१७

अथ मन्मथमन्त्रविधिं विधिना

कथयामि सहोमविधिं सजपम्।

मथनस्य पुरामपि मोहकरं
व्यथिताखिलसिद्धसुरादिगणम् ॥ १७.१ ॥

अजकलाप्रथमावनिशान्तिभि

र्युतसुधाकरखण्डविकासिभिः।

निगदितो मनुरेष मनोभुवः
सकलधर्मयशोर्थसुखावहः ॥ १७.२ ॥

ऋष्यादिकाश्च संमो

हनगायत्रीमनोभवाः प्रोक्ताः।

बीजेन दीर्घभाजा
कथितान्यङ्गान्यमुष्य जातियुजा ॥ १७.३ ॥

अरुणमरुणवासोमाल्यदामाङ्गरागं

स्वकरकलितपाशं साङ्कुशास्त्रेषुचापम्।

मणिमयमकुटाद्यैर्दीप्तमाकल्पजातै
ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥ १७.४ ॥

तरणिलक्षममुं मनुमादरा

त्समभिजप्य हुनेच्च दशांशकैः।

तदनु किंशुकजैः प्रसवैः शुभै
स्त्रिमधुरार्द्रतरैर्निजसिद्धये ॥ १७.५ ॥

मोहिनी क्षोभिणी त्रासी स्तम्भिन्याकर्षिणी तथा।
द्राविणीह्लादिनीक्लिन्नाक्लेदिन्यः स्मरशक्तयः ॥ १७.६ ॥

आशान्तिद्वयवाम

श्रुतिसर्गैर्द्रयुगकलबलैश्च ससैः।

शोषणमोहनसंदी
पनतापनमादनान्यजेत्क्रमशः ॥ १७.७ ॥

अनङ्गरूपा सानङ्गमदनानङ्गमन्मथा।
अनङ्गकुसुमानङ्गकुसुमातुरसंज्ञका ॥ १७.८ ॥

अनङ्गशिशिरानङ्गमेखलानङ्गदीपिका।
अङ्गाशापालयोर्मध्ये बाणानङ्गावृतीर्यजेत् ॥ १७.९ ॥

आलिख्यात्कर्णिकायामनलपुरपुटे मारबीजं ससाध्यं

तद्रन्ध्रेष्वङ्गषट्कं बहिरपि गुणशो मारणाय त्रिवर्णान्।

मालामन्त्रं दलाग्रेष्वपि गुहमुखशः पार्थिवाश्रिष्वनङ्गं
कुर्याद्यन्त्रं तदेतद्भुवनमपि वशे का कथा मानवेषु ॥ १७.१० ॥

प्रोक्त्वाथ कामदेवा

य विद्महे तदनु पुष्पबाणाय।

तथा च धीमह्यन्ते
तन्नोऽनङ्गः प्रचोदयाद्गायत्री ॥ १७.११ ॥

नत्यन्ते कामदेवाय प्रोक्त्वा सर्वजनं वदेत्।
प्रियायेति तथा सर्वजनसंमोहनाय च ॥ १७.१२ ॥

वीप्सयित्वा ज्वलपदं प्रज्वलं च प्रभाषयेत्।
पुनः सर्वजनस्येति हृदयं मम चेत्यथ ॥ १७.१३ ॥

वशमुक्त्वा कुरुं वीप्स्य कथयेद्वह्निवल्लभाम्।
प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥ १७.१४ ॥

इति यन्त्रक्लृप्तकलशो बहुशः

कतमं नरं न परिमोहयति।

प्रमदावनीश्वरसभानगरा
दिकमाश्वरीनपि वशे कुरुते ॥ १७.१५ ॥

वक्ष्ये विधानमन्य

न्मनोभवस्याथ मोहनं जगतः।

येनार्चितः स देवो
वाञ्छितमखिलं करोति मन्त्रविदाम् ॥ १७.१६ ॥

अमृतोद्भवो मकरके

तनश्च संकल्पजाह्वयाक्षररूपौ।

इक्षुधनुर्धरपुष्पश
राख्यावङ्गानि वह्निजायान्तानि ॥ १७.१७ ॥

अरुणतरवसनमाल्या

नुलेपनाभरणमिषुशरासधरम्।

न्यस्तशरबीजदेहो
ध्यायेदात्मानमङ्गजं रुचिरम् ॥ १७.१८ ॥

अङ्गबाणावृतेरूर्ध्वं पूज्याः षोडश शक्तयः।
युवतिर्विप्रलम्भा च ज्योत्स्ना सुभ्रूर्मदद्रवा ॥ १७.१९ ॥

सुरता वारुणी लोला कान्तिः सौदामिनी तथा।
कामच्छत्रा चन्द्रलेखा शुकी च मदनाह्वया ॥ १७.२० ॥

योनिर्मायावती चेति शक्तयः स्युर्मनोभुवः।
शोको मोहो विलासश्च विभ्रमो मदनातुरः ॥ १७.२१ ॥

अपत्रपो युवा कामी चूतपुष्पो रतिप्रियः।
ग्रीष्मस्तपान्त ऊर्जश्च हेमन्तः शिशिरो मदः ॥ १७.२२ ॥

चतुर्थ्यामावृतौ पूज्याः स्युर्मारपरिचारकाः।
परभृत्सारसौ चैव शुकमेघाह्वयौ तथा ॥ १७.२३ ॥

अपाङ्गभ्रूविलासौ द्वौ हावभावौ स्मरप्रियाः।

माधवी मालती चैव हरिणाक्षी मदोत्कटा।
एताश्चामरहस्ताः स्युः पूज्याः कोणेषु संस्थिताः ॥ १७.२४ ॥

हृल्लेखया स्वनाम्ना च शक्त्यादीनां समर्चनम्।
इन्द्राद्यैः सप्तमी पूज्या स्मरार्चाविधिरीदृशः ॥ १७.२५ ॥

मदनविधानमितीत्थं

प्रोक्तं योऽनेन पूजयेद्विधिना।

स तु सकललोकपूज्यो
भवेन्मनोज्ञश्च मन्दिरं लक्ष्म्याः ॥ १७.२६ ॥

विलसदहंकारतनु

र्मनःशिवो विभ्रमास्पदीभूतः।

बुद्धिशरीरां नारीं
नरः सदा चित्तयोनिमभिगच्छेत् ॥ १७.२७ ॥

इति मदनयोगरत्या

यो रमयेन्नित्यशो निजां वनिताम्।

स तु भुक्तिमुक्तिकामी
वनिताजनहृदयमोहनो भवति ॥ १७.२८ ॥

आत्मानं मदनं ध्यायेदाशुशुक्षणिरूपिणम्।
तद्बीजाग्रं शिवज्वालातनुं तन्वीतनुं तथा ॥ १७.२९ ॥

सुधामयीं च तद्योनिं नवनीतमयं स्मरेत्।
संगच्छेच्च शिवज्वालालीढं तद्धृदयादिकम् ॥ १७.३० ॥

आलिङ्गेदग्निसंस्पर्शद्रुततद्रूपकामृतम्।
रसनाशिखया कर्षेत्तद्दन्तवसनामृतम् ॥ १७.३१ ॥

कुसुमास्त्रधिया बाह्ये स्पृशेत्कररुहैरपि।
हानिं न कुर्याज्जीवस्य मन्त्री विशदमानसः ॥ १७.३२ ॥

रतावथोऽधोमध्योर्ध्वक्रमेणैवं समाहितम्।

निजप्रियां भजेदेवं सा मारशरविह्वला।
छायेवानपगा तस्य भवेदेवं भवान्तरे ॥ १७.३३ ॥

साध्याख्या कामवर्णैः प्रतिपुटितलसत्कर्णिकं पत्रराज

त्तारर्त्विक्पक्षजाष्टादशसमिदृतुगण्डान्तगान्ताक्षराढ्यम्।

आशाशूलाङ्कितं तद्विपतिरिपुदले सम्यगालिख्य सेरं
मारं जप्त्वास्य यामाशयति वशगता सा भवेत्सद्य एव ॥ १७.३४ ॥

हंसारूढो मदन

स्त्रैलोक्यक्षोभको भवेदाशु।

द्युयुतो रञ्जनकृत्स्या
ज्जीवोपेतस्तथायुषे शस्तः ॥ १७.३५ ॥

तारयुजा त्वमुनाग्नौ

हुत्वा संपातितेन चाज्येन।

संभोजयेत्पतिं स्वं
वनिता स नितान्तरञ्जितो भवति ॥ १७.३६ ॥

दध्यक्ताभिर्जुहुया

ल्लाजाभिः कन्यकां समाकाङ्क्षन्।

कन्यापि वरं लभते
विधिना नित्यानुरक्तममुनैव ॥ १७.३७ ॥

अभिनवैः सुमनोभिरशोकजै

र्दधितिलैर्विहिता हवनक्रिया।

परमवश्यकरी परिकाङ्क्षिता
मपि लभेदचिरादिव कन्यकाम् ॥ १७.३८ ॥

अभीष्टदायी स्मरणादपि स्मर

स्तथा जपादर्चनया विशेषतः।

प्रसादतोऽस्याखिललोकवर्तिन
श्चिराय वश्याश्च भवन्ति मन्त्रिणः ॥ १७.३९ ॥

कुङा मध्यगताः ष्णायगोव्यर्णा यल्लमध्यगाः।
गोपीजनवकाराः स्युर्भायस्वाहास्मरादिकाः ॥ १७.४० ॥

ऋषिस्तु नारदोऽस्य स्याद्गायत्रं छन्द इष्यते।
मन्त्रस्य देवता कृष्णस्तदङ्गविधिरुच्यते ॥ १७.४१ ॥

मूलमन्त्रचतुर्वर्णचतुष्केण द्विकेन च।
प्रोक्तान्यङ्गानि भूयोऽमुं चिन्तयेद्देवकीसुतम् ॥ १७.४२ ॥

अव्यान्मीलत्कलापद्युतिरहिरिपुपिञ्छोल्लसत्केशजालो

गोपीनेत्रोत्पलाराधितललितवपुर्गोपगोबृन्दवीतः।

श्रीमद्वक्त्रारविन्दप्रतिहसितशशाङ्काकृतिः पीतवासा
देवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः ॥ १७.४३ ॥

अयुतद्वितयावधिर्जपः स्या

दरुणैरम्बुरुहैर्हृतो दशांशैः।

मुरजिद्विहिते तु पीठवर्ये
दिनशो नन्दसुतः समर्चनीयः ॥ १७.४४ ॥

अङ्गाशेड्वज्राद्यैः

परिवृत्य च पायसेन सुसितेन।

हैयङ्गवीनकदली
फलदधिभिः प्रीणयेच्च गोविन्दम् ॥ १७.४५ ॥

जुहुयाद्दुग्धहविर्भि

र्विमलैः सर्पिःसितोपलोपेतैः।

इष्टां तुष्टो लक्ष्मीं
समावहेत्सद्य एव गोविन्दः ॥ १७.४६ ॥

बालं नीलाम्बुदाभं नवमणिविलसत्किङ्किणीजालनद्ध

श्रोणीजङ्घान्तुयग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम्।

फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥ १७.४७ ॥

वन्द्यं देवैर्मुकुन्दं विकसितकरवन्दाभमिन्दीवराक्षं

गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम्(?)।

नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं यजतु च दिनशो मध्यमेऽह्नो रमायै ॥ १७.४८ ॥

विक्रान्त्या ध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै

रावीतं नारदाद्यैर्मुनिभिरनुदिनं तत्त्वनिर्णीतिहेतोः।

सायाह्ने निर्मलं तं निरुपममजरं पूजयेन्नीलभासं
मन्त्री विश्वोदयस्थित्यपहरणपरं मुक्तिदं वासुदेवम् ॥ १७.४९ ॥

त्रिकालमेवं प्रविचिन्त्य शार्ङ्गिणं

प्रपूजयेद्यो मनुजो महामनाः।

स धर्ममर्थं सुसुखं श्रियं परा
मवाप्य देहापदि मुक्तिमाप्नुयात् ॥ १७.५० ॥

ग्रामं गच्छन्नगरमपि वा मन्त्रजापि मनुष्यो

देवेशं तं मुखमनु मुहुस्तर्पयेद्दुग्धबुद्ध्या।

शुद्धैस्तोयैः स तु बहुरसोपेतमाहारजातं
दद्यान्नित्यं प्रचुरधनधान्यांशुकाद्यैर्मुकुन्दः ॥ १७.५१ ॥

भिक्षावृत्तिर्दिनमनु तमेवं विचिन्त्यात्मरूपं

गोपीस्त्रीभ्यो मुहुरपहरन्तं मनोभिः सहैव।

लीलावृत्त्या ललितललितैश्चेष्टितैर्दुग्धसर्पि
र्दध्याद्यं वा स पुनरमितामेति भिक्षां गृहेभ्यः ॥ १७.५२ ॥

ध्यानी मन्त्री मन्त्रजापी च नित्यं

यद्यद्वाञ्छन्यत्र यत्र प्रयाति।

तत्तत्प्राप्त्वा तत्र तत्र प्रकामं
प्रीतः क्रीडेद्देववन्मानुषेषु ॥ १७.५३ ॥

एवं देवं पूजयन्मन्त्रमेनं

जप्यान्मन्त्री सर्वलोकप्रियः स्यात्।

इष्टान्कामान्प्राप्य संपन्नवृत्ति
र्नित्यं शुद्धं तत्परं धाम भूयात् ॥ १७.५४ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे सप्तदशः पटलः ॥