२०

अथ प्रवक्ष्यामि च मासभेद

भिन्नानि यन्त्राण्यपि संग्रहेण।

रेखाक्रमद्युन्ति विचित्रवर्ण
लसन्ति विष्णोश्च विधानभाञ्जि ॥ २०.१ ॥

यैः कुर्युरिष्टाप्तिनिविष्टचेष्टा

धरण्यनन्तादिकसंज्ञकानि।

व्रतान्यभीष्टार्थदकल्पवृक्षै
रनारतेनैव च साधकेशाः ॥ २०.२ ॥

मेषादिकं यच्च चतुष्कमादौ

मासेषु तद्वायुगृहावृतं स्यात्।

सिंहादिकं भूगृहसंवृतं च
चापादिकं पार्थिवयुग्मवीतम् ॥ २०.३ ॥

मेषादिकेषु त्रिगुणात्मकानि

चराणि भास्वद्गुणितात्मकानि।

स्थिराण्यतो षड्गुणितानि तज्ज्ञै
रुक्तानि यन्त्राण्युभयात्मकानि ॥ २०.४ ॥

तानि त्रिषड्द्वादशकात्मकोक्तैः

स्युर्लक्षणैरप्यभिलक्षितानि।

स्वैः स्वैश्च नामप्रविभक्तरूप
भेदैर्बहिर्वेष्टितबिम्बकानि ॥ २०.५ ॥

त्रिगुणितमपि यन्त्रमष्टपत्रा

वृतमथ षड्गुणितं हि षड्दलाभ्याम्।

स्थिरगतमपि चाष्टयुग्मपत्रं
तदपि च षड्युगपत्रशोभितं वा ॥ २०.६ ॥

पद्मं चरोभस्थिरसंज्ञकेषु

रक्तप्रपीताच्छदलादिवर्णम्।

मासेषु यन्त्रोदरक्लृप्ततत्त
न्मासाभिधामूर्त्यभिधाक्षराढ्यम् ॥ २०.७ ॥

केशवमेषादीनां

ये दीर्घा मुक्तिराशिवर्णानाम्।

ते वृत्तानि भवन्ति च
निगदितमिति यन्त्रक्लृप्तिसामान्यम् ॥ २०.८ ॥

सुवर्णगोक्षीरजपाशिलाल

पीतेन्द्रनीलारुणकैरवाभाः।

काश्मीरमेघाञ्जनरोचिषश्च
क्रमेण वर्णैरपि केशवाद्याः ॥ २०.९ ॥

इतीरिताश्चारुकिरीटहार

केयूरपीताम्बरकादितुल्याः।

सचक्रशङ्खाः सगदाम्बुजाश्च
संपूजनीयास्तपनैः क्रमेण ॥ २०.१० ॥

धात्रर्यममित्रत्राख्या

वरुणांशभगा विवस्वदिन्दुयुताः।

पूषाह्वयपर्जन्यौ
त्वष्टा विष्णुश्च भानवः प्रोक्ताः ॥ २०.११ ॥

प्रथमं केशवधातृक

मितरन्नारायणार्यमाख्यं च।

अन्या माधवमैत्रं
परमपि गोविन्दवारुणं प्रोक्तम् ॥ २०.१२ ॥

पञ्चममपि विष्ण्वशं

मधुसूदनभगवपञ्च षष्ठमपि।

त्रिविक्रमविवस्वदाख्यं
सप्तममन्यच्च वामनैन्द्रमपि ॥ २०.१३ ॥

श्रीधरपौष्णं नवमं

दशमं च हृषीकनाथपर्जन्यम्।

अम्बुजनाभं त्वाष्ट्रं
दामोदरवैष्णवं विधानमिति ॥ २०.१४ ॥

आदौ विधानेषु समेतमूर्ति

शक्तीश्चतस्रोऽभियजेद्यथावत्।

राशिष्वथो भानुयुताश्च मूर्तीः
प्रवक्ष्यमाणं च निरूप्य मन्त्री ॥ २०.१५ ॥

वृषहरिवृश्चिककलशा

त्मकेष्वथो केतुकेशवाद्यैश्च।

मत्स्यादिकशेषाद्ये
समभियजेदन्तरा समावरणे ॥ २०.१६ ॥

प्रानुप्रोद्यत्स्वराष्टद्वितयवृतमहाबीजकं शक्तिलक्ष्मी

कामैरात्ताग्निकोणं बहिरभिवृतसिंहान्वितक्रोडमन्त्रम्।

बिन्दूनामन्तरालेष्वपि च विलिखितैः कादिवर्गैश्च युक्तं
षड्भिर्वायव्यगेहावृतमभिमतकामप्रदं मेषयन्त्रम् ॥ २०.१७ ॥

गौरीन्दिरा रतिधृती

वसुधा पुष्टिक्षमासरस्वत्यः।

मूर्त्योश्च मध्यमावृति
राशेशात्प्राग्ध्वजादिरपि कथिता ॥ २०.१८ ॥

हयरथगजभृत्यादी

नरिभवशौर्यादिसिद्धिं च।

तेजो यशश्च विपुलं
पूजयितुर्वितनुते विधानमिदम् ॥ २०.१९ ॥

वर्णैराद्यैरमन्तैः समभिवृतमहाबीजमञ्मध्यराज

त्पान्तक्षाद्यक्षराढ्यं गुहनयनहुताश्रिराजन्मथार्णम्।

अश्रेर्गण्डद्वयोद्यत्पचलिपिपरिवीतं च नाद्यैः सकान्तैः
काद्यैर्नान्तैश्च यन्त्रं बहुविधफलदं पूजितं स्याद्वृषोत्थम् ॥ २०.२० ॥

नित्यानन्दा व्यापिनी व्योमरूपा

शान्तिर्विद्यारूपिणी च प्रतिष्ठा।

कल्यामोघा चण्डिका दीप्तजिह्वे
त्येवं प्रोक्ताथावृतिः स्यात्तृतीया ॥ २०.२१ ॥

सुरभिहयमहिषदासी

दासाभरणांशुकादिसिद्धिकरम्।

वृषजं विधानमेत
द्देहान्ते सिद्धिदं परस्य सतः ॥ २०.२२ ॥

प्रागच्छन्मात्रभिख्यालिपिपरिवृतबीजं स्वरावीतवृत्तं

शाद्यैः क्षान्तैस्तदाद्यैरपि परिवृतगण्डं तदश्रात्तजुंसम्।

भाद्यैः कान्तैः प्रवीतं मयरलवहयुग्बिन्दुकं वायुगेहा
वीतं वाञ्छाप्रदानप्रसवगुणयुतं युग्मजं यन्त्रमेतत् ॥ २०.२३ ॥

इन्द्राणी कौमारिका ब्रह्मजाता

वाराह्याख्या वैष्णवी चाथ लक्ष्मीः।

चामुण्डा माहेश्वरी स्यात्तृतीया
रक्षाप्रज्ञाश्रीप्रदं स्याद्विधानम् ॥ २०.२४ ॥

पाशाद्यष्टाक्षरार्णप्रतिपुटितमहाष्टाक्षरावेष्टितान्त

र्बीजं शाखान्तरूढे गगननृहरिबीजात्तकोणं बहिश्च।

कामिन्यष्टाक्षराद्यन्तगहरिहरबीजावृतं प्रत्यनूद्य
द्वर्णाढ्यं वायुगेहस्थितमिति गदितं कर्कटोत्थं च यन्त्रम् ॥ २०.२५ ॥

रक्ता रमा कराली

कमला चण्डेन्द्रिरा महोच्छुष्मा।

श्रीरिति मूर्तियुगलयो
र्मध्यगता चावृतीरियं चापि ॥ २०.२६ ॥

भूतिर्विभूतिरुन्नति

नतिधृतिरतयश्च संयतिद्युतयः।

आवृतिरेका प्रोक्ता
श्रीवश्यकरं विधानमिति कथितम् ॥ २०.२७ ॥

ऊष्मार्णाष्टाक्षरावेष्टितहृदयमथ द्वादशार्णात्तकोणं

सान्तःस्थात्माष्टवर्णैः क्रमगतविगतैरुल्लसत्तत्त्वगण्डम्।

सिंहानुष्टुब्द्वयार्णान्तरितवृतकलालंकृतं चाथ वह्नि
प्राणेशानक्षपाटाश्रितकचटतपत्वच्छलं सिंहयन्त्रम् ॥ २०.२८ ॥

पुष्टिस्तुष्टिर्धृतिरपि कृतिः शान्तिकान्तिप्रमोदा

मेधा हर्षा स्मृतिरभिमता कान्तिका स्यात्तृतीया।

कृष्णः सत्यो नृहरिवरदौ विश्वमूर्तिर्वरेण्यः
शौरिः शूरो नरमुरजितौ विष्णुजिष्णू चतुर्थी ॥ २०.२९ ॥

विपक्षनिग्रहं तेजो यशश्च धनसंगमम्।
करोत्यर्चयितृ़णां च विधानमिति सिंहजम् ॥ २०.३० ॥

सर्गाद्यान्ताद्यमन्तैरभिवृतहृदयं दण्डिभिश्चापि हाही

हूहैहौहोभिरात्ताश्रिकमथ तु शिखाद्योतिवर्गान्त्यवर्णम्।

वर्णैः प्रत्यन्वितैः प्रावृतमवनिपुराश्रोल्लसत्कामबीजं
क्लिन्ने स्वाहार्णयुक्तं महिततरफलं कन्यकोत्थं च यन्त्रम् ॥ २०.३१ ॥

अत्रार्च्यो मधुसूदनस्त्वथ हृषीकेशाह्वयो मोहिनी

वैकुण्ठो विरजा हरिः सरसिजा शार्ङ्गी तमोहारिणी।

ब्रध्नाख्यः कमलावती च समुकुन्दाख्यो रमेति क्रमा
न्मत्स्याद्यैश्च सुताश्च गोमहिषसौभाग्यप्रदं पावनम् ॥ २०.३२ ॥

आद्यैरावीतबीजं ग्रहवलययुतं हुंफडायुक्तकोणं

बाह्ये पाशाङ्कुशार्णावृतमथ युगषण्मूर्तिनामार्णमर्णैः।

प्रत्यन्वेष्यद्भिरुद्यद्धरियुतहरवर्णैश्च वीतं धरायाः
कोणेषूद्यन्नृसिंहाक्षरमिति कथितं स्यात्तुलायन्त्रमेतत् ॥ २०.३३ ॥

प्राक्प्रोक्तैश्चक्राद्यै

रुक्तास्य समावृतिस्तृतीया स्यात्।

प्रोतोपलब्धिमेत
त्करोति वाणिज्यलाभं च ॥ २०.३४ ॥

अक्लीबद्वादशाज्द्वादशलिपिवृतहृल्लेखमश्रिद्विषट्क

प्रोल्लास्यष्टाक्षरोष्मार्णकमपि लिपिभिः कादिभिश्चाभिवीतम् ॥

तद्बाह्ये चन्द्रबिम्बप्रपुटितवसुधामण्डलाश्रिप्रराज
त्क्लीबार्णं वृश्चिकोत्थं प्रवरतरफलप्राप्तिदं यन्त्रमेतत् ॥ २०.३५ ॥

चिद्रूपा चिन्मया चिन्ता

मणिः श्रीः क्षोणिसंज्ञिता।

रतिश्च पावनी धारा
धरणी तारणी तथा ॥ २०.३६ ॥

द्राविणी मोहिनी चेति तृतीयेयं समावृतिः।
अन्वयाप्तिं धर्मरतिं प्राप्नुयादस्य चार्चनात् ॥ २०.३७ ॥

षट्कोणाबद्धबाणासनविवरलसन्नारसिंहं तदन्तः

शक्तेर्बाह्ये परानुप्ररचितलघुसंध्यर्णयुक्पञ्चकाढ्यम्।

अश्रिष्वाबद्धशिष्टस्वरमुपरिलसच्छूलकं चात्तवर्गं
भूम्योरष्टाश्रकोद्यद्यदुजुहुलवकं चापयन्त्रं तदेतत् ॥ २०.३८ ॥

हर्षाह्वा सुनदारुणा सगगना घोरा रमा द्राविणी

वीरा वीरिणिहारिणी सहरिणी मन्दारिका द्वादश।

प्रोक्तेयं च समावृतिः पुनरिदं संपूजयन्प्राप्नुया
ल्लक्ष्मीसंततिबुद्धिवश्यपटुताकान्तीश्च भक्तिं शुभाम् ॥ २०.३९ ॥

मध्यस्थायाः परीतौ विलसदनुपरात्तस्वरप्राक्परार्धं

सिंहार्णान्ताश्रि गण्डस्फुरितहरिहरार्णं ग्रहार्णावृतं च।

तद्बाह्ये षोडशार्णाक्षरवृतमुभकुद्योतितं कोणराज
त्सोऽहं हंसाक्षराढ्यं मकरभवमिदं यन्त्रमिष्टार्थदायि ॥ २०.४० ॥

मेधा हर्षा श्रद्धा

कृपा रतिर्वा सरस्वती प्रीतिः।

वाणी चेति तृतीया
वृतिरुक्ता मकरजे विधानेऽस्मिन् ॥ २०.४१ ॥

स्वक्षेत्रवर्तिनः स्यु

र्ग्रहाः क्रमात्केशवादिमूर्तियुताः।

अर्चयितृ़णामेत
द्धनधान्यसमृद्धिदं विधानं स्यात् ॥ २०.४२ ॥

शक्तिश्रीकामबीजैः पुटितहरिहरब्रह्मभिश्चावृतान्त

र्बीजं कोणद्विषट्कस्फुरितनृहरिबीजप्रतिद्योतितं च।

आदिक्षान्तैश्च वर्णैर्वृतमवनिपुरद्वन्द्वकोणान्तकाम
श्रीशक्तिक्ष्मार्णचिन्तामणिमनु तदिदं श्रीकरं कुम्भयन्त्रम् ॥ २०.४३ ॥

अच्युतकामिनिभानुमनोज्ञा

विश्वतनुर्विमला हरिभद्रे।

सूक्ष्मसरस्वतिनन्दनसंध्या
स्यादिति मध्यगता वृतिरेषा ॥ २०.४४ ॥

अवनिपशुपुत्रसंपद

मपि पितृसौख्यं च हृत्प्रबोधं च।

कुरुते विधानमेत
त्प्रयोक्तुरन्ते च निर्वृतिं परमाम् ॥ २०.४५ ॥

व्यन्वेष्यद्ध्रस्वदीर्घाच्समभिवृतमहाबीजमश्रेषु षट्सु

द्योतत्सौर्मारलक्ष्मीगिरिदुहितृधराबीजकप्रोंसमेतम्।

वीतं काद्यैः कषान्तैर्बहिरपि च कुकोणाप्टकोल्लासिहंसं
सर्वार्थान्साधकेभ्यो वितरति विधिवत्कल्पितं मीनयन्त्रम् ॥ २०.४६ ॥

हृष्टिर्वृष्टिस्तुष्टिरिष्टा सुपुष्टिः

कान्तिर्मेधा मङ्गला वामसंज्ञा।

दुर्गा प्रज्ञा भारती मध्यसंस्था
वाक्सामर्थ्यं श्रीकरं स्याद्विधानम् ॥ २०.४७ ॥

एभिर्विधानैर्धरणीव्रतादि

दीक्षाविधीन्ये विधिना प्रकुर्युः।

ते पुण्यभाजो नितरां समृद्धाः
सपुत्रदाराः सुखिनो भवन्ति ॥ २०.४८ ॥

दीर्घायुषो मुख्यतरेन्दिराश्च

महाप्रभावाः स्वसमानवीर्याः।

कलेबरान्ते विगताधयस्ते
विष्णोरनन्यं पदमाप्नुवन्ति ॥ २०.४९ ॥

एभिर्विधेयाः कलशाश्च तत्त

न्मासोक्तयन्त्रेषु नरैर्यथावत्।

निजेप्सितं प्राप्य मनोरथान्ते
भुक्तेश्च मुक्तेरनुभावकाः स्युः ॥ २०.५० ॥

कर्षोन्मिते च हाटक

पट्टे पत्रं विलिख्य चतुरश्रे।

तद्द्वित्र्यंशकृते वा
कलशेषु विनिक्षिपेच्च दीक्षासु ॥ २०.५१ ॥

अभिषिच्य यन्त्रकनकं

गुरवे प्रददातु संयतः सुमतिः।

दुरितापनोदविधये द्युतये
यशसे श्रिये च मतिसंयतये ॥ २०.५२ ॥

एषां यागविधीना

मेकेन तु पूजयंस्तदवसाने।

तत्तन्मूर्तिप्रीत्यै
संस्तोतव्योऽनया हरिः स्तुत्या ॥ २०.५३ ॥

प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने।
तवाङ्घ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् ॥ २०.५४ ॥

अज प्रसीद भगवन्नमितद्युतिपञ्जर।
अप्रमेय प्रसीदास्मद्दुःखहन्पुरुषोत्तम ॥ २०.५५ ॥

स्वसंवेद्यस्वरूपास्मदानन्दात्मन्ननामय।
अचिन्त्यसार विश््वात्मन्प्रसीदेश निरञ्जन ॥ २०.५६ ॥

प्रसीद तुङग तुङ्गानां प्रसीद शिव शोभन।
प्रसीद स्पष्ट गम्भीर गम्भीराणां महाद्युते ॥ २०.५७ ॥

प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामणोरणो।
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ २०.५८ ॥

गुरोर्गरीयः सर्वेश प्रसीदानन्य देहिनाम्।
जय माधव मायात्मञ्जय केशव केशिहन् ॥ २०.५९ ॥

जय सुन्दर सौम्यात्मञ्जय शाश्वत शङ्खभृत्।
जय शार्ङ्गधर श्रीमञ्जय नन्दकनन्दन ॥ २०.६० ॥

जय चक्रगदापाणे जयाजय्य जनार्दन।
जय रत्नाकराबन्ध किरीटाक्रान्तमस्तक ॥ २०.६१ ॥

जय पक्षिपतिच्छायानिरुद्धार्ककराकर।
नमस्ते नरकाराते नमस्ते मधुसूदन ॥ २०.६२ ॥

नमस्ते नलिनापाङ्ग नमस्ते नयनाञ्जन।
नमः पापहरेशान नमः सर्वभयापह ॥ २०.६३ ॥

नमः संभृतसर्वात्मन्नमः संभृतकौस्तुभ।
नमस्ते नयनातीत नमो विक्रान्तवाक्पथ ॥ २०.६४ ॥

नमो विभिन्नज्ञेयांश नमः स्मृतिपथातिग।
नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे ॥ २०.६५ ॥

विष्णवे त्रिदशारातिजिष्णवे परमात्मने।
चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे ॥ २०.६६ ॥

विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः।
नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे ॥ २०.६७ ॥

भुक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने।
मनोवाक्कायचेष्टाः स्युर्ध्यानस्तुतिनमस्क्रियाः ॥ २०.६८ ॥

देवेश कर्म सर्वं मे भवेदाराधनं तव।
विषयेष्वपि सङ्गो मे हुतं विष्णो तवाच्युत ॥ २०.६९ ॥

इति हवनजपार्चाभेदतो विष्णुपूजा

निरतहृदयकर्मा यस्तु मन्त्री चिराय।

स खलु सकलकामान्प्राप्य हृष्टान्तरात्मा
जननमृतिवियुक्तामुत्तमां मुक्तिमेति ॥ २०.७० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे विंशः पटलः ॥