अथ वक्ष्यामि दुर्गाया मन्त्रान्साङ्गान्सदेवतान्।
सजपार्चाहुतविधीन्प्रीत्यर्थं मन्त्रजापिनाम् ॥ १३.१ ॥
तारो मायामरेशोऽत्रिंपीठो बिन्दुसमन्वितः।
स एव च विसर्गान्तो गायै नत्यन्तिको मनुः ॥ १३.२ ॥
दुर्गास्य देवता च्छन्दो गायत्रं नारदो मुनिः।
तारो माया च दुर्गायै ह्रामाद्यन्ताङ्गकल्पना ॥ १३.३ ॥
शङ्खारिचापशरभिन्नकरां त्रिणेत्रां
तिग्मेतरांशुकलया विलसत्किरीटाम्।
सिंहस्थितां ससुरसिद्धनुतां च दुर्गां
दूर्वानिभां दुरितवर्गहरीं नमामि ॥ १३.४ ॥
कृताभिषेकदीक्षस्तु वसुलक्षं जपेन्मनुम्।
तदन्ते जुहुयात्सर्पिःसंयुक्तेन पयोन्धसा ॥ १३.५ ॥
अष्टसाहस्रसंख्यैस्तु तिलैर्वा मधुराप्लुतैः।
पीठार्चायां प्रयष्टव्याः क्रमात्तच्छक्तयो नव ॥ १३.६ ॥
प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी तथा।
सुप्रभा विजया सर्वसिद्धिदा नवमी तथा ॥ १३.७ ॥
अर्च्या ह्रस्वत्रयक्लीबरहितैश्च स्वरैरिमाः।
तारान्ते वज्रमाभाष्य नखदंष्ट्रायुधानि च ॥ १३.८ ॥
महासिंहाय चेत्युक्त्वा वर्मास्त्रनतयः क्रमात्।
सिंहमन्त्रोऽयमित्येवं संप्रोक्ता पीठकल्पना ॥ १३.९ ॥
अङ्गैः स्यादावृतिः पूर्वा द्वितीया शक्तिभिः स्मृता।
अष्टायुधैस्तृतीया स्याल्लोकपालैश्चतुर्थ्यपि ॥ १३.१० ॥
तदायुधैः पञ्चमी च दुर्गायजनमीदृशम्।
जया च विजया कीर्त्तिः प्रीतिश्चाथ प्रभाह्वया ॥ १३.११ ॥
श्रद्धा मेधा श्रुतिरपि शक्तयः स्वाक्षरादिकाः।
चक्रशङ्खगदाखङ्गपाशाङ्कुशशरा धनुः ॥ १३.१२ ॥
क्रमादष्टायुधाः प्रोक्ता दौर्गा दुर्गतिहारिणः।
इत्थं दुर्गामनौ जापहुतार्चाभिः प्रसाधिते ॥ १३.१३ ॥
मन्त्रीन्दिरावान्भवति दीर्घायुर्दुरिताञ्जयेत्।
यान्यानिच्छति कामान्स्वांस्तांस्तान्प्राप्नोति यत्नतः ॥ १३.१४ ॥
विधाय विधिनानेन कलशं चाभिषेचयेत्।
यमसौ भूतवेतालपिशाचाद्यैर्विमुच्यते।
राजाभिषिक्तो विधिना सपत्नानमुना जयेत् ॥ १३.१५ ॥
अमुना विधिना कृताभिषेका
ललना पुत्रमवाप्नुयाद्विनीतम्।
हवनात्तिलसर्षपैः सहस्र
द्वितयैराशु भवेच्च गर्भरक्षा ॥ १३.१६ ॥
अनयैव जपाभिषेकहोम
क्रियया स्यादनुरञ्जनं जनानाम्।
भजतां सकलार्थसाधनार्थं
मुनिवर्यैः परिकल्पितोऽयमादौ ॥ १३.१७ ॥
उत्तिष्ठपदं प्रथमं
पुरुषि ततः किंपदं स्वपिषियुक्तम्।
भयमपि मेऽन्ते समुप
स्थितमित्युच्चार्य यदिपदं प्रवदेत् ॥ १३.१८ ॥
शक्यमशक्यं वोक्त्वा
तन्मे भगवति निगद्य शमयपदम्।
प्रोक्त्वा ठद्वितययुतं
सप्तत्रिंशाक्षरो मनुः प्रोक्तः ॥ १३.१९ ॥
आरण्यकोऽत्यनुष्टु
ब्वनदुर्गाख्याः क्रमेण भगवत्याः।
ऋष्यादिकाः स्वमनुना
विहितान्यङ्गानि वाक्यभिन्नेन ॥ १३.२० ॥
षड्भिश्चतुर्भिरष्टभि
रष्टार्णैः षड्भिरपि च पञ्चार्णैः।
जातियुतैश्च विदध्या
दङ्गानि च षट् क्रमेण विशदमतिः ॥ १३.२१ ॥
पद्द्वयसंधिगुदान्ध्वा
धारोदरपार्श्वहृत्स्तनेषु गले।
दोःसंधिवदननासा
कपोलदृक्कर्णयुग्भ्रुके न्यस्येत् ॥ १३.२२ ॥
हेमप्रख्यामिन्दुखण्डात्तमौलिं
शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम्।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां
देवीं दुर्गां दिव्यरूपां नमामि ॥ १३.२३ ॥
अरिशङ्खकृपाणखेटबाणा
न्सधनुःशूलकतर्जिनीर्दधाना।
भवतां महिषोत्तमाङ्गसंस्था
नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥ १३.२४ ॥
चक्रदरखङ्गखेटक
शरकार्मुकशूलसंज्ञककपालैः।
ऋष्टिमुसलकुन्तनन्दक
वलयगदाभिण्डिपालशक्त्याख्यैः ॥ १३.२५ ॥
उद्यद्विकृतिभुजाढ्या
महिषाङ्गे सजलजलदसंकाशा।
सिंहस्था वाग्निनिभा
पद्मस्था वाथ मरतकप्रख्या ॥ १३.२६ ॥
व्याघ्रत्वक्परिधाना
सर्वाभरणान्विता त्रिणेत्रा च।
अहिकलितनीलकुञ्चित
कुन्तलविलसत्किरीटशशिशकला ॥ १३.२७ ॥
सर्पमयवलयनूपुर
काञ्चीकेयूरहारसंपन्ना
सुरदितिजाभयभयदा
ध्येया कात्यायनी प्रयोगविधौ ॥ १३.२८ ॥
संयतचित्तो लक्षच
तुष्कं जप्त्वा हुनेद्दशांशेन।
व्रीहितिलाज्यहविर्भिः
सम्यक्संचिन्त्य भगवतीमनले ॥ १३.२९ ॥
पीठे पूर्वप्रोक्ते
पूज्याङ्गैः शक्तिभिस्तथाष्टाभिः।
अष्टायुधैश्च मातृभि
राशेशैः क्रमश एव दुर्गेयम् ॥ १३.३० ॥
आर्या दुर्गा भद्रा
सभद्रकाली तथाम्बिकाख्या च।
क्षेम्या सवेदगर्भा
क्षेमकरी चेति शक्तयः प्रोक्ताः ॥ १३.३१ ॥
अरिदरकृपाणखेटक
बाणधनुःशूलसंयुतकपालाः।
अष्टायुधाः क्रमोक्ताः
पूर्वविधानवदथोदितं शेषम् ॥ १३.३२ ॥
इत्थं जपार्चनाहुत
सिद्धमनोर्मन्त्रिणः प्रयोगविधिः।
विहितो जपः प्रतिदिनं
निजरक्षायै शतं सहस्रं वा ॥ १३.३३ ॥
उद्दिश्य यद्यदेनं
मनुं जपेदथ सहस्रमयुतं वा।
तत्तन्मन्त्री लभ्ये
दचिरात्तदनुग्रहादसाध्यमपि ॥ १३.३४ ॥
स्नात्वार्काभिमुखः स
न्नाभिद्वयसेऽम्भसि स्थितो मन्त्री।
अष्टोर्ध्वशतं प्रजपे
न्निजवाञ्छितसिद्धये च लक्ष्म्यै च ॥ १३.३५ ॥
ध्यात्वा त्रिशूलहस्तां
ज्वरसर्पग्रहविपत्सु जन्तूनाम्।
संस्पृश्य शिरसि जप्या
त्तज्जन्योपद्रवं शमयेत् ॥ १३.३६ ॥
अयुतं तिलैर्वनोत्थै
राजीभिर्वा हुनेत्समिद्भिर्वा।
मायूरिकीभिरचिरा
त्सोऽपस्मारादिकांश्च नाशयति ॥ १३.३७ ॥
जुहुयाद्रोहिणसमिधा
मयुतं मन्त्री पुनः सशुङ्गानाम्।
सर्वापदां विमुक्त्यै
सर्वसमृद्ध्यै ग्रहादिशान्त्यै च ॥ १३.३८ ॥
आर्कैः समित्सहस्रैः
प्रतिजुहुयादर्कवारमारभ्य।
दशदिनतोऽर्वाग्वाञ्छित
सिद्धिर्देव्याः प्रसादतो भवति ॥ १३.३९ ॥
शुद्धैः सारैरिध्मै
स्त्रिदिनं वा सप्तरात्रकं वापि।
प्रतिशकलं प्रतिजुहुया
न्मनुना निजवाञ्छिताप्तये मन्त्री ॥ १३.४० ॥
विशिखानां त्रिंशत्कं
पुरो निधायाथ तीक्ष्णतैलेन।
जुहुयात्सहस्रकं वा
युतमपि संख्यासु पूरितासु पुनः ॥ १३.४१ ॥
संपातिततैलेन च
शरान्समभ्यज्य पूर्ववज्जप्यात्।
तानथ शूरो धन्वी
शुद्धाचारः प्रवेधयेद्बाणान् ॥ १३.४२ ॥
प्रतिसेनाया मध्ये
सा धावति सद्य एव संभ्रान्ता।
भूयो गुरुं धनैरपि
धान्यैः परिपूजयेच्च कारयिता ॥ १३.४३ ॥
अष्टोत्तरशतजप्तं
यच्छिरसि प्रक्षिपेच्चिताभस्म।
स तु विद्विष्टो लोकै
र्देशाद्देशान्तरं परिभ्रमति ॥ १३.४४ ॥
कारस्करस्य पत्रै
रष्टसहस्रैर्निपातितैर्मरुता।
जुहुयात्सपादपांसुभि
रुच्चाटकरं भवेद्रिपोः सद्यः ॥ १३.४५ ॥
सेनां संस्तम्भयितुं
विषतरुसुमनःसहस्रकं जुहुयात्।
तावद्भिस्तत्पत्रै
र्जुहुयान्मन्त्री च तां निवर्तयितुम् ॥ १३.४६ ॥
विषतरुमयीं च शत्रोः
प्रतिकृतिमसकृत्प्रतिष्ठितप्राणाम्।
छित्त्वा च्छित्त्वा काको
लूकवसाक्तैः सहस्रमष्टौ च ॥ १३.४७ ॥
असितचतुर्दश्यां त
द्गात्रैर्जुहुयादरण्यकेऽर्धनिशि।
त्रिचतुर्दशीप्रयोगा
दर्वाङ् म्रियते रिपुर्न संदेहः ॥ १३.४८ ॥
स्ववसारक्तोपेतै
र्जुहुयात्पत्रैरुलूकवायसयोः।
म्रियतेऽरातिर्मत्त
स्तून्मत्तसमित्सहस्रहोमेन ॥ १३.४९ ॥
संस्थापितानिलां तां
प्रतिकृतिमुष्णोदके विनिक्षिप्य।
प्रजपेदुन्मादः स्या
च्छत्रोर्दुग्धाभिषेकतः शान्तिः ॥ १३.५० ॥
रविबिम्बगतामरुणां
करयुगपरिक्लृप्तशूलतर्जनिकाम्।
ध्यात्वायुतं प्रजप्या
न्मारयितुं सद्य एव रिपुनिवहम् ॥ १३.५१ ॥
असिखेटकरार्कस्था
क्रुद्धा मारयति सैव जपविधिना।
सिंहस्था बाणधनु
ष्करा समुच्चाटयेदरीनचिरात् ॥ १३.५२ ॥
विषतरुसमिदयुतहुता
दथ करिणो रोगिणो भवन्त्यचिरात्।
तत्पर्णैश्च विनाश
स्तेषामुच्चाटनं च तत्पुष्पैः ॥ १३.५३ ॥
आनित्यसमिद्धोमा
द्रोगा नश्यन्ति दन्तिनामचिरात्।
तत्पुष्पैर्मधुराक्तै
र्होमाच्च वशीभवन्ति मातङ्गाः ॥ १३.५४ ॥
त्रिमधुरयुतैरनित्यक
पत्रैर्मत्ता भवन्ति ते सद्यः।
रक्षाकरस्तु करिणां
तज्जापितपञ्चगव्यलेपः स्यात् ॥ १३.५५ ॥
आज्यतिलराज्यनित्यक
दुग्धोदकपञ्चगव्यतण्डुलकैः।
सघृतैश्च प्रत्येकं
सहस्रहवनं गजाश्ववर्धनकृत् ॥ १३.५६ ॥
द्विजभूरुहं महान्तं
छित्त्वा निर्भिद्य पञ्चधा भूयः।
आशाक्रमेण पञ्चा
युधा विधेयाश्च साधुशिल्पविदा ॥ १३.५७ ॥
शङ्खः सनन्दकोऽरिः
शार्ङ्गः कौमोदकी दिशाक्रमतः।
पञ्चेति पञ्चगव्ये
निधाय जप्याच्च पञ्चसाहस्रम् ॥ १३.५८ ॥
तावद्धृतेन जुहुया
त्तेष्वथ संपात्य साधु संपातम्।
पुनरपि तावज्जप्त्वा
मध्याद्यवटेषु पञ्चगव्ययुतम् ॥ १३.५९ ॥
संस्थाप्य समीकृत्य च
बलिं हरेत्तत्र तत्र तन्मन्त्रैः।
पुरराष्ट्रग्रामाणां
कार्या रक्षैवमेव मन्त्रविदा ॥ १३.६० ॥
यस्मिन्देशे विहिता
रक्षेयं तत्र वर्धते महालक्ष्मीः।
धनधान्यसमृद्धिः स्या
द्रिपुचोराद्याश्च नैव बाधन्ते ॥ १३.६१ ॥
पद्मोत्पलकुमुदहुतै
र्नृपपत्नीब्राह्मणान्वशीकुरुते।
कह्लारलोणहोमै
र्विट्छूद्राञ्जातिभिस्तथा ग्रामम् ॥ १३.६२ ॥
अथ वारिदरगदाम्बुज
करं मुकुन्दं विचिन्त्य रविबिम्बे।
व्यत्यस्तपुरुषभगवति
पदं मनुं जपतु सर्वसिद्धिकरम् ॥ १३.६३ ॥
साध्याख्याक्षरगर्भितं मनुममुं पत्रे लिखित्वा च त
च्चक्रीहस्तमृदा कृतप्रतिकृतेर्विन्यम्य मन्त्री हृदि।
सप्ताहं त्वथ पुत्तलीमभिमुखे संस्थाप्य संध्यात्रये
जप्यादष्टशतं चिराय वशतां गच्छत्यसौ निश्चयः ॥ १३.६४ ॥
व्रीहीणां जुहुयान्नरोऽष्टशतकं संवत्सराद्व्रीहिमा
न्गोदुग्धैः पशुमान्घृतैः कनकवान्दध्ना च सर्वर्द्धिमान्।
अन्नैरन्नसमृद्धिमांश्च मधुभिः स्याद्रत्नवान्दूर्वया
प्यायुष्मान्प्रतिपद्धुतेन महतीं सद्यः श्रियं प्राप्नुयात् ॥ १३.६५ ॥
छान्तं मरुत्तुरीयवर्णयुतं सवाद्यं
संवीप्स्य शूलिनिपदं च सदुष्टशब्दम्।
पञ्चान्तकं सदहनं परिभाष्य हान्तं
हुंफड्द्विठान्तमिति शूलिनिमन्त्रमेतत् ॥ १३.६६ ॥
ऋषिर्दीर्घतमाश्छन्दः ककुब्दुर्गा च देवता।
दुर्गा हृद्वरदा शीर्षं शिखा स्याद्विन्ध्यवासिनी ॥ १३.६७ ॥
वर्म चासुरमर्दिन्या युद्धपूर्वप्रिये तथा।
त्रासयद्वितयं चास्त्रं देवसिद्धसुपूजिते ॥ १३.६८ ॥
नन्दिन्यन्ते रक्षयुगं महायोगेश्वरीति च।
शूलिन्याद्यं तु पञ्चाङ्गं हुंफडन्तमितीरितम्।
अङ्गकर्मैव रक्षाकृत्प्रोक्तं ग्रहनिवारणम् ॥ १३.६९ ॥
बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान्कराब्जै
र्मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या।
सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता
कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसनी शूलिनी वः ॥ १३.७० ॥
एवं विचिन्त्य पुनरक्षरलक्षमेनं
मन्त्री जपेत्प्रतिजुहोतु दशांशातोऽन्ते।
आज्येन साज्यहविषा प्रयजेच्च देवी
मङ्गाष्टशक्तिनिजहेतिदिशाधिनाथैः ॥ १३.७१ ॥
दुर्गा च वरदा विन्ध्यवासिन्यसुरमर्दिनी।
युद्धप्रिया देवसिद्धपूजिता नन्दिनी तथा ॥ १३.७२ ॥
महायोगेश्वरी चाष्ट शक्तयः समुदीरिताः.।
रथाङ्गशङ्खासिगदाबाणकार्मुकसंज्ञिताः ॥ १३.७३ ॥
सशूलपाशा यष्टव्या दिक्क्रमादष्ट हेतयः।
दीक्षाजपहुतार्चाभिः सिद्धिः कर्म समाचरेत्।
आमयोन्मादभूतापस्मारक्ष्वेलशमादिकम् ॥ १३.७४ ॥
उद्धूर्णैः प्रहरणकैरुदीर्णवेगैः(?)
शूलाद्यैर्निजमथ शूलिनीं विचिन्त्य।
आविश्य क्षणमिव जप्यमानमन्त्र
स्यावृत्त्या द्रुतमपयान्ति भूतसंघाः ॥ १३.७५ ॥
अन्तराथ पुनरात्मरोगिणा
मम्बिकामपि निजायुधाकुलाम्।
संविचिन्त्य जपतोऽरिमुद्रया
विद्रवन्त्यवशविग्रहा ग्रहाः ॥ १३.७६ ॥
अहिमूषिकवृश्चिकादिजं वा
बहुपात्कुक्कुरलूतिकोद्भवं वा।
विषमाशु विनाशयेन्नराणां
प्रतिपत्त्यैव च विन्ध्यवासिनी सा ॥ १३.७७ ॥
आधाय बाणे निशितेऽथ देवीं
क्षेमंकरीं मन्त्रमिमं जपित्वा।
तद्वेधनादेव विपक्षसेना
दिशो दशाधावति नष्टसंज्ञा ॥ १३.७८ ॥
आत्मानमार्यां प्रतिपद्य शूल
पाशान्वितां वैरिबलं प्रविश्य।
मन्त्रं जपन्नाशु परायुधानि
गृह्णाति मुष्णाति च बोधमेषाम् ॥ १३.७९ ॥
तिलसिद्धार्थैर्जुहुया
ल्लक्षं मन्त्री सपत्ननामयुतम्।
स तु रोगाभिहतात्मा
मृतिमेति न तत्र संदेहः ॥ १३.८० ॥
त्रिमधुरयुक्तैश्च तिलै
रष्टसहस्रं जुहोति योऽनुदिनम्।
अप्रतिहतास्य शक्ति
र्भूयात्प्रागेव वत्सरतः ॥ १३.८१ ॥
सर्पिषाष्टशतहोमतोऽमुना
वाञ्छितं सकलमब्दतो भवेत्।
दूर्वया त्रिकयुजेप्सितं लभे
त्सम्यगष्टशतसंख्यया हुतात् ॥ १३.८२ ॥
क्षुरिकाकृपाणनखरा
मन्त्रेणानेन साधु संजप्ताः।
संपाताज्यसुसिक्ता
अप्रतिहतशक्तयो भवन्ति युधि ॥ १३.८३ ॥
गोमयविहिताङ्गुलिकां
जुहुयाच्छतमष्टपूर्वकं मन्त्री।
दिवसैः सप्तभिरिष्टौ
द्विष्टौ च मिथो वियोगिनौ भवतः ॥ १३.८४ ॥
अस्पृष्टकुं गोमयमन्तरिक्षे
संगृह्य जप्त्वा त्रिसहस्रमानम्।
धियासतां वै निखनेन्नराणां
संस्तम्भनं द्वारि चमूमुखे च ॥ १३.८५ ॥
पानीयान्धःपाणिमार्यां प्रसन्नां
ध्यात्वा ग्रामं वा पुरं वापि गच्छन्।
जप्त्वा मन्त्रं तर्पयित्वा प्रविष्टो
मृष्टं भोज्यं प्राप्नुयाद्भृत्यवर्गैः ॥ १३.८६ ॥
आर्कैर्मन्त्री त्रिमधुरयुतैरर्कसाहस्रमिध्मै
राश्वत्थैर्वा त्वतिविशदचेतास्तिलैर्वा जुहोतु।
यानुद्दिश्यावहितमनसा तन्मये सम्यगग्नौ
ते वश्याः स्युर्विधुरितधियो नात्र कार्यो विचारः ॥ १३.८७ ॥
कुर्यात्प्रयोगानपि दावदुर्गा
कल्पोदितान्वै मनुनामुना च।
मन्त्री जपार्चाहुतितर्पणाद्या
न्नाल्पो हि मन्वोरनयोर्विशेषः ॥ १३.८८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रयोदशः पटलः ॥