अथ प्रवक्ष्यामि नृसिंहमन्त्र
स्यानुष्टुभः संग्रहतो विधानम्।
साङ्गं सजापं सहुतक्रमं च
सार्चाविधानं निजवाञ्छिताप्त्यै ॥ २३.१ ॥
उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितं
संप्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णं तथा भीषणम्।
भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्या युतं
भूयोऽहंपदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम् ॥ २३.२ ॥
ब्रह्मा प्रजापतिर्वा
प्रोक्त ऋषिर्नारदश्च विद्वद्भिः।
छन्दोऽनुष्टुबुदाहृत
मथ विष्णुर्देवता नृसिंहाख्यः ॥ २३.३ ॥
वर्णैश्चतुर्भिरुदितं हृदयं शिरश्च
तावद्भिरष्टभिरथास्य शिखा प्रदिष्टा।
षड्भिश्च वर्म नयनं च चतुर्भिरस्त्रं
प्रोक्तं क्रमेण मनुनाक्षरशः षडङ्गम् ॥ २३.४ ॥
सशिरोललाटदृग्युग
मुखकरपदसंधिकेषु साग्रेषु।
उदरहृदोर्गलपार्श्वे
ष्वपरे ककुदि क्रमान्न्यसेद्वर्णान् ॥ २३.५ ॥
प्रतिपत्तिरस्य चोक्ता
प्रसन्नता क्रूरता विशेषेण।
द्विविधा प्रसन्नया स्या
त्साधनपूजान्यया प्रयोगविधिः ॥ २३.६ ॥
जान्वोरासक्ततीक्ष्णस्वनखरुचिलसद्बाहुसंस्पृष्टकेश
श्चक्रं शङ्खं च दोर्भ्यां दधदनलसमज्योतिषा भग्नदैत्यः।
ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं
दंष्ट्रोग्रं धूतकेशं वदनमपि वहन्पातु वो नारसिंहः ॥ २३.७ ॥
उद्यद्भास्वत्सहस्रप्रभमशनिनिभत्रीक्षणैर्विक्षरन्तं
वह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च।
दिव्यैरादीप्तदेहं निशितनखलसद्बाहुदण्डैरनेकैः
संभिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥ २३.८ ॥
नरसिंहममुं धियैव पूर्वं
प्रणिपत्यार्घ्यकपाद्यसाचमाद्यैः।
प्रयजेत्सहगन्धपुष्पधूपा
दिभिरेवं प्रवरैश्च नृत्तगीतैः ॥ २३.९ ॥
सुविशदमतिरथ बहिरपि
सम्यक्संपूज्य वैष्णवं पीठम्।
तत्रावाह्य च नरहरि
मुपचारैः सम्यगर्चयेत्प्रवरैः ॥ २३.१० ॥
अङ्गैः प्रथमावृतिरपि
पक्षीन्द्रानन्तशर्वकमलभवैः।
सश्रीह्रीधृतिपुष्टिभि
रपरोक्ता लोकपालकैरन्या ॥ २३.११ ॥
प्राक्प्रत्यग्यमशशिनां
दिगाश्रया मूर्तयोऽनलादिषु च।
स्युः शक्तय इत्येवं
भक्त्या परया युतोऽर्चयेद्देवम् ॥ २३.१२ ॥
द्वात्रिंशके सहस्रै
रधिकृतिरयुतैर्भवेत्पुरश्चरणम्।
तावद्भिस्तावद्भि
र्लक्षैः सिद्धिः समीरितास्य मनोः ॥ २३.१३ ॥
विकृतिद्विगुणसहस्रै
र्जुहुयादाज्यान्वितैश्च दुग्धान्नैः।
जपसंपूर्तौ मन्त्री
दिनशः संपूजयेच्च नरसिंहम् ॥ २३.१४ ॥
विधाय तद्बीजविशिष्टकर्णिकं
चतुश्चतुर्वर्णलसद्दलाष्टकम्।
सुलक्षितं मण्डलमन्यलक्षणै
र्निधाय तस्मिन्कलशं प्रपूर्य च ॥ २३.१५ ॥
यथोक्तमार्गेण समर्च्य साष्टकं
सहस्रसंख्यं प्रजपेन्मनुं ततः।
त्रिरुच्चरन्मन्त्रमथाभिषेचये
द्यमेष मृत्योर्विनिवर्तते मुखात् ॥ २३.१६ ॥
वर्णान्तानलभुवना
र्धेन्दुभिरुक्तं नृसिंहबीजमिदम्।
तन्नास्ति सम्यगमुना
मन्त्रविदा साधितेन यदसाध्यम् ॥ २३.१७ ॥
विभवानुरूपतोऽस्मै
दातव्या दक्षिणा च निजगुरवे।
प्राणप्रदानकर्त्रे
न तु कार्यं वित्तशाठ्यममलधिया ॥ २३.१८ ॥
संप्रीणयित्वा गुरुमात्मशक्त्या
संभोजयेद्विप्रवरान्यथावत्।
स त्वैहिकीं सिद्धिमवाप्य शुद्धं
परं परत्रापि पदं समेति ॥ २३.१९ ॥
दूर्वात्रिकैरष्टसहस्रसंख्यै
राराध्य मन्त्री जुहुयादथाप्सु।
शान्तिं प्रयान्त्येव तदोपसर्गा
आपो हि शान्ता इति च श्रुतिः स्यात् ॥ २३.२० ॥
उत्पाते महति सति ह्युपद्रवाणां
होमोऽयं भवति च शान्तिदो नराणाम्।
यद्वान्यन्निजमनसेप्सितं च कामं
तच्चाप्नोत्यखिलनृणां प्रियश्च भूयात् ॥ २३.२१ ॥
दुःस्वप्नेष्वपि दृष्टे
ष्ववशिष्टा जाग्रता निशा नेया।
जपमानमन्त्रशक्त्या
सुस्वप्नो भवति तत्क्षणादेव ॥ २३.२२ ॥
चरन्वने दुष्टमृगाहिचोर
व्यालाकुले मन्त्रममुं जपेद्यः।
असाधितं साधितमेव तस्य
न विद्यते भीर्बहुरूपजाता ॥ २३.२३ ॥
जप्तेनाष्टसहस्रं
कलशेनाप्यहिविषार्तमभिषिञ्चेत्।
अतिविषमेण विषेणा
प्यसौ विमुक्तः सुखी भवति ॥ २३.२४ ॥
मूषिकलूतावृश्चिक
बहुपादाद्युत्थितं विषं शमयेत्।
अष्टोत्तरशतजापा
न्मनुरयमभिमन्त्रितं च भस्माद्यम् ॥ २३.२५ ॥
सशिरोक्षिकण्ठदद्गल
कुक्षिरुजाज्वरविसर्पवमिहिक्काः।
मन्त्रौषधाभिचारक
कृतान्विकारानयं मनुः शमयेत् ॥ २३.२६ ॥
नरहरिवपुषात्मना गृहीतं
हरिणशिशुं निजवैरिणं विचिन्त्य।
क्षिपतु गगनतः क्षितौ सुदूरं
यमनुदिनं प्रतिचाट्यते समासात् ॥ २३.२७ ॥
यां च दिशं प्रति मनुना
क्षिप्तोऽसौ तां दिशं प्रयात्यचिरात्।
पुत्रकलत्रधनादीं
स्त्यक्त्वा त्वपुनर्निवृत्तये सहसा ॥ २३.२८ ॥
नरहरिवपुषात्मना निजारिं
नखरखराग्रसमग्रभिन्नदेहम्।
क्षणमिव निहतं विचिन्त्य खाद
न्निव जपतां मनुमेष नाशमेति ॥ २३.२९ ॥
पूर्वतरे मृत्युपदे
विधाय निजसाध्यनाम मन्त्रितमः।
क्रूरेण चक्षुषा तं
दहन्निवालोक्य जपतु सप्तदिनम् ॥ २३.३० ॥
दिनशोऽष्टोर्ध्वसहस्रं
म्रियते रिपुरस्य नात्र संदेहः।
मारणकर्म न शस्तं
क्रियते यद्ययुतमथ जपेच्छान्त्यै ॥ २३.३१ ॥
वश्याकृष्टिद्वेषण
मोहोच्चाटादिकानि यदि वाञ्छेत्।
तदर्हया प्रतिपत्त्या
तत्तत्कर्म प्रसाधयेन्मन्त्री ॥ २३.३२ ॥
दिनमनु दिननाथं पूजयित्वा दिनादौ
नरहरिमपि सम्यक्प्रोक्तमार्गेण मन्त्री।
तदनु तदनुमत्या भस्मना मन्त्रितेन
प्रतिरचयतु राज्ञे वाप्यभीष्टाय रक्षाम् ॥ २३.३३ ॥
न्यासोक्तेषु स्थाने
ष्वपि न्यसेद्भस्मना समन्त्रार्णम्।
अखिलोपद्रवशान्त्यै
संपत्त्यै वाञ्छितार्थसंसिद्ध्यै ॥ २३.३४ ॥
अथ परराष्ट्रजयेच्छो
राज्ञः कुर्यात्प्रयोगविधिमेवम्।
नरहरिमपि विधिना तं
हिरण्यकशिपुद्विषं समभ्यर्च्य ॥ २३.३५ ॥
तस्य पुरस्ताद्विधिव
न्निधाय वह्निं विभीततरुकाष्ठैः।
उज्ज्वलिते च ज्वलने
समूलतूलैः शरेध्मदशशतकैः ॥
खादन्निवोच्चरन्मनु
मरींश्च भिन्दन्निव क्षिपेत्समिधः ॥ २३.३६ ॥
हुत्वा परराष्ट्रेभ्यः
पृतनां संनाह्य च पुरस्तस्याः।
निघ्नन्तं रिपुसेनां
स्मरन्नृसिंहं पुरेव दितितनयात् ॥ २३.३७ ॥
यावज्जितारिरेष्यति
नृपतिस्तावज्जपेत्स्मरन्नेवम्।
सेन्द्रसुरासुररक्षो
यक्षानपि जयति का कथा मनुजे ॥ २३.३८ ॥
श्रीकामः श्रीप्रसूनैर्दशकमथ शतानां हुनेद्बिल्वकाष्ठै
स्तत्पत्रैर्वा प्रसूनैः सुमतिरथ समिद्भिः फलैर्वा तदीयैः।
पुत्रेप्सुः पुत्रजीवेन्धनचितदहने तत्फलैर्वा सहस्रं
दूर्वाभिस्त्वायुषेऽब्दादभिमतमखिलं प्राप्नुयान्मन्त्रजापी ॥ २३.३९ ॥
ब्राह्मीं वचां वाष्टशताभिजप्तां
प्रातः समद्यान्नृहरिं विचिन्त्य।
संप्राप्य मेधां स तु वेदशास्त्र
निष्णातधीः स्यादपि वासरेण ॥ २३.४० ॥
उक्तैः किमत्र बहुभिर्मनुनामुनैव
संप्रार्थितं सकलमेव लभेद्विधिज्ञः।
तस्मादमुं भजत तत्प्रतिपन्नचित्ताः
संसारसागरसमुत्तरणार्थिनो ये ॥ २३.४१ ॥
पाशाङ्कुशान्तरितशक्तिनृसिंहबीजै
र्वर्मास्त्रयुङ्मनुरयं कथितः षडर्णः।
ऋष्यादिकाः स्वभवपङ्क्तिकनारसिंहा
वर्णैश्च मन्त्रनिहितैः कथितं षडङ्गम् ॥ २३.४२ ॥
अव्यान्निर्व्याजरौद्राकृतिरभिविवृतास्याल्लेसत्तीक्ष्णदंष्ट्र
श्चक्रं शङ्खं च पाशाङ्कुशकुलिशगदादारणाख्यान्दघानः।
रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषो
देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥ २३.४३ ॥
हृल्लेखान्तःस्थसाध्यं दहनपुरयुगाश्रिस्थमन्त्रार्णमन्तः
सिंहानुष्टुप्चतुर्वर्णकलसितदलाढ्यं कलाकेसरं च।
वृत्तोद्यद्व्यञ्जनावेष्टितमवनिपुराश्रस्थचिन्तोपलं त
द्यन्त्रं रक्षःपिशाचामयविषयरिपुध्वंसनं नारसिंहम् ॥ २३.४४ ॥
इति विरचितयन्त्रप्रोज्ज्वले मण्डले प्रा
क्समभिहितकषायाम्भोभिरापूर्य कुम्भम्।
प्रतियजतु तदङ्गैरस्त्रभेदैस्तदीयै
स्तदनु मखशताद्यैः साधुवज्रादिकैश्च ॥ २३.४५ ॥
रथचरणशङ्खपाशा
ङ्कुशकुलिशगदाह्वयानि चास्त्राणि।
दारुणमुद्राकरयो
र्ययोस्तदीयौ कृपाणखेटाख्यौ ॥ २३.४६ ॥
इति कृतदीक्षः प्रजपे
दक्षरलक्षप्रमाणकं मन्त्रम्।
जुहुयाच्च षट्सहस्रं
जपावसाने घृतेन शुद्धेन ॥ २३.४७ ॥
खरमञ्जरीसमुत्थं
जुहुयादथ मञ्जरीसहस्रतयम्।
प्रस्नातपञ्चगव्यं
सप्तदिनं भूतशान्तये मन्त्री ॥ २३.४८ ॥
छिन्नरुहां समिधां त्रिसहस्रं
यश्च जुहोति चतुर्दिनमात्रम्।
दुग्धयुजं नचिरान्मनुजानां
होमविधिर्ज्वरशान्तिकरः स्यात् ॥ २३.४९ ॥
अस्य यन्त्रमभिलिख्य भूर्जके
साधु चाथ तृणराजपत्रके।
मन्त्रजप्तमपि शीर्षबन्धना
ज्जूर्तिविभ्रमशिरोरुजापहम् ॥ २३.५० ॥
रक्तोत्पलैः प्रतिदिनं मधुरत्रयाक्तै
र्यो वा जुहोति नियमेन सहस्रसंख्यैः।
मासेन वाञ्छितमवाप्स्यति मन्त्रजापी
स्याद्वत्सरेण धनधान्यसमृद्धगेहः ॥ २३.५१ ॥
आरक्तैस्तरणिसहस्रकं प्रफुल्लै
रम्भोजैस्त्रिमधुरसंयुतैर्जुहोति।
लक्ष्मीः स्यादथ महती महत्तथायुः
संप्राप्तः सकलजगत्प्रियश्च भूयात् ॥ २३.५२ ॥
लाजाभिस्त्रिमधुरसंयुताभिरह्नो
मासार्धं प्रतिजुहुयान्मुखे सहस्रम्।
कन्यार्थी प्रतिलभते वरोऽथ कन्यां
कन्या वा भवति वरार्थिनी वराढ्या ॥ २३.५३ ॥
तिलैः सराजीखरमञ्जरीसमि
द्धविर्घृतैश्च द्विसहस्रसंख्यकैः।
प्रजुह्वतो नैव रुजा ग्रहोद्भवा
न चाभिचारक्षतिरस्य जायते ॥ २३.५४ ॥
दशाधिकशतैः पयोघृतयुतैश्च दूर्वात्रयै
र्हुनेद्दिनमुखेऽपि यो नरहरिं विचिन्त्यानले।
अवाप्य स तु दीर्घमायुरखिलैर्वियुक्तो गदैः
सुखी भवति मानवो निजकलत्रपुत्रादिभिः ॥ २३.५५ ॥
विस्तारैः किं प्रतिजपति यो मन्त्रमेनं यथोक्तं
लब्ध्वा कामान्समभिलषितानाशु मन्त्री स भूयः।
द्रव्यैराढ्यो द्विजनृपवरैः पूजितः शान्तचेताः
स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ २३.५६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रयोविंशः पटलः ॥