अथ संग्रहेण कथयामि
मनुमपि महागणेशितुः।
यमवहितधियः समुपास्य
सिद्धिमधिकां प्रपेदिरे ॥ १६.१ ॥
तारश्रीशक्तिमारावनिगणपतिबीजानि दण्डीनि चोक्त्वा
पश्चाद्विघ्नं चतुर्थ्या वरवरदमथो सर्वयुक्तं जनं च।
आभाष्य क्ष्वेलमेन्तं वशमिति च तथैवानयेति द्विठान्तः
प्रोक्तोऽयं गाणपत्यो मनुरखिलविभूतिप्रदः कल्पशाखी ॥ १६.२ ॥
ऋषिरपि गणकोऽस्य स्या
च्छन्दोनिचृदन्विता च गायत्री।
सकलसुरासुरवन्दित
चरणयुगो देवता महागणपः ॥ १६.३ ॥
प्रणवादिबीजपीठ
स्थितेन दीर्घस्वरान्वितेन सता।
अङ्गानि षड्विदध्या
न्मन्त्री विघ्नेश्वरस्य बीजेन ॥ १६.४ ॥
मन्दाराद्यैः कल्पक
वृक्षविशेषैर्विशिष्टतरफलदैः।
शिशिरितचतुराशेऽन्त
र्बालातपचन्द्रिकाकुले च तले ॥ १६.५ ॥
ऐक्षवजलनिधिलहरी
कणजालकवाहिना च गन्धवहेन।
संसेविते च सुरतरु
सुमनःश्रितमधुपपक्षचलनपरेण ॥ १६.६ ॥
रत्नमये मणिवज्र
प्रवालफलपुष्पपल्लवस्य सतः।
महतोऽधस्तादृतुभि
र्युगपत्संसेवितस्य कल्पतरोः ॥ १६.७ ॥
सिंहमुखपादपीठग
लिपिमयपद्मे त्रिषट्कोणोल्लसिते।
आसीनस्त्वेकरदो
बृहदुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥ १६.८ ॥
बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥ १६.९ ॥
करपुष्करधृतकलश
स्रुतमणिमुक्ताप्रवालवर्षेण।
अविरतधारां विकिर
न्परितः साधकसमग्रसंपत्त्यै ॥ १६.१० ॥
मदजललोलुपमधुकर
मालां निजकर्णतालताडनया।
निर्वासयन्मुहुर्मुहु
रमरैरसुरैश्च सेवितो युगपत् ॥ १६.११ ॥
अग्रेऽथ बिल्वमभितश्च रमारमेशौ
तद्दक्षिणे वटजुषौ गिरिजावृषाङ्कौ।
पृष्ठेऽथ पिप्पलजुषौ रतिपुष्पबाणौ।
सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥ १६.१२ ॥
ध्येयौ च पद्मयुगचक्रदरैः पुरोक्तौ
पाशाङ्कुशाख्यपरशुत्रिखैरथान्यौ।
युग्मोत्पलेक्षुमयचापधरौ तृतीया
वन्यौ शुकाह्वकलमाग्रगदारथाङ्गैः ॥ १६.१३ ॥
ध्येयाः षट्कोणाश्रिषु
परितः पाशाङ्कुशाभयेष्टकराः।
सप्रमदा गणपतयो
रक्ताकाराः प्रभिन्नमदविवशाः ॥ १६.१४ ॥
अग्राश्रावामोदः
प्रमोदसुमुखौ च तदभितोऽश्रियुगे।
पृष्ठे च दुर्मुखाख्य
स्त्वमुमभितो विघ्नविघ्नकर्तारौ ॥ १६.१५ ॥
सव्यापसव्यभागे
तस्य ध्येयौ च शङ्खपद्मनिधी।
मौक्तिकमाणिक्याभौ
वर्षन्तौ धारया धनानि सदा ॥ १६.१६ ॥
सिद्धिसमृद्धी चान्या
कान्तिर्मदनावती मदद्रवया।
द्राविणिवसुधाराख्ये
वसुमत्यपि विघ्ननिधियुगप्रमदाः ॥ १६.१७ ॥
ध्यात्वैवं विघ्नपतिं
चत्वारिंशत्सहस्रसंयुक्तम्।
प्रजपेल्लक्षचतुष्कं
चतुःसहस्रं च दीक्षितो मन्त्री ॥ १६.१८ ॥
दिनशः स चतुश्चत्वा
रिंशत्संख्यं प्रतर्पयेद्विघ्नम्।
उक्तजपान्ते मन्त्री
जुहुयाच्च दशांशतोऽष्टभिर्द्रव्यैः ॥ १६.१९ ॥
मोदकपृथुका लाजाः
ससक्तवः सेक्षुनालिकेरतिलाः।
कदलीफलसहितानी
त्यष्ट द्रव्याणि संप्रदिष्टानि ॥ १६.२० ॥
अनुदिनमर्चयितव्यो
जपता मनुमपि च मन्त्रिणा गणपः।
प्राक्प्रोक्तपद्मपीठे
सशक्तिके साधिका मनौ विधिना ॥ १६.२१ ॥
तीव्रा ज्वालिनिनन्दे
सभोगदा कामरूपिणी चोग्रा।
तेजोवती च नित्या
संप्रोक्ता विघ्ननाशिनी नवमी ॥ १६.२२ ॥
सर्वयुतं शक्तिपदं
प्रोक्त्वा कमलासनाय नम इति च।
आसनमन्त्रः प्रोक्तो
नवशक्त्यन्ते समर्चयेदमुना ॥ १६.२३ ॥
आद्या मिथुनैरावृति
रपरा सनिधिभिरपि च षड्विघ्नैः।
अङ्गैरन्या मातृभि
रपरेन्द्राद्यैश्च पञ्चमी पूज्या ॥ १६.२४ ॥
दीक्षाभिषेकयुक्तः
प्रजपेत्संपूजयेदिति गणेशम्।
अभिधीयतेऽस्य च पुन
र्गुर्वादेशेन मन्त्रिणो दीक्षा ॥ १६.२५।
मध्ये च दिग्दलानां
चतुष्टयाग्रे प्रविन्यसेत्कलशान्।
क्षीरद्रुबिल्वरोहिण
पिप्पलफलिनीत्वगुद्भवैः क्वथितैः ॥ १६.२६ ॥
संपूजयेद्यथाव
त्क्रमात्समावाह्य गणपमिथुनानि।
अभ्यर्च्य चोपचारै
र्हुत्वा विधिवत्पुनः समभिषिञ्चेत् ॥ १६.२७ ॥
इति जपहुतार्चनाद्यैः
सिद्धो मन्त्रेण कर्म कुर्वीत।
अष्टद्रव्यैर्वान्यै
र्हुनेच्च तत्तत्प्रयोजनावाप्त्यै ॥ १६.२८ ॥
स्वर्णाप्त्यै मधुना च गव्यपयसा गोसिद्धये सर्पिषा
लक्ष्म्यै शर्करया जुहोतु यशसे दध्ना च सर्वर्द्धये।
अन्नैरन्नसमृद्धये च सतिलैर्द्रव्याप्तये तण्डुलै
र्लाजाभिर्यशसे कुसुम्भकुसुमैः साश्वारिजैर्वाससे ॥ १६.२९ ॥
पद्मैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै
रश्वत्थादिसमिद्भिरग्रजमुखान्वर्णान्वधूः पिष्टजैः।
पुत्तल्यादिभिरन्वहं च वशयेज्जुह्वन्ननावृष्टये
लोणैर्वृष्टिसमृद्धये च जुहुयान्मन्त्री पुनर्वेतसैः ॥ १६.३० ॥
मन्त्रेणाथ पुरामुनैव चतुरावृत्त्या समातर्प्य च
श्रीशक्तिस्मरभूविनायकरतीर्नाम्नैव बीजादिकम्।
आमोदादिनिधिद्वयं च सचतुःपूर्वं चतुर्वारकं
मन्त्री तर्पणतत्परोऽभिलषितं संप्राप्नुयान्मण्डलात् ॥ १६.३१ ॥
अथ गजलिप्सुर्नृपति
र्गजवनमध्ये प्रसाधयेद्वारि।
तन्निकटे तु विशालं
चतुरश्रं कारयेच्च गृहवर्यम् ॥ १६.३२ ॥
परिवीतदृढावरणं
तच्च चतुर्द्वारतोरणोल्लसितम्।
तस्मिन्मण्डपवर्ये
चतुरश्रामुन्नतां स्थलीं कृत्वा ॥ १६.३३ ॥
उत्तरभागे तस्याः
कुण्डं रचयेद्यथा पुरा तत्र।
चापजहरिभवमानुष
चक्रप्रोक्तानथाक्षरान्मन्त्री ॥ १६.३४ ॥
ऊर्ध्वादिमेखलासु
क्रमेण विलिखेन्निजेष्टसमवाप्त्यै।
संप्रोक्तलक्षणयुतं
प्रविरचयेन्मण्डलं स्थलीमध्ये ॥ १६.३५ ॥
आवाह्य विघ्नेश्वरमर्चयित्वा
प्रागुक्तया तत्र विधानक्लृप्त्या।
निवेदयित्वा सह भक्ष्यलैह्यैः
प्राज्यैश्च साज्यैरपि भोज्यजातैः ॥ १६.३६ ॥
आधाय वैश्वानरमत्र कुण्डे
समर्च्य मन्त्रैः क्रमशः कृशानोः।
तैरेव पूर्वं जुहुयाद्धृतेन
मन्त्री समृद्ध्या च ततस्त्रिवारम् ॥ १६.३७ ॥
तारेण लक्ष्म्यद्रिसुतास्मरक्ष्मा
विघ्नेशबीजैः क्रमशोऽनुबद्धैः।
पदत्रयेणापि च मन्त्रराजं
विभज्य मन्त्री नवधा जुहोतु ॥ १६.३८ ॥
पुनः समस्तेन च मन्त्रवर्ण
संख्यं प्रजुह्वन्नपि सर्पिषैव।
पूर्वप्रदिष्टैर्जुहुयादथाष्ट
द्रव्यैः प्रसिक्तैर्मधुरत्रयेण ॥ १६.३९ ॥
सचतुश्चत्वारिंश
त्सहस्रसंख्यैश्चतुःशतैः श्रुतिभिः।
दशकचतुष्कैर्हुत्वा
चत्वारिंशद्भिरन्तरेण दिनैः ॥ १६.४० ॥
करिकलभाः करिणीभिः
संपात्यन्तेऽवटेऽत्र गणपतिना।
प्रतिदिनमभ्यवहार्य च
विप्रान्संवर्धितस्तदाशीर्भिः ॥ १६.४१ ॥
तेषां मातङ्गानां
दद्यात्पञ्चांशदक्षिणां गुरवे।
तद्विक्रीतं वसु वा
प्रसादितायाथ तद्दशांशं वा ॥ १६.४२ ॥
मिथुनानां गणपानां
निध्योश्च तथाङ्गमातृलोकेशानाम्।
मन्त्री घृतेन हुत्वा
भ्यर्च्य च होमं समापयेत्सम्यक् ॥ १६.४३ ॥
पुनरुद्धृत्य निवेद्या
दिकं समभ्यर्च्य गणपतिं सावरणम्।
उद्वास्य स्वे हृदये
विहरेदित्यर्चना क्रमोद्दिष्टा ॥ १६.४४ ॥
प्रोक्तस्त्वेवं दशभुजमनुः संग्रहेणात्र भक्तो
दीक्षां प्राप्तो विधिवदभिजप्त्वाथ हुत्वार्चयित्वा।
नुत्वा नत्वा दिनमनु तथा तर्पयित्वा स्वकामा
ल्लँब्ध्वा चान्ते व्रजति मुनिभिः प्रार्थनीयं पदं तत् ॥ १६.४५ ॥
स्मृतिपीठः पिनाकी सानुग्रहो बिन्दुसंयुतः।
बीजमेतद्भुवः प्रोक्तं संस्तम्भनकरं परम् ॥ १६.४६ ॥
चतुरीयो विलोमेन तारादिर्बिन्दुसंयुतः।
वैघ्नो मन्त्रो हृदन्तोऽर्चाविधौ होमे द्विठान्तकः ॥ १६.४७ ॥
गणकः स्यादृषिश्छन्दो निचृद्विघ्नश्च देवता।
बीजेन दीर्घयुक्तेन दण्डिनाङ्गक्रियेरिता ॥ १६.४८ ॥
रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि
र्नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः।
हस्ताग्राक्लृप्तपाशाङ्कुशरदवरदो नागयज्ञाभिभूषो
देवः पद्मासनो वो भवतु नतसुरो भूतये विघ्नराजः ॥ १६.४९ ॥
दीक्षितः प्रजपेल्लक्षचतुष्कं प्राक्समीरितैः।
जुहुयादष्टभिर्द्रव्यैर्यथापूर्वं दशांशतः ॥ १६.५० ॥
पीठे तीव्रादिभिः पद्मकर्णिकायां विनायकम्।
आवाह्य पूजयेद्दिक्षु चतुर्ष्वपि यजेत्पुनः ॥ १६.५१ ॥
गणाधिपगणेशौ च गणनायकमेव च।
गणक्रीडं कर्णिकायामङ्गैः किञ्जल्कसंस्थितैः ॥ १६.५२ ॥
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ।
लम्बोदरश्च विकटो विघ्नराड्धूमवर्णकौ।१६.५३ ॥
समर्चयेन्मातृवर्गं बाह्ये लोकेश्वरानपि।
इति प्रोक्ता संग्रहेण गाणेशीयं समर्चना ॥ १६.५४ ॥
नालिकेरान्वितैर्मन्त्री सक्तुलाजतिलैर्हुनेत्।
आरभ्याच्छां प्रतिपदं चतुर्थ्यन्तं चतुःशतम् ॥ १६.५५ ॥
दिनशः सर्ववश्यं स्यात्सर्वकामप्रदं नृणाम्।
तिलतण्डुलकैर्लक्ष्मीवश्यकृच्च यशस्करम् ॥ १६.५६ ॥
मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम्।
जुहुयात्कन्यकार्थी वा कन्यका वा वरार्थिनी ॥ १६.५७ ॥
चतुर्थ्यां नालिकेरैस्तु होमः सद्यः श्रियावहः।
हविषा घृतसिक्तेन सर्वकार्यार्थदो हुतः ॥ १६.५८ ॥
दध्यन्नलोणमुद्राभिहुनेन्निशि चतुर्दिनम्।
इष्टार्थसिद्ध्यै मतिमान्सद्यः संवादसिद्धये ॥ १६.५९ ॥
ईदृशं गणपं ध्यात्वा मन्त्री तोयैः सुधामयैः।
दिनादौ दिनशस्तस्य तर्पयेन्मस्तके सुधीः ॥ १६.६० ॥
चत्वारिंशच्चतुःपूर्वं तत्पूर्वं वा चतुःशतम्।
चत्वारिंशद्दिनात्तस्य काङ्क्षिता सिद्धिरेष्यति ॥ १६.६१ ॥
नवनीते नवे लिख्यादनुलोमविलोमकम्।
उदरस्थितसाध्याख्यं तद्बीजं तत्प्रतिष्ठितम् ॥ १६.६२ ॥
समीरणं प्रतिष्ठाप्य जप्त्वाष्टशतसंख्यकम्।
तूष्णीं प्रभक्षयेदेतत्सप्तरात्राद्वशीकरम् ॥ १६.६३ ॥
अन्त्यासनोऽथ सूक्ष्मो
लोहितगोऽग्निः पुनः स एव स्यात्।
सादान्तेनायार्णौ
नत्यन्तो मनुरयं स्वबीजाद्यः ॥ १६.६४ ॥
ऋषिदेवते तु पूर्वे
च्छन्दस्तु विराडमुष्य संप्रोक्ता।
बीजेन दीर्घभाजा
कथितोऽङ्गविधिः क्रमेण बिन्दुमता ॥ १६.६५ ॥
धृतपाशाङ्कुशकल्पक
लतिकास्वरदश्च बीजपूरयुतः।
शशिशकलकलितमौलि
स्त्रिलोचनोऽरुणतनुश्च गजवदनः ॥ १६.६६ ॥
भासुरभूषणदीप्तो
बृहदुदरः पद्मविष्टरो ललितः।
ध्येयोऽनायतदोःपद
सरसिरुहः संपदे सदा मनुजैः ॥ १६.६७ ॥
दीक्षायुक्तः प्रजपे
ल्लक्षं मनुमेनमथ तिलैरयुतम्।
त्रिमधुरसिक्तैर्जुहुया
त्पूर्वोक्तैर्वाथ वाष्टभिर्द्रव्यैः ॥ १६.६८ ॥
विघ्नविनायकवीराः
सशूलवरदेभवक्त्रकैकरदाः।
लम्बोदरश्च मात
ङ्गावृत्योरन्तरा च लोकेशाः ॥ १६.६९ ॥
पूज्याः सितघृतपायस
हवनात्संजायते महालक्ष्मीः।
केवलघृतहुतमुदितो
विघ्नः सद्यो वशीकरोति जगत् ॥ १६.७० ॥
एकमपि नालिकेरं
सचर्मलोष्टेन्धनं हुनेन्मन्त्री।
दिनशश्चत्वारिंश
द्दिनतः स तु वाञ्छितार्थमभ्येति ॥ १६.७१ ॥
सह पृथुकेसक्तुलाजै
स्तिलैरभीष्टार्थसिद्धये जुहुयात्।
सापूपनालिकेरे
क्षुककदलीभिस्तथा सुमधुराभिः ॥ १६.७२ ॥
अष्टभिरेतैर्विहितो
होमः सर्वार्थसाधको भवति।
दिनशः सघृतान्नहुतो
गृहयात्रायापको गृहस्थानाम् ॥ १६.७३ ॥
अन्वहमन्वहमादौ
गणपं संतर्पयेच्चतुःपूर्वम्।
चत्वारिंशद्वारैः
शुद्धजलैरिन्दिराप्तये मन्त्री ॥ १६.७४ ॥
समहागणपतियुक्तै
र्विघ्नाद्यैर्दशभिराह्वयैर्दिनशः।
तर्पणपूजाहुतविधि
रपि वाञ्छितसिद्धिदायको भवति ॥ १६.७५ ॥
बिम्बादम्बुदवत्समेत्य सवितुः सोपानकै राजतै
स्तोयं तोयजविष्टरं ध्रतलतादन्तं सपाशाङ्कुशम्।
नासां साध्यनृके निधाय सुधया तद्रन्ध्रनिर्यातया
सिञ्चन्तं वपुरन्वहं गणपतिं स्मृत्वामृतैस्तर्पयेत् ॥ १६.७६ ॥
प्राग्भाषितानपि विधीन्विधिवद्विदध्या
न्मन्त्री विशेषविदथान्वहमादरेण।
एकत्र वा गणपतौ मनुजाः स्वरुच्या
नामानुरूपमनुमेनममी भजन्तु ॥ १६.७७ ॥
इति जपहुतपूजातर्पणैर्विघ्नराजं
प्रभजति मनुजो यस्तस्य शुद्धिर्विशाला।
भवति सधनधान्या पुत्रमित्रादियुक्ता
विगतसकलविघ्ना विश्वसंवादिनी च ॥ १६.७८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे षोडशः पटलः ॥