अथ पुनरभिवक्ष्ये मन्त्रमष्टाक्षराख्यं
सकलदुरितदुःखध्वान्तसंभेदभानुम्।
प्रणवहृदयनारावर्णतोऽन्ते यणार्णौ
मपर इति समुद्दिष्टोऽयमिष्टार्थदायी ॥ १९.१ ॥
तारः शक्त्युत्थतया
निर्दिष्टः सोऽहमर्थकः पूर्वम्।
नार्णः प्रतिषेधार्थो
मोकारश्चायमर्थको भवति ॥ १९.२ ॥
सलिलानलपवनधराः
क्रमेण नारायणाक्षराः प्रोक्ताः।
चरमेरस्तु विभक्ति
व्यक्त्यर्थं दर्शितस्तदर्थार्थे ॥ १९.३ ॥
ऋषिरस्य मनोः साध्यनारायण इतीरितः।
छन्दश्च देवी गायत्री परमात्मा च देवता ॥ १९.४ ॥
अथ क्रुद्धमहावीरद्युसहस्रपदादिकैः।
उल्कैर्जातियुतैः कुर्यात्पञ्चाङ्गानि मनोः क्रमात् ॥ १९.५ ॥
अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गकं सुधीः।
सहृच्छिरःशिखावर्मनेत्रास्त्रोदरपृष्ठके ॥ १९.६ ॥
अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज
त्केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च।
नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपार्श्वं
वन्दे दोःसक्तचक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम् ॥ १९.७ ॥
संदीक्षितो मनुममुं प्रतिजप्तुमिच्छ
न्कुर्यान्निजेन वपुषैव तु योगपीठम्।
अंसोरुयुग्मपदमानननाभिमूल
पार्श्वद्वयैर्विहितगात्रसमुज्ज्वलं च ॥ १९.८ ॥
मध्येऽनन्ताद्यैरपि
संज्ञानात्मान्तिकैर्यजेन्मन्त्री।
पीठाख्यमन्त्रपश्चिम
मथ गन्धाद्यैश्च सम्यगुपचारैः ॥ १९.९ ॥
प्रणवं हृदयं चैव प्रोक्त्वा भगवतेपदम्।
विष्णवे च समाभाष्य सर्वभूतात्मनेपदम् ॥ १९.१० ॥
वासुदेवाय सर्वात्मसंयोगपदमुच्चरेत्।
योगपद्मपदं प्रोक्त्वा ततः पीठात्मने नमः ॥ १९.११ ॥
अस्त्रमन्त्रप्रबद्धाशो मन्त्रवर्णांस्तनौ न्यसेत्।
विन्यस्तैर्यैर्भवेन्मन्त्री मन्त्रवर्णात्मको हरिः ॥ १९.१२ ॥
आधारहृद्वदनदोःपदमूलनाभौ
कण्ठे सनाभिहृदयस्तनपार्श्वपृष्ठे।
कास्येक्षणश्रवणगन्धवहे च दोःप
त्संध्यङ्गुलीषु हृदि धातुषु सानिलेषु ॥ १९.१३ ॥
मूर्धेक्षणास्यहृदयोदरसोरुजङ्घा
पादद्वयेषु लिपिशो न्यसतु क्रमेण।
गण्डांसकोरुचरणेषु रथाङ्गशङ्ख
श्रीमद्गदाम्बुजपदेषु समाहितात्मा ॥ १९.१४ ॥
ततोऽष्टाक्षरपूर्त्यर्थं स्मर्तव्यो द्वादशाक्षरः।
मन्त्रो द्वादशमूर्तीस्तु तत्प्रभिन्नास्तनौ न्यसेत् ॥ १९.१५ ॥
अष्टप्रकृत्यात्मकश्च संप्रोक्तोऽष्टाक्षरो मनुः।
अष्टानां प्रकृतीनां च चतुर्णामात्मनामपि ॥ १९.१६ ॥
द्वादशानां तु संयोगो मन्त्रः स्याद्द्वादशाक्षरः।
आदित्या द्वादश प्रोक्ता युक्ता द्वादशमूर्तिभिः ॥ १९.१७ ॥
केशवादिप्रदिष्टानां मूर्तीनां द्वादशादितः।
आदिस्वरयुता न्यस्येत्ताः स्युर्द्वादश मूर्तयः ॥ १९.१८ ॥
ललाटोदरहृत्कण्ठदक्षपार्श्वांसतद्गले।
तथा वामत्रये पृष्ठे ककुदोश्च यथाक्रमम् ॥ १९.१९ ॥
द्वादशाक्षरमन्त्रं च मन्त्रविन्मूर्ध्नि विन्यसेत्।
मूर्धस्थो वासुदेवस्तु व्याप्नोति सकलां तनुम् ॥ १९.२० ॥
पुनस्तत्प्रतिपत्त्यर्थं किरीटादिमनुं जपेत्।
किरीटकेयूरहारपदान्याभाष्य मन्त्रवित् ॥ १९.२१ ॥
मकारान्ते कुण्डलं च चक्रशङ्खगदादिकम्।
अब्जहस्तपदं प्रोक्त्वा पीताम्बरधरेति च ॥ १९.२२ ॥
श्रीवत्साङ्कितमाभाष्य वक्षःस्थलमथो वदेत्।
श्रीभूमिसहितं स्वात्मज्योतिर्द्वयमथो वदेत् ॥ १९.२३ ॥
दीप्तिमुक्ताकरायेति सहस्रादित्यतेजसे।
हृदन्तः प्रणवादिः स्यात्किरीटादिमनुः स्वयम् ॥ १९.२४ ॥
कृत्वा स्थण्डिलमस्मि
न्निक्षिप्य निजासिकां समुपविश्य।
पीठादिकं निजाङ्गे
प्रपूज्य गन्धादिभिः सुशुद्धमनाः ॥ १९.२५ ॥
सद्वादशाक्षरान्तं
प्रपूज्य विधिवत्किरीटमन्त्रेण।
कुर्यात्पुष्पाञ्जलिमपि
निजदेहे पञ्चशोऽथ वा त्रयशः ॥ १९.२६ ॥
इति दीक्षितविहितविधिः
संप्रोक्तोऽष्टाक्षरस्य मन्त्रस्य।
शुद्धानां विमलधियां
दीक्षा प्रतिवक्ष्यतेऽथ संक्षेपात् ॥ १९.२७ ॥
कृत्वा त्रिगुणितादीनामेकं मण्डलमुज्ज्वलम्।
आत्मार्चनोक्तविधिना शक्तिभिः पीठमर्चयेत् ॥ १९.२८ ॥
विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः।
प्रह्वी सत्या तथेशानानुग्रहा नवमी तथा ॥ १९.२९ ॥
निधाय कलशं तत्र पञ्चगव्येन पूरयेत्।
पयोभिर्वा गवां प्रोक्तैः क्वथितैर्वाष्टगन्धकैः ॥ १९.३० ॥
अष्टाक्षराङ्गैरष्टाष्टवर्णैरष्टाक्षरान्वितैः।
दलमूले यजेद्भूयो वासुदेवादिकान्क्रमात्।
सशक्तिकांस्ततो बाह्ये संपूज्या हरिहेतयः ॥ १९.३१ ॥
चक्रसशङ्खगदाम्बुज
कौस्तुभशार्ङ्गाः सखङ्गवनमालाः।
रक्ताच्छपीतकनक
श्यामलकृष्णद्युशुक्लभासः स्युः ॥ १९.३२ ॥
ध्वजश्च वैनतेयश्च शङ्खपद्मौ दिगाश्रिताः।
विघ्नार्यकौ तथा दुर्गाविष्वक्सेनौ विदिग्गताः ॥ १९.३३ ॥
ध्वजः श्यामो विपो रक्तो निधी शुक्लारुणप्रभौ।
अरुणश्यामलश्यामपीता विघ्नादयो मताः ॥ १९.३४ ॥
इन्द्रादयस्तद्बहिश्च पूज्या गन्धादिभिः क्रमात्।
इति विष्णोर्विधानं तु पञ्चावरणमुच्यते ॥ १९.३५ ॥
एवमभ्यर्चिते विष्णावुपचारैस्तु पूर्ववत्।
अग्निमाधाय कुण्डे तु ब्रह्मयागसमीरितैः ॥ १९.३६ ॥
जुहुयादष्टभिर्द्रव्यैर्मनुनाष्टाक्षरेण तु।
पृथगष्टशतावृत्त्या हुत्वा दत्वा बलिं ततः ॥ १९.३७ ॥
अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्ववन्मनुम्।
द्वात्रिंशल्लक्षमानेन स तु मन्त्रं जपेत्ततः।
तदर्धसंख्यकं वापि शुद्धाचारो जितेन्द्रियः ॥ १९.३८ ॥
पद्मासनः प्राग्वदनोऽप्रलापी
तन्मानसस्तर्जनिवर्जिताभिः।
अक्षस्रजो वाङ्गुलिभिर्जपेत
नातिद्रुतं नातिविलम्बितं च ॥ १९.३९ ॥
प्रागीरितैरपि जुहोतु दशांशकं वा
द्रव्यैः शुभैः सरसिजैर्मधुराप्लुतैर्वा।
रत्नांशुकप्रवरकाञ्चनगोमहीभि
र्धान्यैर्यथाविभवतः प्रयजेद्गुरूंश्च ॥ १९.४० ॥
विप्रान्प्रतर्प्य विभवैरथ मन्त्रजापी
संह्लादयेज्जपविधिं च ततः क्रमेण।
नित्यार्चना च विहिता विधिनामुनैव
प्रोक्तक्रमेण विदधात्वथ वात्मपूजाम् ॥ १९.४१ ॥
इति जपहुतार्चनाद्यै
र्मन्त्री योऽष्टाक्षरं समभ्यस्येत्।
स त्वैहिकीं च सिद्धिं
संप्राप्यान्ते प्रयाति परमपदम् ॥ १९.४२ ॥
अङ्गानि पूर्वं त्वथ मूर्तिशक्तीः
सकेशवादींश्च पुरंदरादीन्।
समर्चयेद्यस्तु विधानमेत
न्नरोऽचिरात्काङ्क्षितमेति कामम् ॥ १९.४३ ॥
यष्टव्यः स्याद्वासुदेवादिरादौ
चक्राद्याः केत्वादिकाः केशवाद्याः।
इन्द्राद्याश्चेत्येवमेव प्रदिष्टं
तुष्ट्यायुःश्रीकीर्त्तिसिद्ध्यै विधानम् ॥ १९.४४ ॥
स वासुदेवादिकमर्चयित्वा
भूयो ध्वजादींश्च पुरंदरादीन्।
क्रमेण विद्वान्विधिनार्चयीते
त्ययं क्रमश्च त्रिदशाभिपूज्यः ॥ १९.४५ ॥
इत्युक्तविधिचतुष्के
पूजयितुरथैकमपि यथाशक्ति।
अचिरेण भवति लक्ष्मी
र्हस्तगता सकलवर्गसिद्धिकरी ॥ १९.४६ ॥
अष्टाक्षराक्षराष्टक
मूर्तिविधानानि भेदभिन्नानि।
वक्ष्याम्यर्चयितृ़णां
वाञ्छितसकलार्थसाधनानि सदा ॥ १९.४७ ॥
सिन्दूरकुन्दकरविन्दकबन्धुजीव
काश्मीरपद्ममकरन्दरुचः क्रमेण।
नीलोत्पलाम्बुरुहरागसमानवर्णाः
स्युर्मूर्तयोऽष्ट कथिता मनुवर्णजाताः ॥ १९.४८ ॥
अरिदरगदाब्जहस्ताः
सर्वास्तु नकारमोर्णयोर्मन्त्री।
शङ्खारिगदाब्जकरे
लक्षणमन्यत्समानरूपं स्यात् ॥ १९.४९ ॥
या मूर्तिरर्च्यतेऽस्य
व्रजन्ति परिवारितां तदवशिष्टाः।
अवशिष्टेऽन्त्येऽथांशे
स्वयं च परिवारितां प्रयाति तदा ॥ १९.५० ॥
इयमेवावृतिरधिका
ध्रुवजे ध्रुवजात्पुरा समुद्दिष्टात्।
भवति विधानादिति पुन
रेषां प्रथमं विधानमुद्दिष्टम् ॥ १९.५१ ॥
अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते
वर्णाष्टमूर्तीरपि मूर्तिशक्तीः।
यजेद्विधाने च सकेतुलोक
पालादिकानुक्तविधानक्लृप्त्या ॥ १९.५२ ॥
मोकारजे रतिधृती च सकान्तितुष्टि
पुष्टिस्मृतीरपि च दीप्त्यभिधां च कीर्त्तिम्।
केत्वादिकं च सशतक्रतुपूर्वकं च
संपूजयेद्विमलधीः पुनरन्वितोऽन्ते ॥ १९.५३ ॥
नाकारजेऽङ्गतोऽन्ते
प्रपूजयेन्मूर्तिशक्तिलोकेशान्।
रावर्णजेऽङ्गमूर्ति
श्रीभूमायामनोन्मनीस्तदनु ॥ १९.५४ ॥
ह्रीः श्री रतिः सपुष्टि
र्मोहनिमाये महादियोगाद्ये।
माये च तृतीयावृति
रन्यदशेषं पुरैव निर्दिष्टम् ॥ १९.५५ ॥
यकारजेऽरिशङ्खौ च सगदाहलशार्ङ्गकाः।
मुसलः खङ्गशूलौ च तृतीया साक्षरोद्भवे ॥ १९.५६ ॥
शेषो वासुकितक्षक
कार्कोटकपङ्कजमहापद्माः।
वरपालगुलिकसंज्ञा
स्तृतीयमन्यत्समं विधानेऽन्त्ये ॥ १९.५७ ॥
अङ्गैः प्रथमावरणं
मूर्तिभिरपि शक्तिभिर्द्वितीयमपि।
अन्यैः केशवकेत्वा
दिभ्यां स्यात्पञ्चमं च मत्स्याद्यैः ॥ १९.५८ ॥
मत्स्यः कूर्मवराहौ
नृसिंहकुब्जत्रिरामकृष्णाश्च।
कल्किः सानन्तात्मा
पुनरमृतात्मा च षष्ठमहिपाद्यैः ॥ १९.५९ ॥
सप्तममपि लोकेशै
रष्टममपि तदायुधैश्च संप्रोक्तम्।
प्रागुक्तेषु विधाने
ष्वालक्ष्यं नोक्तमत्र यत्तदपि ॥ १९.६० ॥
अष्टाक्षराक्षरविधानचतुष्कयुग्मं
प्रोक्तक्रमेण विधिनाभियजेद्य एनम्।
भक्त्या मुकुन्दमनुजापरतो नराग्र्यः
प्राप्नोति वाञ्छितमयत्नत एव कामम् ॥ १९.६१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे एकोनविंशः पटलः ॥