अथ कथयिष्ये मन्त्रं
चतुरक्षरसंज्ञकं समासेन।
प्रणवो भुवनाधीशो
दण्डिखमस्यादिको विसर्गान्तः ॥ १४.१ ॥
ऋषिरस्याजश्छन्दो
गायत्रं देवता च भुवनेशी।
अङ्गानि षट् क्रमेण
प्रोक्तानि प्रणवशक्तिबीजाभ्याम् ॥ १४.२ ॥
भास्वद्रत्नौघमौलिस्फुरदमृतरुचो रञ्जयच्चारु रेखां
सम्यक्संतप्तकार्तस्वरकमलजपाभासुराभिः प्रभाभिः।
विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाङ्कुशेष्टा
भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः ॥ १४.३ ॥
संदीक्षितोऽथ प्रजपेच्च मन्त्रं
मन्त्री पुनर्लक्षचतुष्कमेनम्।
पुष्पैस्तदन्ते द्विजवृक्षजातैः
स्वादुप्लुतैर्वा जुहुयात्सरोजैः ॥ १४.४ ॥
मनोरथार्कात्मतया त्वनेन
प्रवर्त्यतेऽर्घ्येपहिता प्रपूजा।
समे सुमृष्टे रचयेद्विविक्ते
शुद्धे तले स्थण्डिलमङ्गणस्य ॥ १४.५ ॥
प्रयजेदथ प्रभूतां
विमलां साराह्वयां समाराध्याम्।
परमसुखामग्न्यादि
ष्वश्रिषु मध्ये च पीठक्लृप्तेः प्राक् ॥ १४.६ ॥
ह्रस्वत्रयक्लीबवियोजिताभिः
क्रमात्कृशान्विन्दुयुताभिरज्भिः।
सहाभिपूज्या नव शक्तयः स्युः
प्रोद्योतनाः प्राज्यतरप्रभावाः ॥ १४.७ ॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा।
अमोघा विद्युता चैव नवमी सर्वतोमुखी ॥ १४.८ ॥
ब्रह्माविष्णुशिवात्मकं
समीर्य सौराय योगपीठाय।
प्रोक्त्वेति नतिमपि पुनः
समापयेत्पीठमन्त्रमहिमरुचेः ॥ १४.९ ॥
आवाह्य हार्ल्लेखिकमर्कमर्घ्य
पाद्याचमाद्यैर्मधुपर्कयुक्तैः।
प्रपूजयेदावरणैः समस्त
संपत्त्यवाप्त्यै तदधीनचेताः ॥ १४.१० ॥
हृल्लेखाद्याः पञ्च च
यष्ट्वाङ्गैस्तदनु मातृभिः पश्चात्।
ओंकाराद्यैराशा
पालैरभ्यर्चयेत्क्रमान्मन्त्री ॥ १४.११ ॥
प्रतिपूज्य शक्तिमिति तत्र पुरः
प्रणिधाय ताम्ररचितं चषकम्।
प्रजपन्मनुं प्रतिगतक्रमतः
प्रतिपूरयेत्सुविमलैः सलिलैः ॥ १४.१२ ॥
अक्षतकुशयवदूर्वा
तिलसर्षपकुसुमचन्दनोपेतैः।
प्रस्थग्राह्यच्छिद्रं
स्वैक्यं संभावयन्समाहितधीः ॥ १४.१३ ॥
इष्ट्वा दिनेशमथ पीठगतं तथैव
व्योमस्थितं परिवृतावरणं विलोक्य।
अष्टोत्तरं शतमथ प्रजपेन्मनुं तं
पूर्वोत्तरं निजकरेण पिधाय पात्रम् ॥ १४.१४ ॥
भूयोऽभ्यर्च्य सुधामयं जलमथो तद्गन्धपुष्पादिभि
र्जानुभ्यामवनिं गतश्चषकमप्यामस्तकं प्रोद्धरन्।
दद्यान्मण्डलबद्धदृष्टिहृदयो भक्त्यार्घ्यमोजोबल
ज्योतिर्दीप्तियशोधृतिस्मृतिकरं लक्ष्मीप्रदं भास्वते ॥ १४.१५ ॥
अथ कृतपुष्पाञ्जलिरपि
पुनरष्टशतं जपेन्मनुं मन्त्री।
यावद्रश्मिषु भानो
र्व्याप्नोत्यम्भः सुधामयं तदपि ॥ १४.१६ ॥
अमृतमयजलावसिक्तगात्रो
दिनपतिरप्यमृतत्वमातनोति।
धनविभवसुदारमित्रपुत्रं
पशुगणजुष्टमनन्तभोगयोगि ॥ १४.१७ ॥
तस्मादिनाय दिनशो ददताद्दिनादौ
दैन्यापनोदितनवे दिनवल्लभाय।
अर्घ्यं समग्रविभवस्त्वथ वार्कवारे
पारं स गच्छति भवाह्वयवारिराशेः ॥ १४.१८ ॥
अनुदिनमर्चयितव्यः
पुंसा विधिनामुनाथ वा रवये।
दद्यादर्घ्यद्वयमपि
कुर्याद्वा वाञ्छितार्थसमवाप्त्यै ॥ १४.१९ ॥
एकीकृत्य समस्तवस्त्वनुगतानादित्यचन्द्रानला
न्वेदाद्येन गुणात्मकेन सगुणानाकृष्य हृल्लेखया।
सर्वं तत्प्रतिमथ्य तावपि समावष्टभ्य हंसात्मना
नित्यं शुद्धमनन्यमक्षरपदं मन्त्री भवेद्योगतः ॥ १४.२० ॥
अथ वदाम्यजपामनुमुत्तमं
सकलसंसृतियापनसाधनम्।
दुरितरोगविषापहरं नृणा
मिह परत्र च वाञ्छितसिद्धिदम् ॥ १४.२१ ॥
विष्णुपदं ससुधाकरखण्डं
चन्द्रयुगावधिकं वतुरीयम्।
क्षेत्रविदो मनुरेष समुक्तो
यं प्रजपत्यपि संततमात्मा ॥ १४.२२ ॥
ऋष्याद्या ब्रह्मदैव्यादिगायत्रीपरमात्मकः।
हंसाक्लीबकलादीर्घयुजाङ्गानि समाचरेत् ॥ १४.२३ ॥
अरुणकनकवर्णं पद्मसंस्थं च गौरी(?)
हरनियमितचिह्नं सौम्य तानूनपातम्।
भवतु भवदभीष्टावाप्तये पाशाटङ्का
भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ १४.२४ ॥
प्रजपेद्द्वादशलक्षं
मनुमिममाज्यान्वितैश्च दौग्धान्नैः।
तावत्सहस्रमानं
जुहुयात्सौरे समर्चनापीठे ॥ १४.२५ ॥
निक्षिप्य कलमस्मि
न्पूर्वोक्तानामपामथैकेन।
आपूर्य चोपचर्य च
विद्वानङ्गैः प्रपूजयेत्पूर्वम् ॥ १४.२६ ॥
ऋतवसुवरनरसंज्ञा
स्तथर्तवो बद्रिपूर्विकाजान्ताः।
आशोपाशास्थेया
स्ततो दिशापास्ततश्च वज्राद्याः ॥ १४.२७ ॥
इति परिपूज्य च कलशं
पुनरभिषिच्याथ नियमितोऽर्घ्यमपि।
दद्यादिनाय चैहिक
पारत्रिकसिद्धये चिरं मन्त्री ॥ १४.२८ ॥
इन्दुद्वयोदितसुधारसपूर्णसार्ण
संबद्धबिन्दुसुसमेधितमादिबीजम्।
संचिन्त्य यो मनुमिमं भजते मनस्वी
स्वात्मैक्यतोऽथ दुरितैः परिमुच्यतेऽसौ ॥ १४.२९ ॥
व्योमानुगेन च सुधाम्बुमुचा सुदामा
प्रद्योतमानसविनिःसृतशीतरुग्भ्याम्।
आबाधिता दहनचन्द्रलसन्महोभ्यां
रोगापमृत्युविषदाहरुजः प्रयान्ति ॥ १४.३० ॥
हंसाण्डाकाररूपं स्रुतपरमसुधं मूर्ध्नि चन्द्रं ज्वलन्तं
नीत्वा सौषुम्नमार्गं निशितमतिरथ व्याप्तदेहोपगात्रम्।
स्मृत्वा संजप्य मन्त्रं पलितविषशिरोरुग्ज्वरोन्मादभूता
पस्मारादींश्च मन्त्री हरति दुरितदौर्भाग्यदारिद्र्यदोषैः ॥ १४.३१ ॥
विधाय लिपिपङ्कजं मनुयुतोल्लसत्कर्णिकं
निधाय घटमत्र पूरयतु वारिणा तन्मुखम्।
विधाय शशिनात्ममन्त्रयुतवामदोष्णा पुनः
सुधायितरसैः स्वसाध्यमभिषेचयेत्तज्जलैः ॥ १४.३२ ॥
नारी नरो वा विधिनाभिषिक्तो
मन्त्रेण तेनेति विषद्वयोढैः।
रोगैस्तदाधिप्रभवैर्वियुक्त
श्चिराय जीवेत्करणैः सुशुद्धैः ॥ १४.३३ ॥
करेण तेनैव जलाभिपूर्णं
प्रजप्य मन्त्री करकं पिधाय।
सुधायितैस्तैर्विषिणं निषिञ्चे
द्विषं निहन्यादपि कालकूटम् ॥ १४.३४ ॥
गदितं निजपाणितलं विषिणः
शिरसि प्रविधाय जलैः शितधीः।
अचिरात्प्रतिमोचयते विषतो
मतिमानथ तक्षकदष्टमपि ॥ १४.३५ ॥
इत्यजपामन्त्रविधिः
संप्रोक्तः संग्रहेण मन्त्रिवराः।
यं प्राप्य सकलवसुसुख
धर्मयशोभुक्तिमुक्तिभाजः स्युः ॥ १४.३६ ॥
अरुणा शिखिदीर्घयुता
हृलेखा श्वेतया युतानन्ता।
प्रोक्तः प्रयोजनानां
तिलकस्तु यथार्थवाचको मन्त्रः ॥ १४.३७ ॥
गुह्यादाचरणतलं
कण्ठादागुह्यमागलं कान्तान्।
विन्यस्य मन्त्रबीजा
न्क्रमेण मन्त्री करोतु चाङ्गानि ॥ १४.३८ ॥
मन्त्रस्य मध्यमनुना
दीर्घयुजाङ्गानि चेह कथितानि।
ध्यायेत्पुनरहिमकरं
मन्त्री निजवाञ्छितार्थलाभाय ॥ १४.३९ ॥
अरुणसरोरुहसंस्थ
स्त्रिदृगरुणोऽरुणसरोजयुगलधरः।
कलिताभयवरदो द्युति
बिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥ १४.४० ॥
कृतसंदीक्षो मन्त्री
दिनकरलक्षं जपेन्मनुं जुहुयात्।
तावत्सहस्रमन्नैः
सघृतैर्मधुराप्लुतैस्तिलैरथ वा ॥ १४.४१ ॥
प्रागभिहितेन विधिना
पीठाद्यं प्रतिविधाय तत्र पुनः।
विन्यस्य कलशमस्मि
न्प्रपूजयेत्तरणिमपि च सावरणम् ॥ १४.४२ ॥
अङ्गैः प्रथमावरणं
ग्रहैर्द्वितीयं तृतीयमाशेशैः।
मुख्यतरगन्धसुमनो
धूपाद्यैरात्तभक्तिनम्रमनाः ॥ १४.४३ ॥
प्रागादिदिशासंस्थाः
शशिबुधगुरुभार्गवाः क्रमेण स्युः।
आग्नेयादिष्वश्रिषु
धरणिजमन्दाहिकेतवः पूज्याः ॥ १४.४४ ॥
शुभ्रसितपीतशुक्ला
रक्तासितधूम्रकृष्णकाः क्रमशः।
चन्द्राद्याः केत्वन्ता
वामोरुन्यस्तवामकरलसिताः ॥ १४.४५ ॥
अपरकराभयमुद्रा
विकृतमुखोऽहिः कराहिताञ्जलियुक्।
दंष्ट्रोग्रास्यो मन्दः
सुवर्णसदृशांशुकादिभूषश्च ॥ १४.४६ ॥
संपूज्यैवं विधिना
विधिवद्गोरोचनादिभिर्द्रव्यैः।
दद्यादर्घ्यं रवये
मन्त्री निजवाञ्छितार्थलाभाय ॥ १४.४७ ॥
गोरोचनास्रतिलवैणवराजिरक्त
शीताख्यशालिकरवीरजपाकुशाग्रान्।
श्यामाकतण्डुलयुतांश्च यथाप्रलाभा
न्संयोज्य भक्तिभरतोऽर्घ्यविधिर्विधेयः ॥ १४.४८ ॥
कृत्वा मण्डलमष्टपत्रलसितं तत्कर्णिकायां तथा
पत्राग्रेषु निधाय कुम्भनवकं तत्पूरयित्वा जलैः।
आवाह्य क्रमशो ग्रहान्नव समाराध्याभिषेकक्रियां
कुर्याद्यो ग्रहवैकृतादि विलयं यान्त्यस्य लक्ष्मीर्भवेत् ॥ १४.४९ ॥
गृहपरिमितमिष्ट्वा पूर्वक्लृप्त्या दिनेशं
प्रतिजुहुत निजर्क्षे वैकृते वा ग्रहाणाम्।
शुभमतिरुपरागे चन्द्रभान्वोः स्वभे वा
रिपुनृपजभये वा घोररूपे गदे वा ॥ १४.५० ॥
अर्कद्विजाङ्घ्रिपमयूरकपिप्पलाश्च
सोदुम्बराः खदिरशम्यभिधाः सदूर्वाः।
दर्भाह्वयाश्च समिधोऽष्टशतं क्रमेण
सव्याहृतीनि घृतहव्यघृतानि होमः ॥ १४.५१ ॥
सोमादीनां दिशि दिशि समाधाय वह्निं यथाव
द्धोमे सम्यक्कृतवति मुदं यान्ति सर्वे ग्रहाश्च।
युद्धे सम्यग्जयमपि रुजः शान्तिमायुश्च दीर्घं
कृत्वा शान्तिं व्रजति पुनेरकत्र वा सर्वहोमः ॥ १४.५२ ॥
अमुना विधिना हुतार्चनाद्यैः
प्रभजेद्यो दिनशो नरो दिनेशम्।
मणिभिः स धनैश्च धान्यवर्यैः
परिपूर्णावसथो भवेच्चिराय ॥ १४.५३ ॥
त्यद्यन्त आर्यसूर्यर्णा मेधारेचिकया गुणः।
व्यत्ययोऽष्टाक्षरः प्रोक्तः सौरः सर्वार्थसाधकः ॥ १४.५४ ॥
देवभाग ऋषिः प्रोक्तो गायत्री च्छन्द उच्यते।
आदित्यो देवता चास्य कथ्यन्तेऽङ्गान्यतो मनोः ॥ १४.५५ ॥
सत्यब्रह्माविष्णुरुद्रैः साग्निभिः सर्वसंयुतैः।
तेजोज्वालामणिं हुंफट्स्वाहान्तैरङ्गमाचरेत् ॥ १४.५६ ॥
आदित्यं रविभानू
भास्करसूर्यौ न्यसेत्स्वरैर्लघुभिः।
सशिरोमुखहृद्गुह्यक
चरणेषु क्रमश एव मन्त्रितमः ॥ १४.५७ ॥
सशिरोमुखगलहृदयो
दरनाभिशिवाङ्घ्रिषु प्रविन्यस्येत्।
प्रणवाद्यैरष्टार्णैः
क्रमेण सोऽयं तदक्षरन्यासः ॥ १४.५८ ॥
अरुणोरुणपङ्कजे निषण्णः
कमलेऽभीतिवरौ करैर्दधानः।
स्वरुचाहितमण्डलस्त्रिणेत्रो
रविराकल्पशताकुलोऽवताद्वः ॥ १४.५९ ॥
संदीक्षितस्तु मन्त्री
मन्त्रं प्रजपेत्तु वर्णलक्षं तम्।
जुहुयात्ित्रमधुरसिक्तै
र्दुग्धतरुसमिद्वरैर्वसुसहस्रम् ॥ १४.६० ॥
अथ वा सघृतैरन्नैः
समर्चयेन्नित्यशोऽर्घ्यमपि दद्यात्।
पूर्वोक्त एव पीठे
कुम्भं प्रणिधाय साधु संपूर्य ॥ १४.६१ ॥
शुद्धाद्भिररुणवासो
युगेन संवेष्ट्य पूजयेत्क्रमशः।
अङ्गावृतैः परस्ता
दादित्याद्यैरुषादिशक्तियुतैः ॥ १४.६२ ॥
मातृभिररुणान्ताभि
र्ग्रहैः सुरैश्चान्तसूर्यपरिषद्भिः।
सोषा सप्रज्ञा च
प्रभा च संध्या च शक्तयः प्रोक्ताः ॥ १४.६३ ॥
संपूज्यैवं दिनेशं पटुमतिरथ जप्त्वा च हुत्वाभिषेकं
कृत्वा दत्तेन संख्यां वसुमपि गुरवे सांशुकं भोजयेच्च।
विप्रानादित्यसंख्यानिति विदितमनुं नित्यशोऽर्घ्यं च दद्या
द्वारे वा भास्करीये शुभतरचरितो वल्लभाय ग्रहाणाम् ॥ १४.६४ ॥
इतीह दिनकृन्मनुं भजति नित्यशो भक्तिमा
न्य एष निचितेन्दिरो भवति नीरुजो वत्सरात्।
समस्तदुरितापमृत्युरिपुभूतपीडादिका
नपास्य सुसुखी च जीवति परं च भूयात्पदम् ॥ १४.६५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे चतुर्दशः पटलः ॥