अथोच्यते श्रीकरनामधेय
मष्टाक्षरं लोकहिताय तावत्।
येन प्रजप्तेन समर्चितेन
हुतेन सिद्धिं समुपैति मन्त्री ॥ २२.१ ॥
सर्गादर्कः क्षतो विंशतियुगमयुतं शान्तगं चन्द्रबिम्बं
श्रीबाहुः शुक्लमेदोहरिशयनहकारा मनुः श्रीकराख्यः।
ऋष्याद्या वामपङ्क्तीरहिरपि पुनरङ्गानि यान्तैर्हुमन्तै
र्भीषत्रासप्रमर्दप्रसहितगदितध्वंसरक्षैर्द्विरुक्तैः ॥ २२.२ ॥
मूर्धाक्षिकण्ठहृदयोदरसोरुजानु
पादद्वयेषु लिपिशो न्यसतु स्वदेहे।
विप्रादिकान्मुखकरोरुपदेषु वर्णां
श्चक्रादिकानपि करेषु ततस्तदस्त्रान् ॥ २२.३ ॥
दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो
भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः।
दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापङ्कजे स्वर्णवर्णो
भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रिये वो मुकुन्दः ॥ २२.४ ॥
दिक्पत्रेषु श्रीरति
धृतिकान्तीः कोणकेषु मूर्तीश्च।
इष्ट्वाभितो निधीशौ
विष्वक्सेनं च दिक्पतीन्प्रयजेत् ॥ २२.५ ॥
आराध्य चैवं विधिना च विष्णुं
मन्त्री पुनर्होमविधिं करोतु।
श्रीदुग्धवृक्षोत्थसमिद्भिरब्जैः
साज्येन दौग्धेन च सर्पिषा च ॥ २२.६ ॥
पृथगष्टशतं क्रमेण हुत्वा
कनकाद्यैरपि तर्पिते गुरौ च।
अभिषिच्य तथाभिपूज्य विप्रा
न्मनुमेनं प्रजपेदथाष्टलक्षम् ॥ २२.७ ॥
द्रव्यैस्तैः प्रतिजुहुयाद्दशांशमानै
राचार्यं पुनरपि पूजयेज्जपान्ते।
संप्राप्नोत्यपरिमितां श्रियं च कीर्त्ति
कान्तिं वा चिरमनुरज्यते च लोकैः ॥ २२.८ ॥
दूर्वां घृतप्रसिक्तां
जुहुयादयुतं नरस्तु हुतशिष्टैः।
आज्यैश्चरुमुपयुञ्ज्या
द्दद्याद्गुरवे च दक्षिणां शक्त्या ॥ २२.९ ॥
परिपूजयेच्च विप्रां
स्तेषु दिनेषु स्वशक्तितो भक्त्या।
अपमृत्युरोगपापा
न्विजित्य स तु दीर्घमायुराप्नोति ॥ २२.१० ॥
अनुदिनमादित्यमुखः
प्रजपेदूर्ध्वीकृतस्वबाहुयुगः।
तस्य गृहेऽन्नसमृद्धि
श्चिराय संजायते सुपुष्टतरा ॥ २२.११ ॥
एवं प्रोक्तैः प्रतिजपहुतार्चादिभिर्मन्त्रमेनं
भक्त्या यो वा भजति मनुजो नित्यशः सोऽचिरेण।
इष्टैः पुत्रैर्धरणिधनधान्यादिभिर्हृष्टचेताः
स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ २२.१२ ॥
अथ कथयामि विधानं
महावराहाभिधानमन्त्रस्य।
साङ्गं सजपं सहुता
राधनमपि मन्त्रिणामभीष्टाप्त्यै ॥ २२.१३ ॥
वाक्यं प्रोक्त्वा हृदाख्यं तदनु भगवतेयुग्वराहं च रूपा
येत्युक्त्वा व्याहृतीनामुपरि च पतये भूपतित्वं च मेऽन्ते।
देहीत्याभाष्य दान्तः सुमतिरथ पुनर्दापयस्वेति हान्तं
प्रोक्त्वा तारादिकं प्रोद्धरतु मनुवरं तत्र यस्त्रिंशदर्णम् ॥ २२.१४ ॥
ऋषिस्तु भार्गवः प्रोक्तोऽथानुष्टुप्छन्द ईरितम्।
वराहो देवता चास्य कथ्यन्तेऽङ्गान्यतः परम् ॥ २२.१५ ॥
अस्यैकश्रृङ्गो हृदयं शिरश्च
व्योमोल्कतेजोऽधिपतिः शिखा च।
स्याद्विश्वरूपं कवचं महाद्यो
दंष्ट्रोस्त्रमुक्तं स्वयमेव चाङ्गम् ॥ २२.१६ ॥
सप्तभिश्च पुनः षड्भिः सप्तभिश्चाथ पञ्चभिः।
अष्टभिर्मूलमन्त्रार्णैर्विदध्यादङ्गकल्पनाम् ॥ २२.१७ ॥
जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः
कण्ठादानाभि वह्निप्रभमथ शिरसश्चार्गलं नीलवर्णम्।
मौलेर्व्योमाभमाकं करलसदरिशङ्खासिखेटं गदा श
क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥ २२.१८ ॥
सजलाम्बुवाहनिभमुद्धतदोः
परिघं धराधरसमानतनुम्।
सितदंष्ट्रिकाधृतभुवं त्वथ वा
प्रविचिन्तयेत्सपदि कोलमुखम् ॥ २२.१९ ॥
हेमप्रख्यं पार्थिवे मण्डले वा
नीहाराभं नीरजेऽग्नेस्तदाभम्।
वायोः कृष्णं द्युप्रभं वा दिविस्थं
क्रोडं व्याप्तं सत्यसंस्थं यजेद्वा ॥ २२.२० ॥
अष्टपत्रमथ पद्ममुल्लस
त्कर्णिकं विधिवदारचय्य च।
मण्डले रविसहस्रसंनिभं
सूकरं यजतु तत्र सिद्धये ॥ २२.२१ ॥
प्राग्दक्षिणप्रत्यगुदग्दिशासु
चत्वारि चाङ्गानि यजेत्क्रमेण।
अस्त्रं विदिक्षूर्ध्वमधश्च चक्रा
द्यस्त्राणि पूज्यानि वराहमूर्तेः ॥ २२.२२ ॥
अरिशङ्खकृपाणखेटसंज्ञा
न्सगदाशक्तिवराभयाह्वयांश्च।
अभिपूज्य दिशाधिपान्यथाव
द्वरगन्धाक्षतपुष्पधूपदीपैः ॥ २२.२३ ॥
दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुंकृतौ
वागीशीं श्वसितेऽनिलं रविशशी वाह्वोश्च दक्षान्ययोः।
कुक्षौ स्युर्वसवो दिशः श्रुतिपथे दस्रौ दृशोः पादयोः
पद्मोत्थो हृदये हरिः पृथगमी पूज्या मुखे शंकरः ॥ २२.२४ ॥
एवं काले कोलमभ्यर्चयित्वा
जप्यो मन्त्रोऽसौ पुनर्लक्षसंख्यम्।
होमं कृत्वा तद्दशांशैश्च पद्मै
स्त्रिस्वाद्वक्तैः प्राप्नुयाद्भूसमृद्धिम् ॥ २२.२५ ॥
ध्यानादपि धनसिद्धि
र्मन्त्रजपाच्चाधरो भवेत्सधरः।
जपपूजाहुतविधिभि
र्मङ्क्षु नरो धनधरेन्दिरावान्स्यात् ॥ २२.२६ ॥
ध्यातः सन्भूगृहेऽसौ भुवमतुलतरां वारुणे शान्तिमुच्चै
राग्नेये वश्यकीर्त्त्यादिकमनिलपुरस्थोऽयमुच्चाटनादीन्।
रक्षां व्योम्नोऽरिभूतग्रहविषदुरितेभ्योऽनिलाग्न्योश्च पीडां
युद्धे वह्नीरयोर्वै जयमपि नितरां संनिधत्ते वराहः ॥ २२.२७ ॥
हरिस्थेऽर्केऽष्टम्यामथ सितरुचौ कोलवपुषा
सितां गव्यैः सर्वैर्युतमयुतजप्तामपि शिलाम्।
उदग्वक्त्रो मन्त्री मनुजपरतः स्थापयतु ता
मयत्नं क्षेत्रेषु द्रुतमरिनिरोधं शमयति ॥ २२.२८ ॥
भौमे वारेऽथ भानूदयमनु जपवान्संगृहीत्वा मृदंशं
कोलात्मा वैरिरुद्धादपि च कुतलतस्तं च कृत्वा गुणांशम्।
एकं जातौ विलिप्यात्पुनरपरतरं पाकपाके तथान्यं
तोये तस्मिन्सदुग्धे प्रतिपचतु हविः संस्कृते हव्यवाहे ॥ २२.२९ ॥
आराध्य चाष्टोर्ध्वशतप्रमाणं
साज्येन मन्त्री हविषाथ तेन।
सत्पारवारं जुहुयाद्यथाव
त्क्षेत्रोत्थितापत्प्रशमं प्रयाति ॥ २२.३० ॥
भृगुवारे च मुखेऽह्नः
संगृह्य मृदं हविः समापाद्य।
जुहुयादीरितविधिना
बलिमपि दद्यान्महाविरोधेषु ॥ २२.३१ ॥
हुतक्रियैवं दिवसैश्च सप्तभि
र्विनाशयेद्भूमिविवादसंकटम्।
परेतवेतालपिशाचडाकिनी
समुत्थितां वा विकृतिं विधिस्त्वयम् ॥ २२.३२ ॥
विलोड्य तामेव मृदं च दुग्धे
हुनेद्धृते वाप्टयुतं सहस्रकम्।
द्विमण्डलादेव मही महार्घ्या
स्यान्मन्त्रिणोऽस्यैव तु निःसपत्ना ॥ २२.३३ ॥
नृपतरुसमिधामयुतं
मन्त्रेणानेन यो हुनेन्मन्त्री।
गृहयात्रास्य न सीदे
त्क्षेत्रादिकमपि च वर्धते क्रमशः ॥ २२.३४ ॥
अष्टोर्ध्वशतं मन्त्री
दिनशो यो वा जुहोति शालीभिः।
स तु वत्सरेण मन्त्री
विराजते व्रीहिपुञ्जपूर्णगृहः ॥ २२.३५ ॥
मन्त्रेणानेन सर्पिर्जुहुत दशशतं मण्डलात्स्वर्णसिद्धिः
स्वाद्वक्तेनाञ्जलिन्या अपि कुसुमसहस्रेण वा वाससां च।
लाजानां कन्यकाया अपि च मधुमतां होमतो वाञ्छितायाः
सिद्धी रक्तोत्पलानामपि मधुरयुजां स्याद्धुताच्छ्रीः समग्रा ॥ २२.३६ ॥
दण्ड्यर्धीशो व्योमा
सनस्तु वाराहमुच्यते बीजम्।
अमुना तु साधितेन
प्राप्स्यन्ति नराः समृद्धिमतुलतराम् ॥ २२.३७ ॥
तारेऽमुमपि लिखित्वा
तद्बाह्येऽनलपुरं समापुटितम्।
तद्बाह्ये च चतुर्दल
मब्जं स्यात्तद्बहिस्तथाष्टदलम् ॥ २२.३८ ॥
बाह्ये षोडशपत्रं
मण्डलमाखण्डलीयमपि बाह्ये।
मध्ये सूकरबीजे
साध्यक्षेत्राख्यमन्त्रमश्रिषु च ॥ २२.३९ ॥
रन्ध्रेष्वङ्गमनूनपि
दलमूलेऽष्टार्णकेसराणि लिखेत्।
अष्टावष्टौ दलमनु
सूकरमन्त्रस्य चाक्षरान्क्रमशः ॥ २२.४० ॥
अन्त्येऽवशिष्टमक्षर
मथाष्टपत्रे स्वराख्यकिञ्जल्के।
वर्णांश्चतुश्चतुरपि
तथाष्टमे पञ्च चालिखेत्पत्रे ॥ २२.४१ ॥
व्यञ्जनकिञ्जल्केऽन्त्ये
द्वौ द्वौ त्रयमन्त्यके दले विलिखेत्।
ताहमहीकोलार्णैः
प्रवेष्टयेत्साध्यवर्णपरिपुटितैः ॥ २२.४२ ॥
तद्बाह्ये मनुवर्णै
र्विदर्भिताभिश्च साध्यपदलिपिभिः।
क्ष्माबिम्बचतुष्कोणे
गर्भगसाध्याक्षरं चतुर्बीजम् ॥ २२.४३ ॥
अष्टसु शूलेषु तथा
वाराहं वासुसेनसंवृत्तम्।
लाक्षाकुङ्कुमचन्दन
लघुकर्पूरैः सरोचनैर्विलिखेत् ॥
गोशकृदम्भोयुक्तै
र्लेखिन्या हैमया दिने प्रवरे ॥ २२.४४ ॥
सौवर्णे राज्यसिद्धिं रजतकफलके ग्रामसिद्धिं च ताम्रे
साहस्रस्वर्णसिद्धिं भुजदललिखितं चाशु संसारयात्राम्।
क्षौमे लाभं धरायाः पिचुतरुफलके कार्यसिद्धिं निजेष्टां
यन्त्रं संजप्तक्लृप्तं घृतहुतकृतसंपातपातं करोति ॥ २२.४५ ॥
मन्त्री समास्थाय वराहरूपं
साध्यप्रदेशे निखनेच्च यन्त्रम्।
स्थिराख्यराशावभिवाह्य कोल
मङ्गानि दिक्षु क्षिपतां यथावत् ॥ २२.४६ ॥
यन्त्रमिदं रक्षायै
रोगग्रहवैकृतेषु जन्तूनाम्।
संजप्य शिरसि बन्ध्या
त्स तु नीरोगस्त्वयत्नतो भवति ॥ २२.४७ ॥
इत्येवं प्रणिगदितो वराहमन्त्रो
यस्त्वेनं प्रभजति नित्यशो जपाद्यैः।
स प्राप्नोत्यखिलमहीसमृद्धिमस्मि
न्देहान्ते व्रजति हरेः परं पदं तत् ॥ २२.४८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे द्वाविंशः पटलः ॥