१५

अथ चन्द्रमनुं वक्ष्ये सजपार्चाहुतादिकम्।
हिताय मन्त्रिणां सार्घ्यविधानं च समासतः ॥ १५.१ ॥

भृगुः ससद्यः सार्धेन्दुर्बिन्दुहीनः पुनश्च सः।
विषानन्तौ मान्तनती मन्त्रोऽयं सोमदैवतः ॥ १५.२ ॥

दीर्घभाजा स्वबीजेन कुर्यादङ्गानि वै क्रमात्।
विचिन्तयेत्पुनर्मन्त्री यथावन्मन्त्रदेवताम् ॥ १५.३ ॥

अमलकमलसंस्थः सुप्रसन्नाननेन्दु

र्वरदकुमुदहस्तश्चारुहारादिभूषः।

स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो
भवतु भवदभीष्टोद्द्योतिताङ्कः शशाङ्कः ॥ १५.४ ॥

दीक्षितः प्रजपेन्मन्त्री रसलक्षं मनुं वशी।
पञ्चमीदशमीपञ्चदशीषु तु विशेषतः ॥ १५.५ ॥

अयुतं प्रजपेन्मन्त्री सायाह्नेऽभ्यर्च्य भाधिपम्।
पयोन्नेन हुनेद्भूयः सघृतेन सहस्रकम् ॥ १५.६ ॥

ससर्पिषा पायसेन षट्सहस्रं हुनेत्ततः।
पीठक्लृप्तौ तु सोमान्तं परिपूज्यार्चयेद्विधुम् ॥ १५.७ ॥

केसरेष्वङ्गपूजा स्याच्छक्तीस्तद्बहिरर्चयेत्।
रोहिणीं कृत्तिकाख्यां च रेवतीं भरणीं तथा ॥ १५.८ ॥

रात्रिमार्द्राह्वयां ज्योत्स्नां कलां च क्रमतोऽर्चयेत्।
दलाग्रेषु ग्रहानष्टौ दिशानाथाननन्तरम् ॥ १५.९ ॥

सुसितैर्गन्धकुसुमैः पात्रै रूप्यमयैस्तथा।
शक्तयः फुल्लकुन्दाभास्तारहारविभूषणाः ॥ १५.१० ॥

सितमाल्याम्बरालेपा रचिताञ्जलयो मताः।
इति सिद्धमनुर्मन्त्री शशिनं मूर्ध्नि चिन्तयेत् ॥ १५.११ ॥

त्रिसहस्रं जपेद्रात्रौ मासान्मृत्युंजयो भवेत्।
हृदयाम्भोजसंस्थं तं भावयन्प्रजपन्मनुम् ॥ १५.१२ ॥

राज्यैश्वर्यं वत्सरेण प्राप्नुयादप्यकिंचनः।
आहाराचारनिरतो जपेल्लक्षचतुष्टयम् ॥ १५.१३ ॥

असंशयतरं तेन निधानमुपलभ्यते।
घोरा ज्वरा गराः शीर्षरोगाः कृत्याश्च कामिलाः ॥ १५.१४ ॥

तन्मन्त्रायुतजापेन नश्यन्ति सकलापदः।
नित्यशः प्रजपेन्मन्त्रं पूर्णासु विजितेन्द्रियः ॥ १५.१५ ॥

जपेन्मनुं यथाशक्ति लक्ष्मीसौभाग्यसिद्धये।
त्रितयं मण्डलानां तु कृत्वा पाश्चात्त्यपौर्विकम् ॥ १५.१६ ॥

आसीनः पश्चिमे मध्ये संस्थे द्रव्याणि विन्यसेत्।
पूर्वस्मिन्पङ्कजोपेते पूर्ववत्सोममर्चयेत् ॥ १५.१७ ॥

राकायामुदये राज्ञो निजकार्यं विचिन्तयेत्।
संस्थाप्य राजतं तत्र चषकं परिपूरयेत् ॥ १५.१८ ॥

गव्येन शुद्धपयसा स्पृष्टपात्रो जपेन्मनुम्।
अष्टोत्तरशतावृत्त्या दद्यादर्घ्यमथेन्दवे ॥ १५.१९ ॥

विद्यामन्त्रेण मन्त्रज्ञो यथावत्तद्गतात्मना।
विद्याविद्यापदे प्रोक्त्वा मालिनीति च चन्द्रिणी ॥ १५.२० ॥

चन्द्रमुख्यनिजायां च निगदेत्प्रणवादिकम्।
प्रतिमासं च षण्मासात्सिद्धिमेष्यति काङ्क्षितम् ॥ १५.२१ ॥

इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम्।

अमितां श्रियमाप्नोति कान्तिं पुत्रान्यशः पशून्।
सोमार्घ्यदाता लभते दीर्घमायुश्च विन्दति ॥ १५.२२ ॥

इति सोममन्त्रसिद्धिं

प्रणिगदितः संग्रहेण मन्त्रविदाम्।

उपकृतयेऽमितलक्ष्म्यै
मेधायै प्रेत्य चेह संपत्त्यै ॥ १५.२३ ॥

अथाग्निमन्त्रान्सकलार्थसिद्धि

करान्प्रवक्ष्ये जगतो हिताय।

सर्ष्यादिक्लृप्तीनपि साङ्गभेदा
न्सार्चाविशेषान्सजपादिकांश्च ॥ १५.२४ ॥

वियतो दशमोऽर्घिसर्गयुक्तो

भुवसर्गौ भृगुलान्तषोडशाचः।

हुतभुग्दयिता ध्रुवादिकोऽयं
मनुरुक्तः सुसमृद्धिदः कृशानोः ॥ १५.२५ ॥

भृगुरपि तदृषिश्छन्दो

गायत्री देवताग्निरुद्दिष्टः।

प्राक्प्रोक्तान्यङ्गानि
विशः समुक्तैश्च मन्त्रवाक्यैर्वा ॥ १५.२६ ॥

शक्तिस्वस्तिकपाशा

न्साङ्कुशवरदाभयान्दधत्ित्रमुखः।

मकुटादिविविधभूषो
ऽवताच्चिरं पावकः प्रसन्नो वः ॥ १५.२७ ॥

जपेदिमं मनुमृतुलक्षमादरा

द्दशांशतः प्रतिजुहुयात्पयोन्धसा।

ससर्पिषाप्यसिततरैश्च षाष्टिकैः
समर्चयेदथ विधिवद्विभावसुम् ॥ १५.२८ ॥

पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी।
रुचिरा कालिनी चेति कृशानोर्नव शक्तयः ॥ १५.२९ ॥

पीठे तनूनपातः

प्रागङ्गैरष्टमूर्तिभिस्तदनु।

भूयश्च शतमखाद्यै
र्विधिनाथ हिरण्यरेतसं प्रयजेत् ॥ १५.३० ॥

आज्यैरष्टोर्ध्वशतं

प्रतिपदमारभ्य मन्त्रविद्दिनशः।

चतुरो मासाञ्जुहुया
ल्लक्ष्मीरत्यायता भवेत्तस्य ॥ १५.३१ ॥

शुद्धाभिः शालीभि

र्दिनमनुजुहुयात्तथाब्दमात्रेण।

शालीशालि गृहं स्या
द्गोमहिषाद्यैश्च संकुलं तस्य ॥ १५.३२ ॥

शुद्धान्नैर्घृतसिक्तैः

प्रतिदिनमग्नौ समेधिते जुहुयात्।

अन्नसमृद्धिर्महती
स्यादस्य निकेतनेऽब्दमात्रेण ॥ १५.३३ ॥

जुहुयात्तिलैः सुशुद्धैः

षण्मासाज्जायते महालक्ष्मीः।

कुमुदैः कह्लारैरपि
जातीकुसुमैश्च जायते सिद्धिः ॥ १५.३४ ॥

पालाशैः पुनरिध्मकैः सरसिजैर्बिल्वैश्च रक्तोत्पलै

र्दुग्धोर्वीरुहसंभवैः खदिरजैर्व्याघातवृक्षोद्भवैः।

दूर्वाख्यैश्च शमीविकङ्कतभवैरष्टोर्ध्वयुक्तं शतं
नित्यं वा जुहुयात्प्रतिप्रतिपदं मन्त्री महासिद्धये ॥ १५.३५ ॥

तारं व्याहृतयश्चाग्निर्जातवेद इहावह।
सर्वकर्माणि चेत्युक्त्वा साधयाग्निवधूर्मनुः ॥ १५.३६ ॥

ऋष्याद्याः पूर्वोक्ता

मन्त्रेणाङ्गानि वर्णभिन्नेन।

भूतर्तुकरणसेन्द्रिय
गुणयुग्मैर्जातिभेदितैस्तदपि ॥ १५.३७ ॥

अथ वा शक्तिस्वस्तिक

दर्भाक्षस्रक्स्रुवस्रुगभयवरान्।

दधदमिताकल्पो यो
वसुरवतात्कनकमालिकालसितः ॥ १५.३८ ॥

वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः।
मन्त्रं द्वादशसाहस्रं जपेत्सम्यगुपोषितः ॥ १५.३९ ॥

अर्चयेदङ्गमूर्तीश्च लोकेशकुलिशादिभिः।
समिदाद्यममावास्यां परिशोध्य यथाविधि ॥ १५.४० ॥

ब्राह्मणान्भोजयित्वा च स्वयं भुक्त्वा समाहितः।
परेऽह्नि प्रतिपद्येतैर्जुहुयादर्चितेऽनले ॥ १५.४१ ॥

मन्त्री वटसमिद्व्रीहितिलराजिहविर्घृतैः।
अष्टोत्तरशतावृत्त्या हुनेदेकैकशः क्रमात् ॥ १५.४२ ॥

दशाहमेवं कृत्वा तु पुनरेकादशीतिथौ।
शक्त्या प्रतर्प्य विप्रांश्च प्रदद्याद्गुरुदक्षिणाम् ॥ १५.४३ ॥

सुवर्णवासोधान्यानि शोणां गां च सतर्णकाम्।
पुनरष्टोत्तरं मन्त्री सहस्रं दिनशो जपेत् ॥ १५.४४ ॥

विधिनेति विधातुरग्निपूजा

मचिरेणैव भवेन्महासमृद्धिः।

धनधान्यसुवर्णरत्नपूर्णा
धरणी गोवृषपुत्रमित्रकीर्णा ॥ १५.४५ ॥

प्रजपदथ वा सहस्रसंख्यं

दिनशो वत्सरतो भवेन्महाश्रीः।

जुहुयात्प्रतिवासरं शताख्यं
हविषाब्देन भवेन्महासमृद्धिः ॥ १५.४६ ॥

पालाशैः कुसुमैर्हुनेद्दधिघृतक्षौद्राप्लुतैर्मण्डलं

नित्यं साष्टशतं तथैव करवीरोत्थैः समृद्ध्यै हुनेत्।

षण्मासं कपिलाघृतेन दिनशोऽप्यष्टौ सहस्रं तथा
होतव्यं लभते स राजसदृशीं लक्ष्मीं यशो वा महत् ॥ १५.४७ ॥

उत्पूर्वात्तिष्ठशब्दात्पुरुषहरिपदे पिङ्गलान्ते निगद्य

प्रोच्याथो लोहिताक्षं पुनरपि च वदेद्देहि मेदान्क्रमेण।

भूयो ब्रूयात्तथा दापय शशियुगलार्णांश्चतुर्विशदर्णः
प्रोक्तो मन्त्रोऽखिलेष्टप्रतरणसुरसद्माङ्घ्रिपः स्यात्कृशानोः ॥ १५.४८ ॥

ऋष्याद्याः स्युः पूर्वव

दृतुभूतदिशात्रिकरणयुगलार्णैः।

मूलमनुनाथ कुर्या
दङ्गानि क्रमश एव मन्त्रितमः ॥ १५.४९ ॥

हैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृतिं

वर्षन्तं धनधान्यरत्ननिचयान्रन्ध्रैः स्वकैः संततम्।

ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसंभेदनं
वन्दे धर्मसुखार्थमोक्षसुखदं दिव्याकृतिं पावकम् ॥ १५.५० ॥

जप्याच्च लक्षमानं

मन्त्री संदीक्षितोऽथ मनुमेनम्।

जुहुयाच्च तदवसाने
घृतसिक्तैः पायसैर्दशांशेन ॥ १५.५१ ॥

अङ्गैर्हुतवहमूर्तिभि

राशेशैः संयजेत्तदस्रैश्च।

पावकमिति मन्त्रितमो
गन्धाद्यैरनुदिनं तदुपहारैः ॥ १५.५२ ॥

दिनावतारे मनुमेनमन्वहं

जपेत्सहस्रं नियमेन मन्त्रवित्।

अधृष्यतायै यशसे श्रिये रुजां
विमुक्तये युक्तमतिस्तथायुषे ॥ १५.५३ ॥

शालीतण्डुलकैः सितैश्च पयसा कृत्वा हविः पावकं

गन्धाद्यैः परिपूज्य तेन हविषा संवर्त्य पिण्डं महत्।

आज्यालोलितमेकमेव जुहुयाज्जप्त्वा मनुं मन्त्रवि
त्साष्टोर्ध्वं प्रतिपद्यथो शतमतः स्यादिन्दिरा वत्सरात् ॥ १५.५४ ॥

अष्टोत्तरं शतमथो मृगमुद्रयैव

मन्त्री प्रतिप्रतिपदं जुहुयात्पयोन्नैः।

साज्यैर्भवेन्न खलु तत्र विचारणीयं
संवत्सरात्स च निकेतनमिन्दिरायाः ॥ १५.५५ ॥

अष्टोर्ध्वशतं हविषा

मन्त्रेणानेन नित्यशो जुहुयात्।

षण्मासादाढ्यतमो
भवति नरो नात्र संदेहः ॥ १५.५६ ॥

शालीभिः शुद्धाभिः

प्रतिदिनमष्टोत्तरं शतं जुहुयात्।

धनधान्यसमृद्धः स्या
न्मन्त्री संवत्सरार्धमात्रेण ॥ १५.५७ ॥

आज्यैरयुतं जुहुया

त्प्रतिमासं प्रतिपदं समारभ्य।

अतिमहती लक्ष्मीः स्या
दस्य तु षण्मसितो न संदेहः ॥ १५.५८ ॥

अरुणैः पुनरुत्पलैः शतं यो

मधुराक्तैः प्रजुहोति वत्सरार्धम्।

मनुनाप्यमुना दशाधिकं स
प्रलभेन्मङ्क्षु महत्तरां च लक्ष्मीम् ॥ १५.५९ ॥

जातीपलाशकरवीरजपाख्यबिल्व

व्याघातकेसरकुरण्डभवैः प्रसूनैः।

एकैकशः शतमथो मधुरत्रयाक्तै
र्जुह्वत्प्रतिप्रतिपदं श्रियमेति वर्षात् ॥ १५.६० ॥

खण्डैश्च सप्तदिनमप्यमृतालतोत्थै

र्मन्त्री हुनेद्गुणसहस्रमथो पयोक्तैः।

सम्यक्समर्च्य दहनं नचिरेण जन्तु
श्चातुर्थिकादिविषमज्वरतो वियुञ्ज्यात् ॥ १५.६१ ॥

क्षीरद्रुमत्वगभिपक्वजलैर्यथाव

त्संपूर्य कुम्भमभिपूज्य कृशानुमत्र।

जप्त्वा मनुं पुनरमुं त्रिसहस्रमानं
सेकक्रिया ज्वरहरी ग्रहवैकृतघ्नी ॥ १५.६२ ॥

पयसि हृदयदघ्ने भानुमालोक्य तिष्ठ

न्प्रजपतु च सहस्रं नित्यशो मन्त्रमेनम्।

स दुरितमपमृत्युं रोगजातांश्च हित्वा
व्रजति नियतसौख्यं वत्सराद्दीर्घमायुः ॥ १५.६३ ॥

मनुनामुनाष्टशतजप्तमथ

प्रपिबेज्जलं ज्वलनदीपनकृत्।

गुरु भुक्तमप्युदरगं त्वमुना
परिजापितं पचति कुक्ष्यनलः ॥ १५.६४ ॥

हुनेदरुणपङ्कजैस्त्रिमधुराप्लुतैर्नित्यशः

सहस्रमृतुमासतः पृथुतरा रमा जायते।

प्रतिप्रतिपदं हुनेदिति बुधो धिया वत्सरा
द्विनष्टवसुरप्यसौ भवति चेन्दिरामन्दिरम् ॥ १५.६५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे पञ्चदशः पटलः ॥