अथाभिधास्यामि मनुं समासा
त्प्रासादसंज्ञं जगतो हिताय।
येन प्रजप्तेन तथार्चितेन
हुतेन सिद्धिं लभते यथेष्टम् ॥ २५.१ ॥
प्रसादनत्वान्मनसो यथाव
त्प्रासादसंज्ञास्य मनोः प्रदिष्टा।
अन्त्यात्तृतीयः प्रतिलोमतः स्या
दनुग्रहार्धेन्दुयुतश्च मन्त्रः ॥ २५.२ ॥
ऋषिरस्य वामदेवः
पङ्क्तिश्छन्दोऽस्य देवतेशः स्यात्।
तेनैवाक्लीबकला
दीर्घयुजाङ्गानि तस्य बीजेन ॥ २५.३ ॥
शूलाही टङ्कघण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानं
दोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम्।
नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं
पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ २५.४ ॥
ईशानादीन्मन्त्रवित्पञ्च मन्त्रा
नङ्गुष्ठादिष्वङ्गुलीषु क्रमेण।
न्यस्येदज्भिर्व्युत्क्रमाद्व्योमगाभि
र्ह्रस्वाख्याभिस्ताभिरेवाङ्गुलीभिः ॥ २५.५ ॥
ईशानस्तत्पुरुषो
ऽघोराख्यो वामदेवसंज्ञश्च।
सद्योजाताह्वय इति
मन्त्राणां देवताः क्रमात्पञ्च ॥ २५.६ ॥
मूर्धाननत्दृद्गुह्यक
पादेषु च नामभिः स्वबीजाद्यैः।
ऊर्ध्वप्राग्दक्षोद
क्पश्चिमगेष्वाननेषु विन्यस्येत् ॥ २५.७ ॥
प्रतिपाद्य निजं शरीरमेवं
प्रजपेदिन्द्रियलक्षकं शिवात्मा।
जुहुयाच्च दशांशतस्तदन्ते
मधुराक्तैः करवीरजप्रसूनैः ॥ २५.८ ॥
अथ वा कुसुमैर्जपासमुत्थैः
कमलैर्वा विमलेन पायसेन।
नृपवृक्षभवैः समिद्वरैर्वा
जुहुयात्साधकसत्तमः समृद्धयै ॥ २५.९ ॥
अष्टपत्रगुणवृत्तराशिभि
र्वीथिकल्पतरुभिः समावृतम्।
मण्डलं प्रतिविधाय शूलिनः
पीठमत्र नवशक्तिभिर्यजेत् ॥ २५.१० ॥
वामा ज्येष्ठा रौद्री
काल्या कलबलाद्यविकलिन्यौ।
सबलप्रमथिनिसर्वभूत
दमन्यौ मनोन्मनीं च यजेत् ॥ २५.११ ॥
तारादिकं नतिमपि
प्रोक्त्वा भगवत्पदं चतुर्थ्यन्तम्।
सकलगुणात्मपदान्ते
शक्तिं युक्ताय चेति संभाष्य ॥ २५.१२ ॥
भूयोऽनन्तायेति च
योगान्ते पीठमात्मने चेति।
नमसा युक्तं ब्रूया
त्पीठाख्योऽयं मनुः समुद्दिष्टः ॥ २५.१३ ॥
न्यासक्रमेण देहे
मन्त्री गन्धादिकमपि पूज्य।
पूर्वोक्तदिक्षु मूर्तीर्विदिक्षु
सनिवृत्तिपूर्विकाश्च यजेत् ॥ २५.१४ ॥
सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो
वामः काश्मीरवर्णोऽभयवरदपरश्चाक्षमालाविलासी।
अक्षस्रग्वेदपाशाङ्कुशडमरुकखट्वाङ्गशूलान्कपालं
बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः ॥ २५.१५ ॥
विद्युद्वर्णोऽथ वेदाभयवरदकुठारान्दधत्पूरुषाख्यः
प्रोक्ताः सर्वे त्रिणेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च।
मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवक्त्र
स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः
शिवान्ताः ॥ २५.१६ ॥
भूतानां शक्तित्वा
द्व्याप्तित्वाज्जगति वा निवृत्त्याद्याः।
तेजोरूपाः करपद
वर्णविहीना मनीषिभिः प्रोक्ताः ॥ २५.१७ ॥
अनन्तसूक्ष्मौ च शिवोत्तमश्च
तथैकपूर्वावपि नेत्ररुद्रौ।
त्रिमूर्तिश्रीकण्ठशिखण्डिनश्च
प्रागादिपत्रेषु समर्चनीयाः ॥ २५.१८ ॥
शूलाशनिशरचापो
ल्लासितदोर्दण्डभीषणाः सर्वे।
पद्मासनाश्च नाना
विधभूषणभूषितास्त्रिणेत्राः स्युः ॥ २५.१९ ॥
पाटलपीतसितारुण
शितिरक्तशशिप्रभाश्च धूम्रान्ताः।
कोटीरघटितविलस
च्छशिशकलयुताश्च मूर्तयः क्रमशः ॥ २५.२० ॥
उमा चण्डेश्वरो नन्दी महाकालो गणेश्वरः।
वृषो भृङ्गिरिटः स्कन्दः संपूज्याश्चोत्तरादितः ॥ २५.२१ ॥
कनकविडूरजविद्रुम
मरतकमुक्तासिताच्छरक्ताभाः।
पद्मासनसंस्थाश्च
क्रमादुमाद्या गुणान्तिकाः प्रोक्ताः ॥ २५.२२ ॥
पुनराशेशास्तदनु च
कुलिशाद्यादिक्रमेण संपूज्याः।
प्रासादविधानमिदं
निगदितमिति सकलवर्गसिद्धिकरम् ॥ २५.२३ ॥
अमुना विधिना महेशपूजां
दिनशो यः कुरुते समाहितात्मा।
स तु सम्यगवाप्य दृष्टभोगा
न्परमन्ते परिपूर्णमेति धाम ॥ २५.२४ ॥
वक्ष्यामि शैवागमसारमष्ट
त्रिंशत्कलान्यासविधिं यथावत्।
सपञ्चभिर्ब्रह्महरीशपूर्वैः
सर्ष्यादिकैः साङ्गविशेषकैश्च ॥ २५.२५ ॥
ईशोऽनुष्टुब्भूरी
श्वराः स तत्पुरुषसंज्ञगायत्र्यापः।
पुनरग्न्यनुष्टुबापो वामदेवः
कतिभर्गहरस्त्वनुष्टुब्भगयुक् ॥ २५.२६ ॥
इन्द्रियतारसमेतं
सर्वज्ञायेति हृच्छिरस्त्वमृते।
तेजोमालिनिपूर्वं
तृप्ताय ब्रह्माशिरस इति कथितम् ॥ २५.२७ ॥
ज्वलितशिखिशिखेत्य
नादिबोधाय चान्वितेति शिखा।
वज्रिणे वज्रधराय
स्वाहास्वतन्त्राय वर्म नेत्रं च।
सौ सौ हौ बिन्दुयुतं
संप्रोक्त्वा लुप्तशक्तये च तथा ॥ २५.२८ ॥
सश्रीपशुहुंफ
डनन्तशक्तये तथास्त्रं स्यात्।
समुनिच्छन्दोदैवत
युक्तं तदङ्गषट्कमिति कथितम् ॥ २५.२९ ॥
करदेहमुखन्यासं मन्त्रैः पूर्ववदाचरेत्।
कलाः प्रविन्यसेद्देहे वक्ष्यमाणक्रमेण तु ॥ २५.३० ॥
ताः स्युः पञ्च चतस्रोऽष्टौ त्रयोदश चतुर्द्वयम्।
अष्टत्रिंशत्कलाः सम्यङ् न्यस्तव्या मन्त्रवित्तमैः ॥ २५.३१ ॥
दिक्षु प्राग्याम्यवारीवसुपनिजभुवामैन्द्रवारर्किराज्ञां
हृद्ग्रीवांसद्वयीनाभ्युदरचरमवक्षःसु गुह्याङ्कयोश्च।
स्रोर्वोर्जान्वोः सजङ्घास्फिगुभयकटीपार्श्वपद्दोस्तलेषु
घ्राणे कं बाहुयुग्मेष्वतिविशदमतिर्विन्यसेदङ्गुलीभिः ॥ २५.३२ ॥
विन्यासः प्रतिमाकृतौ च नितरां सांनिध्यकृत्स्यादयं
देहे चापि शरीरिणां निगदितः सामर्थ्यकारीति च।
आस्ते यत्र तथामुनैव दिनशो विन्यस्तदेहः पुमा
न्क्षेत्रं देशममुं च योजनमितं शैवागमज्ञा विदुः ॥ २५.३३ ॥
न्यस्यैवं पञ्चभिर्ब्रह्मभिरथ शिवमाराधयेदृग्भिराभि
र्मध्यप्राग्याम्यसौम्यापरदिशि पुनरङ्गैरनन्तादिभिश्च।
अन्यो माद्यैर्दिशापैः पुनरपि कुलिशाद्यैर्यजेदेवमुक्तं
पाञ्चब्रह्मं विधानं सकलसुखयशोभुक्तिमुक्तिप्रदं च ॥ २५.३४ ॥
पञ्चाक्षरविहितविधिं
वक्ष्ये जपतामभीष्टसिद्धिकरम्।
सिद्धेन येन देही
प्रेत्येह च वाञ्छितं फलं लभते ॥ २५.३५ ॥
मेषो विषो विसर्गी
मृत्युः साक्षी सवाक्षरः पवनः।
ताराद्भवति यदस्मा
त्तदादिरभिधीयते मनुप्रवरः ॥ ।२५.३६ ॥
अम्या(?)क्षराण्यमूनि च
पञ्च स्युः पञ्चभूतगानि तथा।
जगदपि भूतारब्धं
तेन हि जगदात्मतोदितास्य मनोः ॥ २५.३७ ॥
प्रोक्तमृष्यादिकं पूर्वमङ्गवर्णैस्तु मन्त्रकैः।
अङ्गुलीदेहवक्त्रेषु मूलमन्त्राक्षरादिकान् ॥ २५.३८ ॥
न्यसेत्तत्पुरषाघोरसद्योवामेशसंज्ञकान्।
सतर्जनीमध्यमान्त्यानामिकाङ्गुष्ठकेषु च ॥ २५.३९ ॥
वक्त्रहृत्पादगुह्याख्यमूर्धस्वपि च नामभिः।
प्राग्याम्यवारुणोदीच्यव२५.४०क्त्रे(?)२५.४०ष्वपि च मूर्धसु ॥ २५.४० ॥
बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः
सर्वालंकारदीप्रः सरसिजनिलयो व्याघ्रचर्मात्तवासाः।
ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्र
स्त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलोत्तुङ्गमौलिः ॥ २५.४१ ॥
अक्षरलक्षचतुष्कं
जप्यात्तावत्सहस्रमपि जुहुयात्।
शुद्धैस्तिलैर्घृतैर्वा
दुग्धान्नैर्दुग्धभूरुहेध्मैर्वा ॥ २५.४२ ॥
तत्पुरुषाद्याः सर्वे
प्रधानसंप्रोक्तबाहुहेतियुताः।
उल्लासिमुखचतुष्का
स्तेजोरूपो विलक्षणस्त्वीशः ॥ २५.४३ ॥
आवृतिराद्या मूर्तिभि
रङ्गैरन्या पराप्यनन्ताद्यैः।
अपरोमादिभिरपरे
न्द्राद्यैरपरा तदायुधैः प्रोक्ता ॥ २५.४४ ॥
कथयामि मनोविधानमन्य
न्मुनिपूज्यं प्रवरं पिनाकपाणेः।
स्वतनौ परिकल्प्य पीठमङ्गा
न्यपि विन्यस्य तथैव मन्त्रवर्णान् ॥ २५.४५ ॥
हृन्मुखांसोरुयुग्मेषु षड्वर्णान्क्रमतो न्यसेत्।
कर्णमूले तथा नाभौ पार्श्वयुक्पृष्ठहृत्सु च ॥ २५.४६ ॥
मूर्धास्यनेत्रघ्राणेषु दोःपत्संध्यग्रकेषु च।
सशिरोवक्त्रहृदयजठरोरुपदेष्वपि ॥ २५.४७ ॥
त्दृ(?)दाननपरश्वेणाभीत्याख्यवरदेषु च।
मुखांसहृदयेषु त्रीन्पदान्पादोरुकुक्षिषु ॥ २५.४८ ॥
ऊर्ध्वाधःक्रमतो न्यस्येद्गोलकान्यासमुत्तमम्।
पुनस्तत्पुरुषाघोरसद्योवामेशसंज्ञकान ॥ २५.४९ ॥
लालाटद्व्यंसजठरहृदयेषु क्रमान्न्यसेत्।
पुनस्तत्प्रतिपत्त्यर्थं जपेन्मन्त्रमिमं सुधीः ॥ २५.५० ॥
नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने।
चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शंभवे ॥ २५.५१ ॥
कुर्यादनेन मन्त्रेण निजदेहे समाहितः।
मन्त्री पुष्पाञ्जलिं सम्यक्त्रिशः पञ्चश एव वा ॥ २५.५२ ॥
पूर्वोक्त एव पीठे
प्रागङ्गैर्मूर्तिशक्तिभिस्तदनु।
वृषपालचण्डदुर्गा
गुहनन्दिगणपसैन्यपाः पूज्याः ॥ २५.५३ ॥
अन्या च वासवाद्यैः
पुनरुपहारैः क्रमेण भक्तिमता।
अभ्यर्चिते हुते च
स्तोतव्यः संस्तवेन पुनरीशः ॥ २५.५४ ॥
नमो विरिञ्चविष्ण्वीशभेदेन परमात्मने।
सर्गसंस्थितिसंहारव्यावृत्तिव्यक्तवृत्तये ॥ २५.५५ ॥
नमश्चतुर्धा प्रोद्भूतभूतभूतात्मने भुवः।
भूरिभारार्तिसंहर्त्रे भूतनाथाय शूलिने ॥ २५.५६ ॥
विश्वग्रासाय विलसत्कालकूटविषाशिने।
तत्कलङ्काङ्कितग्रीवनीलकण्ठाय ते नमः ॥ २५.५७ ॥
नमो ललाटनयनप्रोल्लसत्कृष्णवर्त्मने।
ध्वस्तस्मरनिरस्ताधियोगिध्याताय शंभवे ॥ २५.५८ ॥
नमो देहार्धकान्ताय दग्धदक्षाध्वराय च।
चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ॥ २५.५९ ॥
स्थूलाय मूलभूताय शूलदारितविद्विषे।
कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ॥ २५.६० ॥
विवाससे कपर्दान्तर्भ्रान्ताहिसरिदिन्दवे।
देवदैत्यासुरेन्द्राणां मौलिघृष्टाङ्घ्रये नमः ॥ २५.६१ ॥
भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने।
व्यक्ताव्यक्तस्वरूपाय शंकराय नमो नमः ॥ २५.६२ ॥
नमोऽन्धकान्तकरिपवे पुरद्विषे
नमोऽस्तु ते द्विरदवराहभेदिने।
विषोल्लसत्फणिकुलबद्धमूर्तये
नमः सदा वृषवरवाहनाय ते ॥ २५.६३ ॥
वियन्मरुद्धुतवहवार्वसुंधरा
मखेशरव्यमृतमयूखमूर्तये।
नमः सदा नरकभयावभेदिने
भवेह नो भवभयभङ्गकृद्विभो ॥ २५.६४ ॥
स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेव
मुद्वासयेत्पुनरमुं हृदयाम्बुजे स्वे।
अभ्यर्च्य देवमभिसंयतचित्तवृत्ति
र्भूत्वा शिवो जपतु मन्त्रमहेशमेनम् ॥ २५.६५ ॥
संतर्प्य विप्रान्पुनरेवमेव
संपूजयेदिन्दुकलावतंसम्।
जपेद्यथाशक्ति शिवस्वरूपी
भूत्वा ततोऽन्ते च शिवः स भूयात् ॥ २५.६६ ॥
अमुमेव मनुं लक्षं
मन्त्री हृल्लेखयाभिसंरुद्धम्।
जप्त्वा नृपतरुसमिधां
मधुरयुजा मनुसहस्रकं जुहुयात् ॥ २५.६७ ॥
वन्दे हरं वरदशूलकपालहस्तं
साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम्।
वामोरुपीठगतया निजवामहस्त
न्यस्तारुणोत्पलरुचा परिरब्धदेहम् ॥ २५.६८ ॥
आवृतिरङ्गैराद्या
हृल्लेखाद्याभिरनु वृषाद्यैश्च।
मात्राशेशैरुक्तं
पञ्चावरणं विधानमीशस्य ॥ २५.६९ ॥
आप्यायिनी शशियुताप्यरुणाग्निमाया
बिन्द्वन्तिका चलकुलीभुवनेन्दुयुक्ता।
दीर्घाकलायुतशिवश्च शिवायवर्णा
स्याच्छूलिनो मनुरयं वसुवर्णयोगी ॥ २५.७० ॥
वामाङ्कन्यस्तवामेतरकरकमलायास्तथा वामबाहु
व्यस्तारक्तोत्पलायाः स्तनविधृतिलसद्वामबाहुः प्रियायाः।
सर्वाकल्पाभिरामो धृतपरशुमृगेप्टः(?) करैः काञ्चनाभो
ध्येयः पद्मासनस्थः स्मरललिततनुः संपदे पार्वतीशः ॥ २५.७१ ॥
पञ्चार्णोक्ताङ्गाद्यः
पञ्चब्रह्मप्रदिष्टपूजश्च।
वसुमितलक्षजपोऽयं
मन्त्रस्तावत्सहस्रहोमश्च ॥ २५.७२ ॥
इति जपहुतपूजाध्यानकैरीशयाजी
प्रियतरचरितः स्यात्सर्वतो देहभाजाम्।
धनविभवयशःश्रीसंपदा दीर्घजीवी
तनुविपदि च शैवं तत्परं धाम भूयात् ॥ २५.७३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे पञ्चविंशः पटलः ॥