नत्वा स्तुत्वा मनोवाक्तनुभिरवहितः प्राप्य कामानशेषान्।
व्याख्याता चागमानां भुवि कविषु वरः साधु वेदान्तवेदी
वादीट् सोऽद्वैतविद्याविमलतरमतिर्याति शैवं पदं तत् ॥ २६.११ ॥
जीवशिखिकर्णरेफा
न्प्रतिवीप्स्य प्रादिकांश्च पुनरपि तान्।
मेधाप्यायिनियान्तां
स्तानेव तरान्तिकान्सतनुरूपान् ॥ २६.१२ ॥
आभाष्य चटप्रचटौ
सकहवमौ बन्धघातयौ वीप्स्य।
प्रोक्त्वा वर्मास्त्रावधि
समुद्धरेच्छक्तिपूर्वकं मन्त्रम् ॥ २६.१३ ॥
ऋषिरस्याघोराख्यः
संप्रोक्तस्त्रिष्टुबुच्यते च्छन्दः।
रुद्रोऽप्यघोरपूर्वः
समीरितो देवता तथास्य मनोः ॥ २६.१४ ॥
हृत्पञ्चभिस्तदर्णैः
शिरो हि षड्भिः शिखा तथा दशभिः।
तावद्भिरेव कवचं
दृगष्टभिर्द्वादशभिरपि चास्त्रम् ॥ २६.१५ ॥
कदृगास्यकण्ठहृन्ना
भ्यन्धूरुषु जानुजङ्घयोः पदयोः।
एकादशधा भिन्नै
र्मन्त्रार्णैर्न्यसतु विग्रहे मन्त्री ॥ २६.१६ ॥
पञ्चभिरथो सषड्भि
र्द्वाभ्यामप्यष्टभिश्चतुर्भिश्च।
षड्भिश्चतुस्त्रयेण च
षड्भिर्द्वाभ्यां च भेदितैः क्रमशः ॥ २६.१७ ॥
कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे
ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिणेत्रः।
रक्ताकाराम्बरो हि प्रवरघटितगात्रोऽरिनागग्रहादी
न्खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ॥ २६.१८ ॥
स्वच्छो मुमुक्षोस्तु भवेदघोरः
काम्यक्रियायामपि रक्तवर्णः।
कृष्णोऽभिचारे ग्रहवैकृते च
प्रोक्तो जपः स्यादपि लक्षमानम् ॥ २६.१९ ॥
घृतावसिक्तैस्तिलतण्डुलैश्च
जयावसाने जुहुयाद्दशांशम्।
घृतप्लुतैर्वाथ हविर्भिरेवं
तावत्प्रजुह्वन्समुपैति कामान् ॥ २६.२० ॥
हृल्लेखास्थितसाध्या
क्षरविलसत्कर्णिकं कलावीतम्।
वर्गाष्टकात्तकेसर
मन्त्ये सहळक्षयाक्षरोल्लसितम् ॥ २६.२१ ॥
मन्त्राक्षरत्रयोद्य
द्दलमध्यदलाग्रकं च तद्बाह्ये।
वह्निपुटाश्रिसामाश्रित
कवचास्त्रं प्रतिविलिख्य यन्त्रमिदम् ॥ २६.२२ ॥
कृत्वा समाप्य मण्डल
मत्र विनिक्षिप्य पूरयेत्कलशम्।
पीठे पिनाकपाणे
र्गव्यैर्वा क्वाथक्लृप्ततोयैर्वा ॥ २६.२३ ॥
अङ्गावृतेरनु च हेतिभिरीरिताभिः
पश्चाच्च मातृभिरथापि दिशाधिनाथैः।
संपूजयीत विधिनेति षडक्षरोक्त
मार्गेण वा मनुपरिस्फुरणाय मन्त्री ॥ २६.२४ ॥
आज्यापामार्गसमि
त्तिलसर्षपपायसाज्यकैश्च पृथक्।
रात्रौ सहस्रहोमा
द्भूतद्रोहादिशान्तिरुद्दिष्टा ॥ २६.२५ ॥
सितकिंशुकनिर्गुण्डी
कनकापामार्गजन्मनां समिधाम्।
पृथगपि सहस्रहोमा
न्निग्रहमोक्षोऽचिराद्ग्रहाणां स्यात् ॥ २६.२६ ॥
गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै
र्भूयस्तैश्चतुरङ्गुलैश्च शिवपञ्चम्यां निशायां हुनेत्।
सर्पिर्मार्गसपञ्चगव्यचरुसर्पिः ससंपातकं
हुत्वा तत्प्रतिभोजयेत्प्रतिशमं यान्त्येव सर्वे ग्रहाः ॥ २६.२७ ॥
षट्कोणे कर्णिकायां स्फुरयुगलवृतां साध्यगर्भां च शक्तिं
कोणाग्रे प्रस्फुरद्वन्द्वकमथ विलिखेन्मन्त्रवर्णान्दलेषु।
षड्वेदद्वन्द्वषड्वेदकचतुर्युगष(?)ट्संख्यकान्बाह्यषट्के
वर्मास्त्रार्णां तदेतद्ग्रहगदभयहृद्यन्त्रमाघोरमाहुः ॥ २६.२८ ॥
न च रिपवो न च रोगा
न ग्रहपीडा न शस्त्रबाधा च।
न क्ष्वेलरुजा मर्त्या
न्स्पृशन्त्यघोरास्त्रमन्त्रजापपरान् ॥ २६.२९ ॥
तस्मादघोरास्त्रमनुं प्रजप्या
त्समर्चयेत्तद्विहितं यथावत्।
हुनेच्च तेनैव समस्तवाञ्छा
संसिद्धये चाथ विमुक्तये च ॥ २६.३० ॥
खसप्तमः कर्णयुतोऽर्धचन्द्रवा
ल्ँलपञ्चमो द्वीन्दुयुतो ध्रुवादिकः।
मनुः स्वयं मृत्युजयात्मकः स्फुटं
समीरितः साधकरक्षणक्षमः ॥ २६.३१ ॥
ऋषिरस्य कहोलाख्य
श्छन्दो देव्यादिका च गायत्री।
स्याद्देवता च मृत्युं
जयरुद्रोऽङ्गान्यथाचरेद्भृगुणा ॥ २६.३२ ॥
स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा
गलदमृतजलार्द्रं चन्द्रवह्न्यर्कनेत्रम्।
स्वकरकलितमुद्रापाशवेदाक्षमालं
स्फटिकरजतमुक्तागौरमीशं नमामि ॥ २६.३३ ॥
जप्तव्योऽयं मन्त्रवर्यस्त्रिलक्षं
दीक्षापूर्वं होमकृत्स्याद्दशांशैः।
दुग्धाज्याक्तैः शुद्धखण्डैर्गलूच्या
गुर्वादेशात्साधको हव्यवाहे ॥ २६.३४ ॥
अर्चा कार्या नित्यशः शैवपीठे
स्यादप्यङ्गैर्लोकपालैस्तदस्त्रैः।
सम्यक्पूजावस्तुभिर्मन्त्रजापैः
प्रोक्तं ह्येतन्मृत्युभेत्तुर्विधानम् ॥ २६.३५ ॥
इति जपहुतार्चनाद्यैः
सिद्धो मन्त्रोक्तमूर्तिविहितमनुः।
संभावयेन्निजान्त
र्योगं कृत्यापमृत्युनाशकरम् ॥ २६.३६ ॥
तारनालमथ मध्यपत्रकं
हाद्यकर्णिकयुतं क्रमोत्क्रमात्।
चिन्तयेन्नियतमन्तरा शिवं
नीरुजे च नियतायुषेऽब्जयोः ॥ २६.३७ ॥
ऊर्ध्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै
राद्यन्तैर्मन्दमन्दप्रतिगलितसुधापूरसंसिच्यमानम्।
ईशानं सूक्ष्मरूपं विमलतरसुषुम्नान्तरा संनिषण्णं
ध्यायन्नाप्नोति रोगैर्नियतपरिहृतः संजपाद्दीर्घमायुः ॥ २६.३८ ॥
आदौ तारं विलिखतु ससाध्याह्वयं कर्णिकायां
दिक्पत्रेष्वप्यपरमपरं चापि तत्कोणकेषु।
भूयो भूमेः पुरमनु मृगाङ्कं तदश्रेषु टान्तं
जप्त्वा बन्धं ग्रहगदविषध्वंसि यन्त्रं तदेतत् ॥ २६.३९ ॥
इति कृतयन्त्रविभूषित
मण्डलमध्ये निधाय कलशमपि।
आपूर्य चाभिषिञ्चे
च्छ्रीवश्यकरं ग्रहाभिचारहरम् ॥ २६.४० ॥
ततश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः।
दुग्धसिक्तैः समिद्धेऽग्नौ षट्सहस्रद्वयं हुनेत् ॥ २६.४१ ॥
यस्तु वह्नौ जुहोत्येवं यावत्संख्येन साधकः।
तावत्संख्यैः सुधाकुम्भैरग्निः प्रीणाति शंकरम् ॥ २६.४२ ॥
आप्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान्।
प्रदद्यादायुराद्यांश्च दुरन्तान्प्रलयान्तिकान् ॥ २६.४३ ॥
मन्त्रान्ते साध्याख्यां
पालययुगलं प्रतीपमपि मन्त्रम्।
प्रोक्त्वा समापयेन्मनु
मयमपि मृत्युंजयाह्वयो मन्त्रः ॥ २६.४४ ॥
अथ वामलकमलपुटा
न्तरितं शिशुवेषभूषणं रुद्रम्।
ध्यात्वा जपेद्यथाव
द्धुतक्लृप्त्या मृत्युनाशनं दृष्टम् ॥ २६.४५ ॥
चतुरङ्गुलपरिमाणै
रमृताखण्डैरथार्कसाहस्रम्।
जुहुयाच्च दुग्धसिक्तै
रारोग्यायायुषे च लक्ष्म्यै च ॥ २६.४६ ॥
अमृतावटतिलदूर्वाः
पयो घृतं पायसं क्रमेणेति।
सप्तद्रव्याण्युक्ता
न्येतैर्जुहुयात्पृथक्सहस्रतयम् ॥ २६.४७ ॥
तीव्रे ज्वरे घोरतरेऽभिचारे
सोन्मादके दाहगदे च मोहे।
तनोति शान्तिं नचिरेण होमः
संजीवनं चाब्दशतप्रमाणम् ॥ २६.४८ ॥
संभोजयेद्धोमदिने च विप्रा
न्सप्ताधिकान्स्वादुभिरन्नजातैः।
सतर्णका गाश्च हुतावसाने
दद्याद्द्विजेभ्यो हुतकर्मकृद्भ्यः ॥ २६.४९ ॥
निजजन्मदिने शतं शतं यो
जुहुयाद्द्रव्यवरैः ससप्तसंख्यैः।
मधुरैरपि भोजयेच्च विप्रा
नभिवाञ्छन्नियमेन दीर्घमायुः ॥ २६.५० ॥
अथ वा सप्तभिरेतै
र्द्रव्यैरेकेन वा सहस्रतयम्।
जन्मर्क्षे होममात्रा
न्निरुपद्रवमुत्तमं व्रजेदायुः ॥ २६.५१ ॥
दूर्वात्रितयैर्जुहुया
न्मन्त्रविदेकादशाहुतीर्दिनशः।
जित्वापमृत्युरोगा
न्प्रयात्यसावायुषश्च दैर्घ्यमपि ॥ २६.५२ ॥
जन्मर्क्षाणां त्रितये
च्छिन्नाकाष्मर्यवकुलकैरिध्मैः।
क्रमशो हुनेत्सहस्रं
नश्यन्त्यपमृत्युरोगदुरितानि ॥ २६.५३ ॥
सितसिद्धार्थसहस्रा
हुत्या नश्यन्त्युपद्रवा ज्वरजाः।
तद्वदपामार्गहुता
मृत्युंजयमप्यरोगतां लभते ॥ २६.५४ ॥
प्रोक्तैर्ध्यानजपार्चनाहुतविधानाद्यैश्च मृत्युंजयं
यो मन्त्री प्रभजन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः।
तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः
संपन्नः सुसुखी च जीवति चिरं देहापदि स्याच्छिवः ॥ २६.५५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यसस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे ष़ड्विंश पटलः ॥