२४

अथ संप्रति विष्णुपञ्जरस्य

प्रतिवक्ष्यामि समासतो विधानम्।

जितवांस्त्रिपुरं हरोऽपि येन
त्रिदशानामधिपो वलासुरं च ॥ २४.१ ॥

शक्तेर्द्वादशगुणिते

यन्त्रे मन्त्राणि मण्डलान्यपि च।

बीजानि यानि चोक्ता
न्येभिः क्लृप्तं तु पञ्जरं विष्णोः ॥ २४.२ ॥

विष्णुं लिखेन्मध्यगशक्तिबिन्दौ

कपोलयोः सिंहवराहबीजे।

तद्विश्वरूपाह्वयमन्त्रवीतं
प्रवेष्टयेत्षोडशमन्त्रवर्णैः ॥ २४.३ ॥

तारं हृदयं भगव

त्पदं महाविष्णुवासुदेवौ ङेन्तौ।

विश्वादिरूप शरणं
भव मे प्रभविष्णवे नमस्यामन्त्रः ॥ २४.४ ॥

द्वादशाक्षरमन्त्रान्ते भवेतां कवचास्त्रकौ।
स्वाहान्तषोडशार्णोऽयं मन्त्रः सर्वार्थसाधकः ॥ २४.५ ॥

क्रमेण तद्वर्णविकारजाता

श्चक्रादिकाः षोडश मूर्तयः स्युः।

याभिस्तु विष्णोरिह पञ्जरस्य
प्रवर्तते शक्तिरनेकरूपा ॥ २४.६ ॥

यन्त्रस्य बीजेषु चतुर्षु पूर्वं

प्राग्दक्षिणप्रत्यगुदग्गतेषु।

विद्वांस्तु चक्रं च गदां च शार्ङ्गं
खङ्गं च मन्त्रैः सहितं विलिख्यात् ॥ २४.७ ॥

शङ्खहलमुसलशूला

न्यग्न्याद्यश्रिष्वथाष्टबीजेषु।

विलिखेद्दण्डं कुन्तं शक्तिं
पाशाङ्कुशं कुलिशशतमुखवह्नीन् ॥ २४.८ ॥

सप्रणवत्दृ(?)दयभगव

द्विष्णुस्वाख्यानमूर्तिधरयुक्ताः।

सेनापतिसहिता निज
मन्त्रान्ता मूर्तयोऽत्र लिखितव्याः ॥ २४.९ ॥

सहस्रारपदं पूर्वं कौमोदकि ततो भवेत्।
महाशार्ङ्गपदं पश्चान्महाखड्गपदं पुनः ॥ २४.१० ॥

प्रोक्तानि वर्मास्त्रान्तानि निजमन्त्राणि वै क्रमात्।
पूर्वं महापाञ्चजन्यं महाहलमनन्तरम् ॥ २४.११ ॥

ततो महामुसलकं महाशूलं ततः परम्।
स्वाहान्तानि च मन्त्राणि शङ्खादीनां क्रमाद्विदुः ॥ २४.१२ ॥

दण्डादीनामथाष्टानामन्ते युञ्ज्यान्नमःपदम्।
पोत्रोद्धृतधरं विद्वान्वाराहे विष्ण्वभिख्ययोः ॥ २४.१३ ॥

अन्तरा योजयेन्मन्त्री नारसिंहं पुनः सुधीः।
नखं च दलितं चैव रिपुविग्रहमेव च ॥ २४.१४ ॥

योजयित्वा नृसिंहात्प्राक् सिंहमन्त्रं समापयेत्।
विष्णोरन्ते महापक्षिराजाय च गरुत्मते ॥ २४.१५ ॥

हरिपूर्वं वाहनाय प्राणात्मन इतीरयेत्।
नमोऽन्तोऽसौ तु विद्वद्भिर्मन्त्रो गारुत्मतो मतः ॥ २४.१६ ॥

स त्रिष्टुभा वह्निगृहेण पूर्वं

सानुष्टुभेन्दोर्निलयेन चापि।

गायत्रिमन्त्रोल्लसितेन भूयः
प्रवेष्टयेदर्कनिकेतनेन ॥ २४.१७ ॥

अनुलोमविलोमगैश्च वर्णै

रभिवीतं वसुधापुरद्वयेन।

नलिनं बहिरष्टयुग्मपत्रं
प्रविदध्यादथ मूर्तिमन्त्रयुक्तम् ॥ २४.१८ ॥

तद्बहिर्मण्डलं सर्वलक्षणैरभिलक्षितम्।
तस्मिन्नावाह्य विधिवद्विश्वरूपहरिं यजेत् ॥ २४.१९ ॥

अग्नीषोमात्मकमरिगदाशार्ङ्गखड्गैः सशङ्खै

रुद्यद्बाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः।

शक्त्या पाशाङ्कुशकुलिशटङ्काग्निभिश्चार्कवह्नि
द्योतद्वक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ॥ २४.२० ॥

विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार

ग्रैवेयोर्म्यादिमुख्याभरणमणिगणोल्लासिदिव्याङ्गरागम्।

विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्य
द्बाह्वग्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ॥ २४.२१ ॥

अभ्यर्च्य पूर्ववत्पीठं नवशक्तिसमन्वितम्।
अर्चयेत्क्रमशो विद्वान्मूर्तिशक्तिचतुष्टयम् ॥ २४.२२ ॥

चक्रं च चक्राङ्ककिरीटमौलिं

सचक्रशङ्खं सगदं सशार्ङ्गम्।

रक्ताम्बरं रक्ततनुं कराल
दंष्ट्राननं प्राग्दलकेऽर्चयीत ॥ २४.२३ ॥

पूज्या गदा गदाङ्कित

मौलिः सगदा सचक्रशङ्खधनुः।

पीताम्बरानुलेपा
पीता क्रुद्धा च याम्यसंस्थदले ॥ २४.२४ ॥

श्यामं शार्ङ्गाङ्कितकं

शार्ङ्गं शार्ङ्गारिदरगदाहस्तम्।

रक्तांशुकानुलेपन
माल्यदिं वारुणे यजेत्पत्रे ॥ २४.२५ ॥

खड्गं सखड्गशिरसं

खड्गारिगदाधनुष्करं धूम्रम्।

विकृताम्बरानुलेप
स्रजं समभ्यर्चयेदुदक्पत्रे ॥ २४.२६ ॥

शङ्खं सशङ्खशिरसं

शङ्खारिगदाधनुष्करं सुसितम्।

सितवसनमाल्यभूषं
यजेन्महानादमग्निसंस्थदले ॥ २४.२७ ॥

शङ्खोक्तचिह्नभूषा

न्स्वास्त्रादिकधरचतुर्भुजानपरान्।

हलमुसलशूलसंज्ञा
न्यजेन्निशाटादिकेषु पत्रेषु ॥ २४.२८ ॥

दण्डादिकांस्तथाष्टौ

च्छिद्रदलेष्वर्चयीत रक्ताभान्।

स्वस्वायुधप्रधानां
श्चतुर्भुजाञ्शतमुखानलान्तांश्च ॥ २४.२९ ॥

दंष्ट्राग्रलग्नवसुधं सजलाम्बुवाह

चोरार्चिषं त्वभियजेदधरेऽष्टबाहुम्।

चक्रासिबाणसगदादरचर्मशार्ङ्ग
शक्त्याख्यकान्दधतमादिमहावराहम् ॥ २४.३० ॥

अर्कानलोज्ज्वलमुखं नयनैस्त्रिभिश्च

वह्निं क्षरन्तमवधूतसटाकलापम्।

शुक्लाभभूषमरिशङ्खगदासिबाहुं
भूयोऽभिराधयतु खे च महानृसिंहम् ॥ २४.३१ ॥

अग्रे समग्रबलमुग्रतनुं स्वपक्ष

विक्षेपविक्षतविलक्षविपक्षपक्षम्।

खण्डाग्रतुण्डममुमण्डजदण्डनाथ
माराधयेदथ च पञ्जरगस्य विष्णोः ॥ २४.३२ ॥

भूयोऽपि केशवेन्द्रा

दिकौ समभ्यर्चयेच्च वज्रादीन्।

गन्धादिभिरुपचारैः
पञ्चभिरथ संयतात्मको मन्त्री ॥ २४.३३ ॥

निवेदिते होमविधिश्च कार्यो

दीक्षाविधानाभिहितश्च वह्नौ।

ससर्पिषान्नेन तु वह्निमूर्तिं
हुत्वा तु विष्णोर्मनुना तथैव ॥ २४.३४ ॥

जुहुयाच्च वामदेवा

दिकशान्त्यादींश्च रुद्रसंख्येन।

दुग्धतरूत्थाः समिधः
क्रमेण चक्रादिभिश्चतुर्मन्त्रैः ॥ २४.३५ ॥

जुहुयादष्टोर्ध्वशतं

संख्याद्यैर्द्वादशभिरथ मनुभिः।

तिलसिद्धार्थैर्जुहुया
द्विकारसंख्यं पृथक्पृथङ्मन्त्री ॥ २४.३६ ॥

त्रिष्टुबनुष्टुप्तत्पद

मन्त्रैर्मन्त्रार्णसंख्यकं हविषा।

सघृतेन केशवाद्यै

र्दिनकरसंख्यं तथेन्द्रवज्राद्यैः ॥

जुहुयात्पृथगपि वसुमित
मथ च महाव्याहृतीर्हुनेन्मतिमान् ॥ २४.३७ ॥

आराध्य च विसृज्याग्निमभिषिच्य सुसंयतः।
विष्णोस्तु पञ्जरं कुर्यादृषिर्ब्रह्मबृहस्पती ॥ २४.३८ ॥

छन्दस्त्वनुष्टुप् त्रिष्टुप् च मुनिभिः समुदाहृते।
विश्वरूपादिको विष्णुर्विष्णुपञ्जरदेवता ॥ २४.३९ ॥

अष्टार्णचक्रमनुमध्यगतैश्च पादै

र्व्यस्तैस्तथा सुमतिरारचयेत्समस्तैः।

गीतामनोः क्रमश एव च जातियुञ्जि
पञ्चाङ्गकानि हरिपञ्जरकल्पितानि ॥ २४.४० ॥

विष्णुः प्राच्यादिकमथ जपेन्नारसिंहोऽम्बरान्तं

त्रिस्त्रिर्मन्त्रान्पुनरपि तथा पञ्चशस्त्वेकविंशत।

बुद्धिस्वास्थ्यप्रभृति च तथा पञ्चवारं त्रिगाधा
भूयो जप्याद्विमलशितधीश्चक्रमन्त्राभिधानम् ॥ २४.४१ ॥

नमो भगवते सर्वविष्णवे विश्वरूपिणे।
वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥ २४.४२ ॥

अर्केन्दुवह्निनिलयस्फुरितत्रिमन्त्र

शक्तिप्रबन्धमहसः परमस्य विष्णोः।

पादारविन्दगलितामृतसिक्तगात्रं
साध्यं स्मरेज्जपविधावपि साधकेशः ॥ २४.४३ ॥

विष्णोः सांनिध्यलब्धोल्लसितबलचलद्धस्तदण्डोद्यतास्त्रै

श्चक्राद्यैर्भीषणास्येक्षणचरणवचोहासहुंकारघोरैः।

उत्क्षिप्ताक्षिप्तकृत्तस्फुटितविगलिताघूर्णितध्वस्तशान्ता
ध्यायेद्वेतालभूतग्रहदुरितपिशाचारिनागारिरोगान् ॥ २४.४४ ॥

पूर्वं स्थाने हृषीकेशमन्त्रयुक्तं विधानवित्।
विश्वरूपात्मकं जप्याद्वैष्णवं मूलमन्त्रकम् ॥ २४.४५ ॥

योजयित्वा जपेत्पश्चाच्चक्रादिषु यथाक्रमम्।
चतुर्षु चतुरः पादान्गीतात्रिष्टुप्समुद्भवान् ॥ २४.४६ ॥

पूर्णेषु षोडशेष्वेवमाद्यं पादे वराहके।
द्वितीयान्नारसिंहे च द्वितीयं गारुडे पुनः ॥ २४.४७ ॥

चतुर्थं च क्रमं ते च योजयित्वा जपेत्सुधीः।
मन्त्रं सुदर्शनं चेत्थमिष्टमष्टादशं मनुम् ॥ २४.४८ ॥

संयोज्य कृच्छ्रे महति जपेन्मन्त्री विधानवित्।
आग्नेये वक्ष्यमाणेन विधानेन समाहितः ॥ २४.४९ ॥

सिकतोपलसर्वादीन्साधयेदथ तैः क्रियाः।
वास्तौ पुरे वा ग्रामे वा विदध्याद्विषयेऽपि वा ॥ २४.५० ॥

मध्ये च षोडशाशान्ते खनेदष्टादशावटान्।
अष्टादशं तु शक्रस्य विदध्यात्पुरतोऽवटम् ॥ २४.५१ ॥

हस्तागाधांस्तथायामांश्चतुरश्रान्समन्ततः।
अन्योन्यतश्चङ्क्रमार्थं शुद्धान्मार्गान्विधाय च ॥ २४.५२ ॥

गोमयेनोपलिप्येत नारीयस्थाप्यवस्त्वपि।
शुष्कपुष्करपत्रेषु विदध्याद्विंशतिष्वपि ॥ २४.५३ ॥

ततो मध्यमकुण्डस्य प्रविश्य पुरतो गुरुः।
तदन्तरिष्ट्वा पीठं च तत्र यन्त्रमनुस्मरन् ॥ २४.५४ ॥

स्थापयेद्वैष्णवे स्थाने विश्वरूपधिया सुधीः।
ततः क्रमेण चक्रादीन्दिक्कुण्डेषु चतुर्ष्वपि ॥ २४.५५ ॥

पुनः शङ्खादिकांस्तद्वत्कुण्डेष्वश्राश्रितेष्वपि।
तथा दण्डादिकानष्टौ च्छिद्राशासु प्रकल्पयेत् ॥ २४.५६ ॥

मध्ये पुनरधश्चोर्ध्वं कोलकेसरिणौ यजेत्।
चक्रस्य प्राक्तने कुण्डे स्थापयेद्विनतासुतम् ॥ २४.५७ ॥

ततः समस्थलीकृत्य क्रमात्समुपलिप्य च।
प्रत्यगानन आसीनो मध्यगस्थण्डिलस्थिते ॥ २४.५८ ॥

यज्ञे काञ्चनपत्रस्थे पूजयेत्पूर्ववत्प्रभुम्।
वादित्रघोषबहुलं निवेद्यान्तं यथाक्रमम् ॥ २४.५९ ॥

हुनेच्च पूर्वसंदिष्टैर्द्रव्यैः पूर्वोक्तमार्गतः।
आशोपाशान्तराशासु बलिं दद्यात्ित्रशस्त्रिशः ॥ २४.६० ॥

क्रमाच्चक्रादिमूर्तीनां पञ्चपूरान्धसा सुधीः।
तत उद्वास्य देवेशं पूजां प्रतिसमाप्य च ॥ २४.६१ ॥

दत्वा सुवर्णं वासांसि गुरवे ब्राह्मणानपि।
संतर्प्य विभवैः सम्यग्भोजयेद्देवताधिया ॥ २४.६२ ॥

तत्रोपसर्गा नश्यन्ति नरनारीमहीभृताम्।
ग्रहक्षुद्रपिशाचाद्या नेक्षन्ते तां दिशं भयात् ॥ २४.६३ ॥

अश्मपातादिका ये च भया नश्यन्ति ते चिरात्।
सस्यर्द्धिर्गोसमृद्धिश्च प्रजावृद्धिश्च जायते ॥ २४.६४ ॥

धनधान्यसमृद्धिश्च वर्धते तत्कुलं क्रमात्।
दारिद्र्यरोगनिर्मुक्तं सुखमाभूतसंप्लवम् ॥ २४.६५ ॥

रक्षोभिरक्षितबलैरसुरैश्च दैत्यैः

सर्वैः समुद्धृतमहास्त्रकरैः परीतम्।

विष्णोस्तु पञ्जरमिदं प्रभजन्तमव्या
त्साक्षादपीन्द्रमपरत्र नरे कथा का ॥ २४.६६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे चतुर्विंशः पटलः ॥