१८

अथ प्रणवसंज्ञकं प्रतिवदामि मन्त्रं परं

सजापमपि सार्चनं सहुतक्लृप्ति सोपासनम्।

अशेषदुरितापहं विविधकामकल्पद्रुमं
विमुक्तिफलसिद्धिदं विमलयोगिसंसेवितम् ॥ १८.१ ॥

आद्यस्वरः समेतो

ऽमरेण सधसप्तमश्च बिन्दुयुतः।

प्रोक्तः स्यात्प्रणवमनु
स्त्रिमात्रिकः सर्वमन्त्रसमवायी ॥ १८.२ ॥

मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका

गायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता।

अक्लीबैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात्स्वरै
र्मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् ॥ १८.३ ॥

विष्णुं भास्वत्किरीटाङ्गदवलययुगाकल्पहारोदराङ्घ्रि

श्रोणीरूपं सवक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम्।

हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ १८.४ ॥

दीक्षितो मनुमिमं शतलक्षं

संजपेत्प्रतिहुनेच्च दशांशम्।

पायसैर्घृतयुतैश्च तदन्ते
विप्रभूरुहभवाः समिधो वा ॥ १८.५ ॥

सर्पिःपायसशाली

तिलसमिदाद्यैरनेन यो जुहुयात्।

ऐहिकपारत्रिकमपि
स तु लभते वाञ्छितं फलं नचिरात् ॥ १८.६ ॥

अभ्यर्च्य वैष्णवमथो विधिनैव पीठ

मावाह्य तत्र सकलार्थकरं मुकुन्दम्।

अङ्गैः समूर्तियुगशक्तियुगैः सुरेन्द्र
वज्रादिकैर्यजतु मन्त्रिवरः क्रमेण ॥ १८.७ ॥

वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः।
स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः ॥ १८.८ ॥

चतुर्भुजाश्चक्रशङ्खगदापङ्कजधारिणः।
किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥ १८.९ ॥

सशान्तिश्रीसरस्वत्यौ रतिश्चाश्रिदलाश्रिताः।
अच्छपद्मरजोदुग्धदूर्वावर्णाः स्वलंकृताः ॥ १८.१० ॥

आत्मान्तरात्मपरमज्ञानात्मानस्तु मूर्तयः।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च शक्तयः ॥ १८.११ ॥

ज्वलज्ज्वालासमाभाः स्युरात्माद्या मूर्तिशक्तयः।
इति पञ्चावरणकं विधानं प्रणवोद्भवम् ॥ १८.१२ ॥

इत्थं मन्त्री तारममुं जापहुतार्चा

भेदैरङ्गीकृत्य च योगानपि युञ्ज्यात्।

यैः संलब्ध्वा चेह समग्रां श्रियमन्ते
शुद्धं विष्णोर्धाम परं प्राप्स्यति योगी ॥ १८.१३ ॥

करपादमुखादिविहीनमना

रतदृश्यमनन्यगमात्मपदम्।

यमिहात्मनि पश्यति तत्त्वविद
स्तमिमं किल योगमिति ब्रुवते ॥ १८.१४ ॥

योगाप्तिदूषणपरं त्वथ कामकोप

लोभप्रमोहमदमत्सरतेति षट्कम्।

वैरिं जयेत्सपदि योगविदेनमङ्गै
र्योगस्य धीरमतिरष्टभिरिष्टदैश्च ॥ १८.१५ ॥

यमनियमासनपवना

यामाः प्रत्याहृतिश्च धारणया।

ध्यानं चापि समाधिः
प्रोक्तान्यङ्गानि योगयोग्यानि ॥ १८.१६ ॥

सत्यमहिंसा समता

धृतिरस्तेयं क्षमार्जवं च तथा।

वैराग्यमिति यमः स्या
त्स्वाध्यायतपोऽर्चनाव्रतानि तथा ॥ १८.१७ ॥

संतोषश्च सशौचो

नियमः स्यादासनं च पञ्चविधम्।

पद्मस्वस्तिकभद्रक
वज्रकवीराह्वयं क्रमात्तदपि ॥ १८.१८ ॥

रेचकपूरककुम्भक

भेदात्ित्रविधः प्रभञ्जनायामः।

मुञ्चेद्दक्षिणयानिल
मथानयेद्वामया च मध्यमया ॥ १८.१९ ॥

संस्थापयेच्च नाड्ये

त्येवं प्रोक्तानि रेचकादीनि।

षोडशतद्द्विगुणचतुः
षष्टिकमात्राणि तानि च क्रमशः ॥ १८.२० ॥

चित्तात्मैक्यधृतस्य

प्राणस्य स्थानसंहृतिः स्थानात्।

प्रत्याहारो ज्ञेय
श्चैतन्ययुतस्य सम्यगनिलस्य ॥ १८.२१ ॥

स्थानस्थापनकर्म

प्रोक्ता स्याद्धारणेति तत्त्वज्ञैः।

यो मनसि देवताया
भावः स्यात्तस्य मन्त्रिणः सम्यक् ॥ १८.२२ ॥

संस्थापयेच्च तत्रे

त्येवं ध्यानं वदन्ति तत्त्वविदः।

सत्तामात्रं नित्यं
शुद्धमपि निरञ्जनं च यत्प्रोक्तम् ॥ १८.२३ ॥

तत्प्रविचिन्त्य स तस्मिं

श्चित्तलयः स्यात्समाधिरुद्दिष्टः।

अष्टाङ्गैरिति कथितैः
पुनराशु निगृह्यतेऽरिरात्मविदा ॥ १८.२४ ॥

अथ वा शोषणदहन

प्लावनभेदेन शोधिते देहे।

पञ्चाशद्भिर्मात्रा
भेदैर्विधिवत्समायमेत्प्राणान् ॥ १८.२५ ॥

पञ्चाशदात्मकोऽपि च

कलाप्रभेदेन तार उद्दिष्टः।

तावन्मात्रायमना
त्कलाश्च विधृता भवन्ति तत्त्वविदा ॥ १८.२६ ॥

पूर्वमिडाया वदने

विचिन्तयेद्धूम्रमानिलं बीजम्।

तेनागतेन देहं
प्रशोषयेत्सान्तराधिकरचरणम् ॥ १८.२७ ॥

पिङ्गलया प्रतिमुञ्चे

त्तथैव कार्शानवेन रक्तरुचा।

प्रतिदह्य पूर्वविधिना
मुञ्चेन्नैशाकरेण सुसितेन ॥ १८.२८ ॥

संपूरयेत्सुधामय

जलशीकरवर्षिणा तनुं सकलाम्।

निर्माय मानसेन च
परिपूर्णमनाश्चिरं भूयात् ॥ १८.२९ ॥

सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकः

सुशुद्धतलसद्गृहे विरहिते च शीतादिभिः।

पटाजिनकुशोत्तरे सुविशदे च मृद्वासने
निमीलितविलोचनः प्रतिविशेत्सुखं प्राङ्मुखः ॥ १८.३० ॥

प्रसारितं वामकरं निजाङ्के

निधाय तस्योपरि दक्षिणं च।

ऋजुः प्रसन्नो विजितेन्द्रियः स
न्नाधारमत्यन्तसमं स्मरेत्स्वम् ॥ १८.३१ ॥

तन्मध्यगतं प्रणवं

प्रणवस्थं बिन्दुमपि च बिन्दुगतम्।

नादं विचिन्त्य तारं
यथावदुच्चारयेत्सुषुम्नान्तम् ॥ १८.३२ ॥

तन्मध्यगतं शुद्धं

शब्दब्रह्मातिसूक्ष्मतन्तुनिभम्।

तेजः स्मरेच्च तारा
त्मकमपि मूलं चराचरस्य सदा ॥ १८.३३ ॥

ओंकारो गुणबीजं

प्रणवस्तारो ध्रुवश्च वेदादिः।

आदिरुमध्यो मपरो
नामन्यस्य त्रिमात्रिकश्च तथा ॥ १८.३४ ॥

अस्य तु वेदादित्वा

त्सर्वमनूनां प्रयुज्यतेऽथादौ।

योनिश्च सर्वदेहे
भवति च स ब्रह्म सर्वसंवादे ॥ १८.३५ ॥

ऋक् च तदाद्यादिः स्या

त्तन्मध्यान्तं यजुश्च मान्तादिः।

सामापि तस्य भेदा
बहवः प्रोक्ता हि लोकवेदेषु ॥ १८.३६ ॥

उच्चार्योच्चार्य च तं

क्रमान्नयेदुपरि षड्द्वयान्तान्तम्।

मनसा स्मृते यदास्मि
न्मनो लयं याति तावदभ्यस्येत् ॥ १८.३७ ॥

अथ वा बिन्दुं वर्तुल

मावर्तैस्त्रिभिरुपेतमेवमिव।

प्रोतं रविबिम्बेन च
समभ्यसेत्स्रुतसुधामयं तेजः ॥ १८.३८ ॥

अपमृत्युरोगपापजि

दचिरेण सुसिद्धिदो नृणां योगः।

अथ वा मूलाधारो
त्थिता प्रभा बिसविभेदतन्तुनिभा ॥ १८.३९ ॥

वदनामृतकरबिम्ब

स्यूता ध्यातामृताम्बुलवलुलिता।

स्थावरजङ्गमविषहृ
द्योगोऽयं नात्र संदेहः ॥ १८.४० ॥

अथ वा त्रिवलयबिन्दुग

धाम प्रणवेन संनयेदूर्ध्वम्।

पीतोर्णातन्तुनिभं
सौषुम्नेनैव वर्त्मना योगी ॥ १८.४१ ॥

तस्मिन्निधाय चित्तं

विलयं गमयेद्दिनेशसंख्यान्ते।

पुनरावृत्तिविहीनं
निर्वाणपदं व्रजेत्तदभ्यासात् ॥ १८.४२ ॥

अथ वादिबीजमौ पुन

रुमपि विषे तमपि संहरेद्बिन्दौ।

बिन्दुं नादे तमपि च
शक्तौ शक्तिं तथैव शान्ताख्ये ॥ १८.४३ ॥

तेजस्यनन्यगे चिति

निर्द्वन्द्वे निष्कले सदानन्दे।

सूक्ष्मे च सर्वतो मुख
करपदनयनादिलक्षणालक्ष्ये ॥ १८.४४ ॥

स्वात्मनि संहृत्यैवं

करणेन्द्रियवर्गनिर्गमापेतः।

निर्लीनपुण्यपापो
निरुच्छ्वसन्ब्रह्मभूत एव स्यात् ॥ १८.४५ ॥

अथ वा योगोपेताः

पञ्चावस्थाः क्रमेण विज्ञाय।

ताभिर्युञ्जीत सदा
योगी सद्यः प्रसिद्धये मुक्तेः ॥ १८.४६ ॥

जाग्रत्स्वप्नसुषुप्ती

तुरीयतदतीतकौ पुनस्तासु।

स्वैरिन्द्रियैर्यदात्मा
भुङ्क्ते भोगान्स जागरो भवति ॥ १८.४७ ॥

संज्ञारहितैरपि तै

स्तस्यानुभवो भवेत्पुनः स्वप्नः।

आत्मनिरुद्युक्ततया
नैराकुल्यं भवेत्सुषुप्तिरपि ॥ १८.४८ ॥

पश्यति परं यदात्मा

निस्तमसा तेजसा तुरीयं तत्।

आत्मपरमात्मपदयो
रभेदतो व्याप्नुयाद्यदा योगी ॥ १८.४९ ॥

तच्च तुरीयातीतं

तस्यापि भेवन्न दूरतो मुक्तिः।

अथ वा सूक्ष्माख्यायां
पश्यन्त्यां मध्यमाख्यवैखर्योः ॥ १८.५० ॥

ससुषुम्नाग्रकयोरपि

युञ्जीयाज्जाग्रदादिभिः पवनम्।

बीजोच्चारो जाग्र
द्बिन्दुः स्वप्नः सुषुप्तिरपि नादः ॥ १८.५१ ॥

शक्त्यात्मना तुरीयः

शान्ते लय आत्मनस्तुरीयान्तम्।

अङ्गुष्ठगुल्फजङ्घा
जानुद्वितयं च सीवनी मेढ्रम् ॥ १८.५२ ॥

नाभिर्हृदयं ग्रीवा

सलम्बिकाग्रं तथैव नासाग्रम्।

भ्रूमध्यललाटाग्रसु
षुम्नाग्रं द्वादशान्तमित्येवम् ॥ १८.५३ ॥

उत्क्रान्तौ परकाय

प्रवेशने चागतौ पुनः स्वतनौ।

स्थानानि धारणायाः
प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः ॥ १८.५४ ॥

स्थानेष्वेष्वात्ममनः

समीरसंयोगकर्मणोऽभ्यासात्।

अचिरेणोत्क्रान्त्याद्या
भवन्ति संसिद्धयः प्रसिद्धतराः ॥ १८.५५ ॥

कण्ठे भ्रूमध्ये हृदि

नाभौ सर्वाङ्गके स्मरेत्क्रमशः।

लवरसमीरखवर्णै
रनिलमहाकालवञ्चनेयं स्यात् ॥ १८.५६ ॥

अवनिजलानलमारुत

विहायसां शक्तिभिश्च तद्बिम्बैः।

मारूप्यमात्मनश्च
प्रतिनीत्वा तत्तदाशु जयति सुधीः ॥ १८.५७ ॥

एवं प्रोक्तैर्योगै

रायोजयतोऽन्वहं तथात्मानम्।

अचिरेण भवति सिद्धिः
समस्तसंसारमोचनी नित्या ॥ १८.५८ ॥

इति योगमार्गभेदैः

प्रतिदिनमारूढयोगयुक्तधियः।

सिद्धय उपलक्ष्यन्ते
मोक्षपुरीसंप्रवेशनद्वाराः ॥ १८.५९ ॥

कम्पः पुलकानन्दौ

वैमल्यस्थैर्यलाघवानि तथा।

सकलप्रकाशवित्ते
त्यष्टावस्थाः प्रसूचकाः सिद्धेः ॥ १८.६० ॥

त्रैकाल्यज्ञानोहौ

मनोज्ञता च्छन्दतो मरुद्रोधः।

नाडीसंक्रमणविधि
र्वाक्सिद्धिर्देहतश्च देहाप्तिः ॥ १८.६१ ॥

ज्योतिःप्रकाशनं चे

त्यष्टौ स्युः प्रत्ययायुजः सिद्धेः।

अणिमा महिमा च तथा
लघिमा गरिमेशिता वशित्वं च ॥ १८.६२ ॥

प्राप्तिः प्राकाम्यं चे

त्यष्टैश्वर्याणि योगयुक्तस्य।

अष्टैश्वर्यसमेतो

जीवन्मुक्तः प्रवक्ष्यते योगी।

योगानुभवमहामृत
रसपानानन्दनिर्भरः सततम् ॥ १८.६३ ॥

इत्येवं प्रणवविधिः समीरितोऽयं

भक्त्या तं प्रभजति यो जपादिभेदैः।

संप्राप्नोत्यनुततनित्यशुद्धबुद्धं
तद्विष्णोः परमतरं पदं नराग्र्यः ॥ १८.६४ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे अष्टादशः पटलः ॥