अथोच्यते द्वादशवर्णसंज्ञो
मन्त्रस्तु साङ्गः सजपः सहोमः।
विधानतो यं प्रतिजप्य भक्ता
भुक्तेश्च मुक्तेश्च पदं भवेयुः ॥ २१.१ ॥
तारं सहृदयं मध्ये गवते स्युर्भवार्णयोः।
सुययोश्च तथा देवा मन्त्रोऽयं द्वादशाक्षरः ॥ २१.२ ॥
ऋषिः प्रजापतिश्छन्दो गायत्रं विष्णुरुच्यते।
देवता हृद्ध्रुवेण स्यान्नमसा शिर उच्यते ॥ २१.३ ॥
चतुर्भिश्च शिखावर्णैः पञ्चभिः कवचं भवेत्।
प्रोक्तमस्त्रं समस्तेन पञ्चाङ्गविधिरीदृशः ॥ २१.४ ॥
सपादजानुयुगललिङ्गनाभ्युदरेषु च।
हृद्दोर्गलास्यदृङ्मस्तशिखास्वक्षरतो न्यसेत् ॥ २१.५ ॥
शिखाललाटनेत्रास्यगलदोर्हृदयेषु च।
सकुक्षिनाभिलिङ्गाख्यजानुपादेषु विन्यसेत् ॥ २१.६ ॥
हृत्कुक्षिनाभिषु तथा गुह्यजानुपदेष्वधः।
करकण्ठास्यदृङ्मस्तशिखासूर्ध्वं च विन्यसेत् ॥ २१.७ ॥
संहृतेर्दोषसंहारः सृष्टेश्च शुभपुष्टयः।
स्थितेश्च शान्तिविन्यासस्तस्मात्कार्यस्त्रिधा मतः ॥ २१.८ ॥
हरिमुज्ज्वलचक्रदराब्जगदा
कुलदोः परिघं सितपद्मगतम्।
वलयाङ्गदहारकिरीटधरं
नवकुन्दरुचं प्रणमामि सदा ॥ २१.९ ॥
विधिवदथ विहितदीक्षो
जपेन्मनुं वर्णलक्षमानममुम्।
शुद्धैश्च तिलैर्जुहुया
द्द्वादशसाहस्रकं तथा मन्त्री ॥ २१.१० ॥
पीठे हरेरथाङ्गैः
सशक्तिभिर्मूर्तिभिस्तदनु यजेत्।
केशवसुरनाथाद्यै
रपि देवं भक्तिपूर्वतो विद्वान् ॥ २१.११ ॥
समिधामथ दुग्धवृक्षजानां
जुहुयादर्कसहस्रकं सदुग्धम्।
मनसः परिशुद्धये मनस्वी
सघृतेनापि पयोन्धसा सितेन ॥ २१.१२ ॥
द्वादशाक्षरजपं तु सार्चनं
यो भजेत्सुनियतो दिने दिने।
ऐहिकं समुपलभ्य वाञ्छितं
प्रेत्य याति पदमक्षयं हरेः ॥ २१.१३ ॥
अथ प्रवक्ष्यामि सुदर्शनस्य
विधिं मनोज्ञं ग्रहतेजपादैः।
यत्सिद्धितः सिद्धिमवाप्य रम्यां
सिद्धा मुनीन्द्रा अपि सद्य एव ॥ २१.१४ ॥
अन्त्यतुरीयतदादिक
भृगुदहनानन्तवह्निवर्मास्त्रैः।
तारादिर्मनुरुक्तः
स्यादभिमतसिद्धिदो रथाङ्गाख्यः ॥ २१.१५ ॥
ऋषिरस्याहिर्बुध्न्य
श्छन्दोऽनुष्टुप्चं देवता विष्णुः।
चक्रपदैराविसुधी
सज्वालाद्यैः शिरोन्वितैरङ्गम् ॥ २१.१६ ॥
ऐन्द्रीं समारभ्य दिशं त्वधस्ता
दन्तं समुक्त्वा क्रमशो दशानाम्।
चक्रेण बध्नामि नमस्तथोक्त्वा
चक्राय शीर्षं च दिशां प्रबन्धः ॥ २१.१७ ॥
त्रैलोक्यं रक्ष रक्षेति हुंफट्स्वाहेति चोदितः।
तारादिकोऽयं मन्त्रः स्यादग्निप्राकारसंज्ञकः ॥ २१.१८ ॥
तारं तु मूर्ध्न्यथ सितारुणकृष्णवर्णं
मध्ये भ्रुवोश्च समथो वदने हकारम्।
हृद्गुह्यजानुपदसंधिषु चावशिष्टा(?)
न्वर्णान्न्यसेदिति तनौ पुनरग्निवर्णान् ॥ २१.१९ ॥
अव्याद्भास्करसप्रभाभिरखिला भाभिर्दिशो भासय
न्भीमाक्षः क्षरदट्टहासविकसद्दंष्ट्राग्रदीप्ताननः।
दोर्भिश्चक्रदरौ गदाब्जमुसलास्त्रासींश्च पाशाङ्कुशौ
बिभ्रत्पिङ्गशिरोरुहोऽथ भवतश्चक्राभिधानो हरिः ॥ २१.२० ॥
प्रोक्त्वा सुदर्शनायेति विद्महेऽन्ते महापदम्।
ज्वालाय धीमहे चोक्त्वा तन्नश्चक्रः प्रचोदयात् ॥ २१.२१ ॥
सौदर्शनीयं गायत्री जप्तव्या जप्तुमिच्छता।
सांनिध्यकारिणीं मुद्रां दर्शयेदनया सुधीः ॥ २१.२२ ॥
नमो भगवते प्रोक्त्वा महासुदर्शनाय च।
महाचक्राय च तथा महाज्वालाय चेत्यथ ॥ २१.२३ ॥
दीप्तिरूपाय चेत्युक्त्वा सर्वतो रक्ष रक्ष माम्।
महाबलाय स्वाहेति प्रोक्तस्तारादिको मनुः।
रक्षाकरः प्रसिद्धोऽयं क्रियमाणेषु कर्मसु ॥ २१.२४ ॥
षट्कोणान्तःस्थतारं विवरलिखितमन्त्राक्षरं सिद्धिराज
त्स्वाङ्गं बाह्ये कलाकेसरमुदरगताष्टाक्षरं चाष्टपत्रम्।
पद्मं वर्णैर्विराजद्विकृतिदललसत्षोडशार्णं त्रिवीतं
व्योमान्त्यार्णं स्वनाम्ना विरचितगुणपाशाङ्कुशं चक्रयन्त्रम् ॥ २१.२५ ॥
प्रणवहृद्भगवद्युतङे महा
दिकरथाङ्गचतुर्थिहुमस्त्रकैः।
निगदितस्त्विह षोडशवर्णको
मनुवरो मुनिभिर्विहितादरः ॥ २१.२६ ॥
क्वाथैः पयोभूरुहचर्मसिद्धै
र्दुग्धेन गव्यैरपि पञ्चभिर्वा।
मूत्रैः पशोर्वा प्रतिपूर्य कुम्भं
समर्चयेच्चक्रहरिं यथावत् ॥ २१.२७ ॥
अङ्गैः प्रथमावृतिरपि
पूज्या चक्रादिभिर्द्वितीया च।
लक्ष्म्यादिभिस्तृतीया
क्रमात्तथेन्द्रादिभिश्चतुर्थी स्यात् ॥ २१.२८ ॥
चक्रशङ्खगदापद्ममुसला धनुरेव च।
पाशाङ्कुशौ पीतरक्तसितश्यामा द्विजस्त्विमाः ॥ २१.२९ ॥
लक्ष्मीः सरस्वती चाथ रतिः प्रीत्याह्वया तथा।
कीर्त्तिः कान्तिस्तुष्टिपुष्टी क्रमेणैव तु शक्तयः ॥ २१.३० ॥
संपूज्य चैवं विधिना हरिं तु
शिष्यं गुरुः प्रीततमोऽभिषिञ्चेत्।
भक्त्या स्वशक्त्या विभवैर्द्विजाती
न्संतर्प्य भूयो गुरुणानुशिष्टः ॥ २१.३१ ॥
एकाग्रचित्तो रविलक्षसंख्यं
जपेन्मनुं नित्यकृताभिपूजः।
तावत्सहस्रं किल सर्षपाश्च
बिल्वाज्यदौग्धानि जुहोतु सम्यक् ॥ २१.३२ ॥
समुद्रतीरेऽप्यथ वाद्रिश्रृङ्गे
समुद्रगानां सरितां च तीरे।
जपेद्विविक्ते निज एव गेहे
विष्णोर्गृहे वा पुरुषो मनस्वी ॥ २१.३३ ॥
यथोक्तसंख्यं विधिवत्प्रजप्ते
मन्त्रे यथोक्तैश्च हुते हुताशे।
द्रव्यैरथ स्वार्थपरार्थहेतोः
कुर्यात्प्रयोगान्विधिना यथावत् ॥ २१.३४ ॥
पीताभा कर्णिका स्यादरुणतरमरं श्यामलं चान्तरालं
नेमि श्वेतं च बाह्ये विरचितशितिरेखाकुलं पार्थिवान्तम्।
चक्रद्वन्द्वं लिखित्वा विशदमतिरथो सौम्ययाम्यं च मन्त्री
कुम्भं संपूर्य सौम्ये प्ररचयतु तथा दक्षिणे होमकर्म ॥ २१.३५ ॥
षड्विंशच्छतसंमितैरथ घृतापामार्गजेध्माक्षतैः
सद्राजीतिलपायसैश्च सकलैर्द्रव्यैर्घृतान्तैः क्रमात्।
हुत्वा तद्धुतशिष्टमत्र विधिवत्क्षिप्त्वा प्रतिद्रव्यकं
प्रस्थार्धान्नकृतं च पिण्डममलं कुम्भोदके मन्त्रवित् ॥ २१.३६ ॥
संस्थाप्य दक्षिणस्यां
साध्यं कुम्भेन तेन नीराज्य।
तमथ घटं सद्रव्यं
बहिरारादष्टमे क्षिपेद्राशौ ॥ २१.३७ ॥
अग्न्यादिकमपि सर्वं
क्षिपेदथ घटस्य दक्षिणे भागे।
हुतशिष्टान्नेन बलिं
मन्त्रेणानेन मन्त्रवित्कुर्यात् ॥ २१.३८ ॥
हृदयान्ते विष्णुपदं
प्रोक्त्वाथ गणेभ्य उच्चरेत्सर्वम्।
शान्तिकरेभ्यश्च बलिं
गृह्णन्त्विति शान्तये नमोन्तं स्यात् ॥ २१.३९ ॥
ज्वरादिकां रोगपरम्परां वा
विस्मृत्यपस्मारभवां रुजं वा।
रक्षःपिशाचग्रहवैकृतं वा
विधिस्त्वयं मङ्क्षु हरेद्विकारम् ॥ २१.४० ॥
पालाशैर्वा स्तनज
द्रुमजैर्वा पञ्जरे कृते फलकैः।
संपूर्य पञ्चगव्यै
स्तत्र तु संस्थाप्य शुद्धमपि गदिनम् ॥ २१.४१ ॥
पूर्वोद्दिष्टैर्दिक्ष्वपि
सजपं जुहुयुः पृथग्द्विजा वशिनः।
द्रव्यैः स दक्षिणान्ता
नभ्यर्च्य विमुच्यते रुजो जन्तुः ॥ २१.४२ ॥
विप्रक्षीरद्रुमत्वङ्गलयजपुरकाश्मीरकुष्ठत्रियामा
बिल्वापामार्गराजीतिलतुलसियुगक्रान्तिदूर्वायवार्कैः।
लक्ष्मीदेवीकुशागोमयकमलवचारोचनापञ्चगव्यैः
सिद्धेऽग्नौ कुम्भसिद्धं मनुजपमहितं भस्म सर्वार्थदायि ॥ २१.४३ ॥
लक्ष्म्यायुष्करमतुलं पिशाचभूता
पस्मारादिकमचिरेण नाशयेच्च।
क्षुद्रादीनपि विविधांस्तथोपसर्गा
नेतस्मान्न परतरा समस्ति रक्षा ॥ २१.४४ ॥
जुहुयाद्गुग्गुलुगुळिका
सहस्रकं साष्टकं च मन्त्रितमः।
त्रिदिनं चतुर्दिनं वा
सर्वोपद्रवनिवारणं भवति ॥ २१.४५ ॥
खरमञ्जर्याः समिधा
मयुतं वा मन्त्रवित्तमो जुहुयात्।
ज्वरभूतामयविस्मृ
त्यपस्मृतीः शमयितुं नियतचित्तः ॥ २१.४६ ॥
आज्याक्तैर्जुहुयाच्छ्रिये सरसिजैर्दूर्वाभिरप्यायुषे
मेधायै द्विजभूरुहैश्च कुमुदैः श्वेतैस्तथा वाससे।
शुद्धाज्यैः पशवेऽप्युदुम्बरभवैः पुत्राय चाश्वत्थजै
रेकाब्दं विधिवत्सहस्रसमितैरष्टोत्तरं मुक्तये ॥ २१.४७ ॥
चक्रस्य नाभिसंस्थं
कृत्वात्मानं मनुं जपेन्मन्त्री।
स्वयमेकोऽपि न युद्धे
मर्त्यो बहुभिः पराजितो भवति ॥ २१.४८ ॥
मन्त्री सुनियतचित्त
श्चक्रस्थं भ्रामयेद्धिया ग्रस्तम्।
आविश्य सकलमुक्त्वा
मुञ्चति दग्धोऽग्निना शुनाभिभुवा ॥ २१.४९ ॥
दीप्तं करालदहनप्रतिमं च चक्रं
यस्य स्मरेच्छिरसि कस्यचिदप्रियस्य।
सप्ताहतोऽस्य दहनप्रतिमो ज्वरः स्या
त्ित्रंशद्दिनैश्च स परेतपुरं प्रयाति ॥ २१.५० ॥
कलावृतं चाहिपदाभिवेष्टितं
समक्षरं यच्छिरसि स्मरेत्सदा।
दशाहतोऽसौ प्रति चाट्यते रिपु
र्मृतिं तथा मण्डलतः प्रयाति ॥ २१.५१ ॥
सान्तं वायसवर्णं
शत्रोः शिरसि स्मरेच्च सप्ताहम्।
उच्चाटयति क्षिप्रं
मारयतोवाधिवोऽस्य नैशित्यात् ॥ २१.५२ ॥
स्रवत्सुधावर्षिणमिन्दुसप्रभं
समुज्ज्वलं यच्छिरसि प्रचिन्तयेत्।
क्षणात्समाप्यायितसर्वविग्रहो
भवेत्स मर्त्यः सुचिरं च जीवति ॥ २१.५३ ॥
मध्ये तारं तदनु च मनुं वर्णशः कोणषट्के
बाह्ये चाङ्गं लिखतु करके रूप्यके वापि ताम्रे।
पाषाणे वा विधिवदथ जप्याथ संस्थापितं त
च्चक्रं चोरग्रहरिपुभयध्वंसि रक्षाकरं च ॥ २१.५४ ॥
स्थाने हृषीकेशविदर्भितं च
स्पष्टाक्षरं चाप्यभिजप्तमेतत्।
रक्षां ग्रहादेः सततं विधत्ते
यन्त्रं सुक्लृप्तं च मनुत्रयेण ॥ २१.५५ ॥
अष्टाक्षरान्तरितपादचतुष्ककोष्ठं
कोष्ठत्रयालिखितसाध्यसुदर्शनं च।
रेखाभिरप्युभयतः श्रुतिशः प्रबद्धं
तत्सप्तकोष्ठमिति यन्त्रमिदं प्रशस्तम् ॥ २१.५६ ॥
भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पठे वास्य यन्त्रं
मन्त्री सम्यग्लिखित्वा पुनरपि गुलिकीकृत्य लाक्षाभिवीतम्।
कृत्वा भस्मादिहोमप्रविहितघृतसंपातपातात्तशक्तिं
जप्तं सम्यङ्निदध्यात्प्रतिशममुपयान्त्येव सर्वे विकाराः ॥ २१.५७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे एकविंशः पटलः ॥