१२

अथ रमाभुवनेशिमनोभवै

स्त्रिपुटसंज्ञकमन्त्रमुदीरितम्।

सकलवर्गफलाप्तियशस्करं
जगति रञ्जनकृत्कविताकरम् ॥ १२.१ ॥

बीजैस्त्रिभिर्द्विरुक्तैः

कुर्यादङ्गानि साधकः सिद्ध्यै।

पूर्वतरेरितयोर्वा
द्वयोरथैकं तदङ्गयोः प्रभजेत् ॥ १२.२ ॥

नवकनकभासुरोर्वी

विरचितमणिकुट्टिमे सकल्पतरौ।

रत्नवरबद्धसिंहा
सननिहितसरोरुहे समासीनाम् ॥ १२.३ ॥

आबद्धरत्नमकुटां मणिकुण्डलोद्य

त्केयूरकोर्मिरशनाह्वयनूपुराढ्याम्।

ध्यायेद्धृताब्जयुगपाशकशाङ्कुरेक्षु
चापां सपुष्पविशिखां नवहेमवर्णाम् ॥ १२.४ ॥

चामरमुकुरसमुद्गक

ताम्बूलकरङ्कवाहिनीभिश्च।

दूतीभिः समभिवृतां
पश्यन्तीं साधकं प्रसन्नदृशा ॥ १२.५ ॥

योगेश्वरीमिति विचिन्त्य जपेच्च मन्त्र

मादित्यलक्षमथ मन्त्रितमो जपान्ते।

श्रीराजवृक्षसमिधां सजपार्तवानां
तावत्सहस्रसमितं मधुरैर्जुहोतु ॥ १२.६ ॥

अङ्गैर्लक्ष्मीहरिगिरिसुताशर्वरत्यङ्गजातैः

षट्कोणस्थैर्निधियुगयुतैस्तद्बहिर्मातृभिश्च।

योषिद्रूपैर्बहिरपि यजेल्लोकपालैस्तदेत
त्प्रोक्तं देव्या अपि सुरगणैः पूजनीयं विधानम् ॥ १२.७ ॥

लक्ष्मीगौरीमनसिशयबीजानि कृत्वा कलायां

तां वा बिन्दौ तमपि गगने तच्च सिन्दूरवर्णम्।

स्मृत्वा बुद्ध्या भुवनमखिलं तन्मयन्वेन मन्त्री
देवान्वश्यानपि वितनुते किं पुनर्मर्त्यजातीन् ॥ १२.८ ॥

य इमं भजते मनुं मनस्वी

विधिना वा पुनरर्चयेद्विधानम्।

स तु सम्यगवाप्य दृष्टभोगा
न्परतस्तत्पदमैशमेति धाम ॥ १२.९ ॥

सहृदयभगवत्यै दान्तरण्यै धरार्णाः

सणिधरशिवधार्णारे द्विठान्ता ध्रुवाद्याः।

गदितमिति धराया मन्त्रमुत्कृष्टधात्री
सुखसुतधनधान्यप्राप्तिदं कीर्त्तिदं च ॥ १२.१० ॥

ऋषिरपि वराह उक्त

श्छन्दो निचृदस्य देवता धरणी।

मनुनामुनैव च पदैः
षोढा भिन्नेन निगदितोऽङ्गविधिः ॥ १२.११ ॥

मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा

चञ्चच्छाल्यग्रचुम्बच्छुकलसितकरा प्राप्तनीलोत्पला च।

रत्नाकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्ना
दिश्याद्विश्वंभरा वः सततमभिमतं वल्लभा कैटभारेः ॥ १२.१२ ॥

लक्षायता च सदशांशहुतावसाना

प्रोक्ता धराहृदयमन्त्रजपक्रिया स्यात्।

सर्पिष्मता सुविमलेन पयोन्धसास्य
होमो विधिः सकलसिद्धिकरः किलायम् ॥ १२.१३ ॥

पीठे विष्णोः पूजयेत्पूर्वमन्त्रै

र्भूवह्न्यम्बुप्राणसंज्ञैश्च भूतैः।

शान्त्यन्ताभिः शक्तिभिः साकमाशा
पालैः पृथ्वीं संयतात्मोपचारैः ॥ १२.१४ ॥

पुष्पैः प्रियङ्गोर्मधुरत्रयाक्तै

र्नीलोत्पलैर्वापि तथारुणैस्तैः।

सहस्रमानं प्रतिजुह्वतः स्या
द्गौर्गोमती सस्यकुलाकुला च ॥ १२.१५ ॥

पिङ्गलां पृथुलशालिमञ्जरीं

यो जुहोति मधुरत्रयोक्षिताम्।

नित्यशः शतमथास्य मण्डला
द्धस्तगा भवति विस्तृता मही ॥ १२.१६ ॥

भृगोस्तु वारे निजसाध्यभूभृ

द्विलोलिताम्भःपरिपक्वमन्धः।

पयोघृताक्तं जुहुयात्सहस्रं
दुग्धेन वा तेन दिनावतारे ॥ १२.१७ ॥

षण्मासादनुभृगुवारमेष होमः

संपन्नान्समुपनयेद्धराप्रदेशान्।

पुत्रान्वा पशुमहिषेष्टजुष्टपुष्टा
मिष्टामप्यनुदिनमिन्दिरां समग्राम् ॥ १२.१८ ॥

संक्षेपतो हृदयमन्त्रविधिर्धरायाः

प्रोक्तो हिताय जगतां रहितक्षमाणाम्।

एनं भजन्निति धराकमलासमृद्धः
स्यादत्र सिद्धिमपरत्र परां प्रयाति ॥ १२.१९ ॥

अथ पुरुषार्थचतुष्टय

सिद्धिकरी मन्त्रजापनिरतानाम्।

त्वरिताख्येयं विद्या
निगद्यते जपहुतार्चनाविधिभिः ॥ १२.२० ॥

भक्तियुतानां त्वरया

सिद्धिकरी चेति मन्त्रिणां सततम्।

देव्यास्त्वरिताख्या स्या
त्त्वरितं क्ष्वेलग्रहादिहरणतया ॥ १२.२१ ॥

वर्मद्धर्ये च तदन्त्यः

शिवयुक्चरमेऽङ्गनाद्युसाधिलवम्।

अन्त्यः स योनिरस्त्रा
न्तिकः सतारो मनुर्दशार्णयुतः ॥ १२.२२ ॥

तारान्तेऽस्त्रादावपि

मायाबीजं प्रयोजयेन्मन्त्री।

तेन हि काङ्क्षितसिद्धि
र्भूयादचिरेण मन्त्रविदाम् ॥ १२.२३ ॥

कूर्मादिभ्यां द्वाभ्यां

द्वाभ्यामपि पूर्वपूर्वहीनाभ्याम्।

कुर्यात्सप्तभिरर्णै
रङ्गानि च षट् क्रमेण मन्त्रज्ञः ॥ १२.२४ ॥

कालिकगलहृन्नाभिक

गुह्योरुषु जानुजङ्घयोः पदयोः।

देहे न्यासं कुर्या
न्मन्त्रेण व्यापकं समस्तेन ॥ १२.२५ ॥

श्यामतनुमरुणपङ्कज

चरणतलां वृषलनागमञ्जीराम्।

स्वर्णांशुकपरिधानां
वैश्याहिद्वन्द्वमेखलाकलिताम् ॥ १२.२६ ॥

तनुमध्यलतां पृथुल

स्तनयुगलां करविराजदभयवराम्।

शिखिपिञ्छनालवलयां
गुञ्जाफलगुणितभूषणारुणिताम् ॥ १२.२७ ॥

नृपफणिकेयूरां तां

गलविलसद्विविधमणियुताभरणाम्।

द्विजनागविहितकुण्डल
मण्डितगण्डद्वयीमुकुरशोभाम् ॥ १२.२८ ॥

शोणतराधरपल्लव

विद्रुममणिभासुरां प्रसन्नां च।

पूर्णशशिबिम्बवदना
मरुणायतलोचनत्रयीनलिनाम् ॥ १२.२९ ॥

कुञ्चितकुन्तलविलस

न्मकुटाघटिताहिवैरिपिञ्छयुताम्।

कैरातीं वनकुसुमो
ज्ज्वलां मयूरातपत्रकेतनिकाम् ॥ १२.३० ॥

सुरुचिरसिंहासनगां

विभ्रमसमुदायमन्दिरां तरुणीम्।

तामेनां त्व(?)रिताख्यां
ध्यात्वा कुर्याज्जपार्चनाहोमान् ॥ १२.३१ ॥

दीक्षां प्राप्य गुरोरथ

लक्षं जप्याद्दशांशकं जुहुयात्।

बिल्वसमिद्भिस्त्रिमधुर
युक्ताभिः साधकः सुसंयतधीः ॥ १२.३२ ॥

अष्टहरिविधृतसिंहा

सने समावाह्य सरसिजे देवीम्।

अङ्गैः सह प्रणीतां
गायत्रीं पूजयेद्दिशां क्रमतः ॥ १२.३३ ॥

हुङ्काराख्या खेचरि

चण्डेसच्छेदनी तथा क्षपणी।

भूयः स्त्रियाह्वया हुं
कारीसक्षेमकारिकाः पूज्याः ॥ १२.३४ ॥

सश्रीबीजा लोके

शायुधभूषान्विता दलाग्रेषु।

फट्कारी चाप्यग्रे
शरासशरधारिणी च तद्बाह्ये ॥ १२.३५ ॥

सस्वर्णवेत्रयष्ट्यौ

द्वाःस्थे पूज्ये पुनर्जयाविजये।

कृष्णो बर्बरकेशो
लगुडधरः किंकरश्च तत्पुरतः ॥ १२.३६ ॥

अरुणैश्चन्दनकुसुमै

र्वनजैरपि धूपदीपनैवेद्यैः।

प्रवरैश्च नृत्तगीतैः
समर्चयेद्भक्तिभारनम्रतनुः ॥ १२.३७ ॥

जपहुतपूजाभेदै

रिति सिद्धे मन्त्रजापिनो मन्त्रे।

नारीनरनरपतयः
कुर्वन्ति सदा नमस्क्रियामस्मै ॥ १२.३८ ॥

विद्याधर्यो यक्ष्यः

ससुरासुरसिद्धचारणप्रमदाः।

अप्सरसश्च विशिष्टाः
साधकसक्तेन चेतसाकुलिताः ॥ १२.३९ ॥

स्मरशरविह्वलिताङ्ग्यो

रोमाञ्चितगात्रवल्लरीललिताः।

घनघर्मबिन्दुमौक्तिक
विलसत्कुचगण्डमण्डलद्वितयाः ॥ १२.४० ॥

विस्पष्टजघनवक्षो

रुहदोर्मूलाः स्खलत्पदन्यासाः।

मुकुलितनयनसरोजाः
प्रस्पन्दितदशनवसनसंभिन्नाः ॥ १२.४१ ॥

श्लथमानांशुकचिकुरा

मदविवशस्खलितमन्दभाषिण्यः।

मृदुतरमस्तकविरचित
नत्यञ्जलयः प्रसादकाङ्क्षिण्यः ॥ १२.४२ ॥

वीक्षस्व देहि वाचं

परिरम्भणपरमसौख्यमस्माकम्।

एहि सुरोद्यानादिषु
रंस्यामः स्वेच्छया निरातङ्कम् ॥ १२.४३ ॥

इत्यादि वाणिनीभि

र्विलोभ्यमानो यदा न विक्रियते।

मन्त्री तदेत्य वाञ्छित
मखिलं तस्मै ददाति सा देवी ॥ १२.४४ ॥

योनिं कुण्डस्यान्तः

प्रकल्प्य तत्रानलं समाधाय।

संपूज्य पूर्वविधिना
जुहुयात्सर्वार्थसिद्धये मन्त्री ॥ १२.४५ ॥

इक्षुशकलैः समृद्ध्यै

दूर्वाभिः स्वायुषे श्रिये धान्यैः।

धान्याय यवैः पुष्ट्यै
गोधूमैःऋद्धये तिलैर्जुहुयात् ॥ १२.४६ ॥

जम्बूभिः स्वर्णाप्त्यै

राजीभिः शत्रुशान्तयेऽक्षतकैः।

अक्षयसिद्ध्यै वकुलैः
कीत्त्र्यै कुन्दैर्महोदयाय तथा ॥ १२.४७ ॥

अरुणोत्पलैश्च पुष्ट्यै

मधूकजैरिष्टसिद्धयेऽशोकैः।

पुत्राप्त्यै पाटलजैः
स्त्रीसिद्ध्यै निम्बजैश्च विद्विष्ट्यै ॥ १२.४८ ॥

नीलोत्पलकैस्तुष्ट्यै

चम्पकजैः कनकसिद्धये पद्मैः।

सह किंशुकैश्च सर्वो
पद्रवशान्त्यै स साधको जुहुयात् ॥ १२.४९ ॥

हुतसंख्यासाहस्री

नियुता वाथायुतान्तिकी भवति।

यावत्संख्यो होम
स्तावज्जप्यश्च मन्त्रिणा मन्त्रः ॥ १२.५० ॥

अनुमन्त्रितैश्च वारिभि

रासेकः क्ष्वेलशान्तिकृद्भवति।

तज्जप्तयष्टिघातो
मन्त्रितचुलुकोदकाहतिश्च तथा ॥ १२.५१ ॥

तत्कर्णरन्ध्रजापा

त्सद्यो नश्युर्विषग्रहादिरुजः।

तद्यन्त्रस्थापनमपि
विषभूतादिप्रशान्तिकृद्भवति ॥ १२.५२ ॥

आख्यां मध्ये सतारे मनुमथ शतसंयुक्तविंशत्पुटेषु

प्रादक्षिण्येन शर्वादिकमनुविलिखेद्द्वादशावृत्ति मन्त्री।

विंशद्द्वन्द्वाष्टशूलाकलितविरचितं यन्त्रमेतत्सुजप्तं
बद्धं क्ष्वेलग्रहार्तिं हरति विजयलक्ष्मीप्रदं कीर्त्तिदं च ॥ १२.५३ ॥

आख्यां मध्यगतानले लिखतु दिक्पङ्क्तिष्वथ स्युः सह्रूं (?)

क्ष्रूं च्रूं छ्रूं करणद्विषष्टिपदके शैवादि कालीमनुम्।

नैःऋत्यादि तथा क्रमाक्रमवृतं बाह्येऽनलैरावृतं
प्रोक्तं निग्रहचक्रमन्तकपुरप्राप्तिप्रदं वैरिणाम् ॥ १२.५४ ॥

कालीमाररमालीका

लीनमोक्षक्षमोनली।

मामोदेततदेमोमा
रक्षतत्वत्वतक्षरः ॥ १२.५५ ॥

यमापाटटपामाय

माटमोटटमोटमा।

वामो भूरिरिभूमोवा
टररीस्त्वस्त्वरीरट ॥ १२.५६ ॥

वह्नेर्विण्णिम्बनिर्यासकविषमषिभिः सीसपट्टेंशुके वा

शावे पाषाणके वा विलिखतु मतिमान्काकपत्रेण यन्त्रम्।

वल्मीके चत्वरे वा क्षततरुविवरे वा निदध्यादराति
र्मृत्युं प्राप्नोति भूयादवयवविकलो व्याधितः पातितो वा ॥ १२.५७ ॥

चक्रे चाष्टाष्टपदे

कालीशिवयातुधानखण्डाद्यम्।

यमदहनानिलवीतं
विलिख्य विषदण्डिमर्कटीलिप्तम् ॥ १२.५८ ॥

जप्तमधोमुखमेत

द्यत्र तु देशे विनिक्षिपेन्मन्त्री।

तत्रोपद्रवमखिलं
दिनशः सर्वात्मना भवति ॥ १२.५९ ॥

खण्डेष्वेकाशीतिषु मध्येन्दुगसाध्यं

जुंसः पूर्वं दिक्स्थचतुष्पङ्क्तिषु शैखम्।

लिख्याल्लक्ष्मीं शिष्टचतुःषष्ठिषु विद्वा
नीशाद्यं कन्यादि च बाह्ये त्वरिताख्याम् ॥ १२.६० ॥

दिग्दिक्संस्थामस्त्रपदाभिर्वषडन्तां

मेदोमालावेष्टितबिम्बं घटवीतम्।

पद्मस्थं तत्पङ्कजराजद्वदनान्तं
प्रोक्तं चक्रं सम्यगिहानुग्रहसंज्ञम् ॥ १२.६१ ॥

श्रीसामायायामासाश्री

सानोयाज्ञेज्ञेयानोसा।

मायालीलालालीयामा
याज्ञेलालीलीलाज्ञेया ॥ १२.६२ ॥

लाक्षाभिः कुङ्कुमैर्वा विलिखतु धवले वांशुके स्वर्णपट्टे

लेखिन्या स्वर्णमय्या दृढमपि गुलिकीकृत्य संधारयेद्यः।

कृत्याभ्यो मृत्युतो वा ग्रहविषदुरितेभ्यो विमुक्तः स धन्यो
जीवेत्स्वैः पुत्रपौत्रैरपरिमितमहासंपदा दीर्घकालम् ॥ १२.६३ ॥

चतुःषष्ट्यंशे वा क्रमविदथ लक्ष्मीमनुममुं

शिवाद्यं नैःऋत्यादिकमपिः चतुर्णामृतवृतम्।

बहिः स्वच्छे पट्टे कनकविहिते पूर्वविधिना
लिखित्वा जप्त्वा निक्षिपतु शितधीर्यत्र तदिदम् ॥ १२.६४ ॥

चक्रमनुग्रहसंज्ञं

मन्त्री देशेऽत्र संपदो विरतम्।

शुभतरफलदायिन्यो
भवन्ति सस्यर्द्धिकालवृष्ट्याद्याः ॥ १२.६५ ॥

हुंकारे साध्यसंज्ञां विलिखतु तदधः कर्णिकायां च शिष्टा

नष्टौ वर्णान्दलेष्वारचयतु हरमायां त्रिशो वेष्टयित्वा।

कुम्भस्थं यन्त्रमेतत्सरसिजपुटितं सर्वरक्षाप्रसिद्ध्यै
क्लृप्तं सर्वोपसर्गप्रशमनफलदं श्रीकरं वश्यकारि ॥ १२.६६ ॥

इति निगदितक्लृप्त्या पूजयेत्तोतलायां

मनुमनुदिनमेनं मानयन्मानवो यः।

स तु जगति समग्रां संपदं प्राप्य देहा
पदि मुदिततरात्मा युक्तधीर्मुक्तिमेति ॥ १२.६७ ॥

स्मरदीर्घैधरकाग्न्यों

दीर्घाभ्यक्ष्वेलदद्रलान्तशिवाः।

अभितः शक्तिनिरुद्धो
द्वादशवर्णोऽयमीरितो मन्त्रः ॥ १२.६८ ॥

द्वाभ्यां वा चैकेन

द्वाभ्यां द्वाभ्यां तथा पुनर्द्वाभ्याम्।

मन्त्राक्षरैर्विदध्या
दङ्गविधिं जातिसंयुतैर्मन्त्री ॥ १२.६९ ॥

इन्दुकलाकलितोज्ज्वलमौलि

र्मारमदाकुलितायुगनेत्रा।

शोणितसिन्धुतरङ्गितपोत
द्योतितभानुदलाम्बुजसंस्था ॥ १२.७० ॥

दोर्धृतदाडिमसायकपाशा

साङ्कुशचापकपालसमेता।

शोणदुकूलविलेपनमाल्या
शोणतरा भवतोऽवतु देवी ॥ १२.७१ ॥

स्मृत्वा नित्यां देवी

मेवं प्रजपेन्मनुं शतसहस्रम्।

अयुतं जुहुयादन्ते
नृपतरुसमिधां घृतेन वा सिद्ध्यै ॥ १२.७२ ॥

शाक्ते पीठे पूज्या

देवी कुसुमानुलेपनैररुणैः।

स्वयमप्यलंकृताङ्गः
सधूपदीपैर्निवेद्यताम्बूलैः ॥ १२.७३ ॥

हृल्लेखा क्लेदनी नन्दा क्षोभणी मदनातुरा।
निरञ्जना रागवती तथान्या मदनावती ॥ १२.७४ ॥

मेखला द्राविणी चैव भूयोऽन्या वेगवत्यपि।
सस्मारा द्वादश प्रोक्ताः शक्तयः पत्रसंस्थिताः ॥ १२.७५ ॥

अङ्गैः शक्तिभिराभि

र्मातृभिराशाधिपैः क्रमात्पूज्या।

भक्तिभरानतवपुषा
भवभयभङ्गाय मन्त्रिणाहरहः ॥ १२.७६ ॥

दारिद्र्यरोगदुःखै

र्दौर्भाग्यजरापमृत्युदोषैश्च।

अस्पृष्टो निरपायो
जीवति मन्त्रं भजन्नमुं मनुजः ॥ १२.७७ ॥

इतीरिता लोकहिताय वज्र

प्रस्तारिणी मन्दिरमिन्दिरायाः।

या सर्वनारीनरराजवर्ग
संमोहनी मोहनबाणभूता ॥ १२.७८ ॥

निद्रयोरन्तरा त्यक्लिन्ने मदाः स्युश्च वेशिरः।
मायादिकस्तया वर्णद्वन्द्वैश्चाङ्गविधिः स्मृतः ॥ १२.७९ ॥

रक्तारक्तांशुककुसुमविलेपादिका सेन्दुमौलिः

स्विद्यद्वक्त्रा मदविवशसमाघूर्णितत्रीक्षणा च।

दोःसत्पाशाङ्कुशयुतकपालाभया पद्मसंस्था
देवी पायादमितफलदा नित्यशः पार्वती वः ॥ १२.८० ॥

दीक्षितः प्रजपेल्लक्षं मनुमेनं हुनेत्ततः।
मधूकपुष्पैः स्वाद्वक्तैरयुतं हविषा तथा ॥ १२.८१ ॥

पीठं पूर्ववदभ्यर्च्य तत्रावाह्यापि पूजयेत्।
अङ्गैश्च शक्तिभिर्लोकपालैर्देवीं समाहितः ॥ १२.८२ ॥

नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा।
मदद्रवा द्राविणी च द्रविणा शक्तयो मताः ॥ १२.८३ ॥

प्रजपेत्प्रमदां विचिन्त्य यां वा

शयनस्थो मनुवित्सहस्रमानम्।

निशि मारशिलीमुखाहताङ्गी
नचिरात्सा मदविह्वला समेति ॥ १२.८४ ॥

नित्याभिः सदृशतरा न सन्ति लोके

लक्ष्मीदा जगदनुरञ्जनाश्च मन्त्राः।

तस्मात्ताञ्शुभमतयो भजन्तु नित्यं
जापार्चाहुतसमुपासनाविशेषैः ॥ १२.८५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे द्वादशः पटलः ॥